वेदाहं तात बालाऽपि धर्माणां यदिहान्तरम्। अक्रोधे चातिवादे च वेद चापि बलाबलम्
स्ववृत्तिमननुष्ठाय धर्ममुत्सृज्य तत्त्वतः।' शिष्यस्याशिष्यवृत्तेस्तु न क्षन्तव्यं बुभूषता
प्रेष्यः शिष्यः स्ववृत्तिं हि विसृज्य विफलं गतः।' तस्मात्संकीर्णवृत्तेषु वासो मम न रोचते
पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च। न तेषु निवसेत्प्राज्ञः श्रेयोऽर्थी पापबुद्धिषु
ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन वा। तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते
सुयन्त्रितपरा नित्यं विहीनाश्च धनैर्वराः। दुर्वृत्ताः पापकर्माणश्चण्डाला धनिनोपि च
नैव जात्या हि चण्डालाः स्वकर्मविहितैर्विना। धनाभिजनविद्यासु सक्ताश्चण्डालधर्मिणः
अकारणाश्च द्वेष्यन्ति परिवादं वदन्ति ते। साधोस्तत्र न वासोस्ति पापिभिः पापतां व्रजेत्
सुकृते दुष्कृते वापि यत्र सज्जति यो नरः। ध्रुवं रतिर्भवेत्तस्य तस्माद्द्वेषं न रोचयेत्
वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः। मम मथ्नाति हृदयमग्निकाम इवारणिम्
न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु। यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते
मरणं शोभनं तस्य इति विद्वज्जना विदुः। `अवमानमवाप्नोति शनैर्नीचसमागमात्
अतिवादा वक्त्रतो निःसरन्ति यैराहतः शोचति रात्र्यहानि। परस्य वै मर्मसु ते पतन्ति तस्माद्धीरो नैव मुच्येत्परेषु
निरोहेदायुधैश्छिन्नं संरोहेद्दग्धमाग्निना। वाक्क्षतं च न संरोहेदाशरीरं शरीरिणाम्
संरोहित शरैर्विद्धं नवं परशुना हतम्। वाचा दुरुक्तं बीभत्सं न संरोहेत वाक्क्षतम्
ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह। वृषपर्वाणमासीनमित्युवाचाविचारयन्
नाधर्मश्चरितो राजन्सद्यः फलति गौरिव। शनैरावर्त्यमानो हि कर्तुर्मूलानि कृन्तति
पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति। फलत्येव ध्रुवं पायं गुरुभुक्तमिवोदरे
अधीयानं हितं राजन्क्षमावन्तं जितेन्द्रियम्।' यदघातयथा विप्रं कचमाङ्गिरसं तदा। अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम्
शर्मिष्ठया देवयानी क्रूरमुक्ता बहु प्रभो। विप्रकृत्य च संरम्भात्कूपे क्षिप्ता मनस्विनी
सा न कल्पेत वासाय तयाहं रहितः कथम्। वसेयमिह तस्मात्ते त्यजामि विषयं नृप
वधादनर्हतस्तस्य वधाच्च दुहितुर्मम। वषपर्वन्निबोधेयं त्यक्ष्यामि त्वां सबान्धवम्। स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह
मा शोच वृषपर्वंस्त्वं मा क्रुध्यस्व विशांपते। स्थातुं ते विषये राजन्न शक्ष्यामि तया विना। अस्या गतिर्गतिर्मह्यं प्रियमस्याः प्रियं मम
यदि ब्रह्मन्घातयामि यदि वा क्रोशयाम्यहम्। शर्मिष्ठया देवयानीं तेन गच्छाम्यसद्गतिम्
अहो मामभिजानासि दैत्य मिथ्याप्रलापिनम्। यथेममात्मनो दोषं न नियच्छस्पुपेक्षसे
नाधर्मं न मृषावादं त्वयि जानामि भार्गव। त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान्
यद्यस्मानपहाय त्वमितो गच्छसि भार्गव। समुद्रं संप्रवेक्ष्यामि पूर्वं मद्बान्धवैः सह
पातालमथवा चाग्निं नान्यदस्ति परायणम्। यद्येव देवान्गच्छेस्त्वं मां च त्यक्त्वा ग्रहाधिप। सर्वत्यागं ततः कृत्वा प्रविशामि हुताशनम्
समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः। दुहितुर्नाप्रियं सोहुं शक्तोऽहं दयिता हि मे
प्रसाद्यतां देवयानी जीवितं यत्र मे स्थितम्। योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः