पुत्रादनवमः शिष्य इति धर्मविदो विदुः। एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः
यथा त्वमकरोर्द्यूतमिन्द्रप्रस्थं यथाऽहरः । यथाऽनैषीः सभां कृष्णां तथा युध्यस्व पाण्डवं
अयं ते मातुलः प्राज्ञः क्षत्रधर्मस्य कोविदः । दुर्द्यूतदेवी गान्धारः शकुनिर्युद्ध्यतामिह
नाक्षान्क्षिपति गाण्डीवं न कृतं द्वापरं न च। ज्वलतो निशितान्बाणांस्तांस्तान्क्षिपति गाण्डिवं
न हि गाण्डीवनिर्मुक्ता गृध्रपक्षाः सुतेजनाः । नान्तरेष्ववतिष्ठन्ते गिरीणामपि दारणाः
अन्तकः पवनो मृत्युस्तथाऽग्निर्बडवामुखः । कुर्युरेते क्वचिच्छेषं न तु क्रुद्धो धनञ्जयः
यथा सभायां द्यूतं त्वं मातुलेन महाकरोः । तथा युद्धस्व संग्रामे सौबलेन सुरक्षितः
युद्ध्यतां काममाचार्यो नाहं योत्स्ये धनञ्जयम् । मत्स्यो ह्यस्माभिरायोध्यो यद्यागच्छेद्गवांपदम्
ततः शान्तनवस्तत्र धर्मार्थकुशलं हितम् । दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि
साधु पश्यति वै द्रोणः कृपः साध्वनुपश्यति । आचार्यपुत्रः सहजं निश्चितं साधु भाषते
कर्णस्तु क्षत्रधर्मेण केवलं योद्धुमिच्छति। आचार्यो नावमन्तव्यः पुरुषेण विजानता। देशकालौ तु संप्रेक्ष्य योद्धव्यमिति मे मतिः
यस्य सूर्यसमाः प़ञ्च सपत्नाः स्युः प्रहारिणः। कथमभ्युदये तेषां न प्रमुह्येत पण्डितः
स्वार्थे सर्वे विमुह्यन्ति येऽपि धर्मविदो जनाः । तस्मात्तत्वं न जानाति यत्तु कार्यं नराधिपः
धार्तराष्ट्रोपि दुर्बुद्धिः पश्यन्नपि धनञ्जयम् । नैव पश्यति नाघ्राति मन्दः क्रोधवशं गतः
एवमुक्त्वा तु राजानं पुनर्द्रौणिमुवाच ह। प्राञ्जलिर्भरतश्रेष्ठः साम्ना बुद्धिमतांवरः
कर्णो हि यदवोचत्त्वां तेजस्संजननाय तत्। आचार्यपुत्रः क्षमतां महत्कार्यमुपस्थितम्
नायं कालो विरोधस्य कौन्तेये समुपस्थिते । क्षन्तव्यं भवता सर्वमाचार्येण कृपेण च
भवतां हि कृतास्त्रत्वं यथाऽऽदित्ये प्रभा तथा । यथा चन्द्रमसो लक्ष्मीः सर्वथा नापकृष्यते । एवं भवत्सु ब्राह्मण्यं ब्रह्मास्त्रं च प्रतिष्ठितम्
चत्वार एकतो वेदाः क्षात्रमेकत्र दृश्यते। नैतत्समस्तमुभयं कस्मिंश्चिदनुशुश्रुम। अन्यत्र भारताचार्यात्सुपुत्रादिति मे मतिः
वेदान्ताश्च पुराणानि इतिहासं पुरातनम् । जामदग्न्यमृते राजन्को द्रोणादधिको भवेत्
ब्रह्मास्त्रं चैव वेदाश्च नैतदन्यत्र दृश्यते
आचार्यपुत्रः क्षमतां नायं कालो विभेदने । सर्वे संहत्य युद्ध्यामः पाकशासनिमागतम्
बलस्य व्यसनानीह यान्युक्तानि मनीषिभिः । मुख्यो भेदोहि तेषां तु पापिष्ठो विदुषां मतः
नैवं न्याय्यमिदं वाच्यमस्माकं पुरुषर्षभ । किंतु रोषपरीतेन गुरुणा भाषिता गुणाः
शत्रोरपि गुणा ग्राह्या दोषा वाच्या गुरोरपि । सर्वथा सर्वयत्नेन पुत्रे शिष्ये हितं वदेत्
आचार्य एष क्षमतां शान्तिरत्र विधीयताम् । अभिद्यमाने तु गुरौ निवृत्तं रोषकारितम्
ततो दुर्योधनो द्रोणं क्षमयामास भारत। सह कर्णेन भीष्मेण कृपं चैव महाबलम्
यदेतत्प्रथमं वाक्यं भीष्मः शान्तनवोऽब्रवीत्। तेनैवाहं प्रसन्नो वै परमत्र विधीयताम्
यथा दुर्योधनं पार्थो नोपसर्पति संगरे। साहसाद्यदि वा मोहात्तथा नीतिर्विधीयताम्
वनवासे ह्यनिर्वृत्ते दर्शयेन्न धनञ्जयः । धनं चालभमानोऽत्र नाद्य तत्क्षन्तुमर्हति