युधिष्ठिरो जितः कस्मिन्भीमश्च बलिनांवरः । इन्द्रप्रस्थं त्वया कस्मिन्संग्रामे निर्जितं पुरा
तथैव कतमद्युद्धं यस्मिन्कृष्णा जिता त्वया । एकवस्त्रा सभां नीता क्षुद्रकर्मन्रजस्वला
मूलमेषां महत्कृत्तं सारार्थी चन्दनं यथा। क्षुद्रं कर्म समास्थाय तत्र किं विदुरोऽब्रवीत्
यथाशक्ति मनुष्याणाममर्षं लक्षयामहे। अन्येषामपि सत्वानामपि कीटपिपीलिकैः
द्रौपद्याः संपरिक्लेशं न क्षन्तुं पाण्डवोऽर्हति। क्षयाय धार्तराष्ट्राणां प्रादुर्भूतो धनञ्जयः
त्वं पुनः पण्डितो भूत्वा ह्याचार्यं क्षेप्तुमिच्छसि। वैरान्तकरणो जिष्णुर्न नः शेषं करिष्यति
नैव देवा न गन्धर्वा नासुरा न च राक्षसाः। भयादिह न युद्ध्येरन्पाण्डुपुत्रेण धीमता
यं यमेकोपि संक्रुद्धः संग्रामे निपतिष्यति । वृक्षं गरुडवद्वेगाद्विनिहत्यान्तमेष्यति
त्वत्तो विशिष्टं वीर्येण धनुष्यमरराट्समम् । वासुदेवसमं युद्धे तं पार्थं को न पूजयेत्
देवं दैवेन युद्ध्येत मानुपेण च मानुपम् । अस्त्रं ह्यस्त्रेण यो हन्यात्कोऽर्जुनेन समः पुमान्
पुत्रादनवमः शिष्य इति धर्मविदो विदुः। एतेनापि निमित्तेन प्रियो द्रोणस्य पाण्डवः
यथा त्वमकरोर्द्यूतमिन्द्रप्रस्थं यथाऽहरः । यथाऽनैषीः सभां कृष्णां तथा युध्यस्व पाण्डवं
अयं ते मातुलः प्राज्ञः क्षत्रधर्मस्य कोविदः । दुर्द्यूतदेवी गान्धारः शकुनिर्युद्ध्यतामिह
नाक्षान्क्षिपति गाण्डीवं न कृतं द्वापरं न च। ज्वलतो निशितान्बाणांस्तांस्तान्क्षिपति गाण्डिवं
न हि गाण्डीवनिर्मुक्ता गृध्रपक्षाः सुतेजनाः । नान्तरेष्ववतिष्ठन्ते गिरीणामपि दारणाः
अन्तकः पवनो मृत्युस्तथाऽग्निर्बडवामुखः । कुर्युरेते क्वचिच्छेषं न तु क्रुद्धो धनञ्जयः
यथा सभायां द्यूतं त्वं मातुलेन महाकरोः । तथा युद्धस्व संग्रामे सौबलेन सुरक्षितः
युद्ध्यतां काममाचार्यो नाहं योत्स्ये धनञ्जयम् । मत्स्यो ह्यस्माभिरायोध्यो यद्यागच्छेद्गवांपदम्
ततः शान्तनवस्तत्र धर्मार्थकुशलं हितम् । दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि
साधु पश्यति वै द्रोणः कृपः साध्वनुपश्यति । आचार्यपुत्रः सहजं निश्चितं साधु भाषते
कर्णस्तु क्षत्रधर्मेण केवलं योद्धुमिच्छति। आचार्यो नावमन्तव्यः पुरुषेण विजानता। देशकालौ तु संप्रेक्ष्य योद्धव्यमिति मे मतिः
यस्य सूर्यसमाः प़ञ्च सपत्नाः स्युः प्रहारिणः। कथमभ्युदये तेषां न प्रमुह्येत पण्डितः
स्वार्थे सर्वे विमुह्यन्ति येऽपि धर्मविदो जनाः । तस्मात्तत्वं न जानाति यत्तु कार्यं नराधिपः
धार्तराष्ट्रोपि दुर्बुद्धिः पश्यन्नपि धनञ्जयम् । नैव पश्यति नाघ्राति मन्दः क्रोधवशं गतः
एवमुक्त्वा तु राजानं पुनर्द्रौणिमुवाच ह। प्राञ्जलिर्भरतश्रेष्ठः साम्ना बुद्धिमतांवरः
कर्णो हि यदवोचत्त्वां तेजस्संजननाय तत्। आचार्यपुत्रः क्षमतां महत्कार्यमुपस्थितम्
नायं कालो विरोधस्य कौन्तेये समुपस्थिते । क्षन्तव्यं भवता सर्वमाचार्येण कृपेण च
भवतां हि कृतास्त्रत्वं यथाऽऽदित्ये प्रभा तथा । यथा चन्द्रमसो लक्ष्मीः सर्वथा नापकृष्यते । एवं भवत्सु ब्राह्मण्यं ब्रह्मास्त्रं च प्रतिष्ठितम्
चत्वार एकतो वेदाः क्षात्रमेकत्र दृश्यते। नैतत्समस्तमुभयं कस्मिंश्चिदनुशुश्रुम। अन्यत्र भारताचार्यात्सुपुत्रादिति मे मतिः
वेदान्ताश्च पुराणानि इतिहासं पुरातनम् । जामदग्न्यमृते राजन्को द्रोणादधिको भवेत्