ब्रह्मास्त्रं चैव वेदाश्च नैतदन्यत्र दृश्यते
आचार्यपुत्रः क्षमतां नायं कालो विभेदने । सर्वे संहत्य युद्ध्यामः पाकशासनिमागतम्
बलस्य व्यसनानीह यान्युक्तानि मनीषिभिः । मुख्यो भेदोहि तेषां तु पापिष्ठो विदुषां मतः
नैवं न्याय्यमिदं वाच्यमस्माकं पुरुषर्षभ । किंतु रोषपरीतेन गुरुणा भाषिता गुणाः
शत्रोरपि गुणा ग्राह्या दोषा वाच्या गुरोरपि । सर्वथा सर्वयत्नेन पुत्रे शिष्ये हितं वदेत्
आचार्य एष क्षमतां शान्तिरत्र विधीयताम् । अभिद्यमाने तु गुरौ निवृत्तं रोषकारितम्
ततो दुर्योधनो द्रोणं क्षमयामास भारत। सह कर्णेन भीष्मेण कृपं चैव महाबलम्
यदेतत्प्रथमं वाक्यं भीष्मः शान्तनवोऽब्रवीत्। तेनैवाहं प्रसन्नो वै परमत्र विधीयताम्
यथा दुर्योधनं पार्थो नोपसर्पति संगरे। साहसाद्यदि वा मोहात्तथा नीतिर्विधीयताम्
वनवासे ह्यनिर्वृत्ते दर्शयेन्न धनञ्जयः । धनं चालभमानोऽत्र नाद्य तत्क्षन्तुमर्हति
यथा नायं समायुञ्ज्याद्धार्तराष्ट्रं कथंचन । न च सेनां पराजय्यात्तथा नीतिर्विधीयताम्
उक्तं दुर्योधनेनापि पुरस्ताद्वाक्यमीदृशम् । तदनुस्मृत्य गाङ्गेय यथावद्वक्तुमर्हसि
कलाः काष्ठाश्च युज्यन्ते मुहूर्ताश्च दिनानि च। अर्धमासाश्च मासाश्च नक्षत्राणि ग्रहास्तथा
ऋतवश्चापि युज्यन्ते तथा संवत्सरा अपि। एवं कालविभागेन कालचक्रं प्रवर्तते
तेषां कालातिरेकेण ज्योतिषां च व्यतिक्रमात्। पञ्चमे पञ्चमे वर्षे द्वौ मासावधिमासकौ
एषामभ्यधिका मासाः पञ्च च द्वादश क्षपाः । त्रयोदशानां वर्षाणामिति मे वर्तते मतिः
पूर्वेद्युरेव निर्वृत्तस्ततो बीभत्सुरागतः
सर्वं यथावच्चरितं यद्यदेभिः प्रतिश्रुतम्। एवमेतद्भ्रुवं ज्ञात्वा ततो बीभत्सुरागतः
सर्वे पञ्च महात्मानः सर्वे धर्मार्थकोविदाः। येषां युधिष्ठिरो राजा कस्माद्धर्मेऽपराध्नुयुः
कामात्क्रोधाच्च लोभाच्च कामक्रोधभयादपि । स्नेहाद्वा यदि वा मोहाद्धर्मं नात्येति धर्मजः
अलुब्धाश्चैव कौन्तेयाः कृतवन्तश्च दुष्करम्। न चापि केवलं राज्यमिच्छेयुस्ते ह्यधर्मतः
तदैव ते हि विक्रान्तुमीषुः कौरवनन्दनाः । धर्मपाशनिबद्धास्तु न चेलुः क्षत्रियव्रतात्
यश्चानृत इति ख्यातः स च गच्छेत्पराभवम् । वृणुयुर्माणं पार्था नानृतत्वं कथंचन
प्राप्ते तु काले स्वानर्थान्नोत्सृजेयुर्नरर्षभाः । अपि वज्रभृता गुप्तांस्तथावीर्या हि पाण्डवाः
प्रतियुद्ध्येम समरे सर्वशस्त्रभृतांवरम्
तस्माद्यदत्र कल्याणं लोके सद्भिरनुष्ठितम्। तत्संविधीयतां शीघ्रं मा वो ह्यर्थोऽभ्यगात्परम्
न हि पश्यामि संग्रामे कदाचिदपि कौरव । एकान्तसिद्धिं राजेन्द्र संप्राप्तश्च धनञ्जयः
संप्रवृत्ते तु संग्रामे भावाभावौ जयाजयौ । अवश्यमेकं स्पृशतो दृष्टमेतदसंशयम्
तस्माद्युद्धोपचरितं कर्म वा धर्मसंहितम् । क्रियतामाशु राजेन्द्र संप्राप्तश्च धनञ्जयः
एको हि समरे पार्थः पृथिवीं निर्दहेच्छरैः । भ्रातृभिः सहितो भूत्वा किं पुनः कौरवान्रणे । तस्मात्सन्धिं कुरुश्रेष्ठ कुरुष्व यदि मन्यसे