अस्माभिरेव निकृतो वर्षाणीह त्रयोदश। सिंहः पाशविनिर्मुक्तो न नः शेषं करिष्यति
एकान्ते पार्थमासीनं कूपेऽग्निमिव संवृतम् । अज्ञानादभ्यवस्कन्द्य प्राप्ताः स्मो भयमुत्तमम्
उत्सृष्टं तूलराशौ तु एकोऽग्निं शमयेत्कथम् । सह युद्ध्यामहे पार्थमागतं युद्धदुर्मदम्
यत्ता वयं पराक्रान्ता व्यूढानीकाः प्रहारिणः। युद्धायावस्थितं पार्थमागतं पाकशासनिम्
यत्ताः सर्वे रथश्रेष्ठं परिवार्य समन्ततः। षड्रथाः परिकीर्यन्तां वज्रपाणिमिवासुराः
द्रोणो दुर्योधनो भीष्मो भवान्द्रौणिस्तथा वयम्। सर्वे युद्ध्यामहे पार्थं कर्ण मा साहसं कृथाः
न ह्यसंगत्य समरे पार्थं जेष्यामहे वयम्। संगत्य समरे पार्थं सर्वे जेष्यमाहे वयम् ।। 26
कृपस्य वचनं श्रुत्वा कर्णो राजन्युधांपतिः । पुनः प्रोवाच संरब्धो गर्हयन्ब्राह्मणं कृपम्
लक्षयाम्यहमाचार्यं भयाद्भक्तिं गतं रिपौ । भीतेन हि न योद्धव्यमहं योत्स्ये धनञ्जयम् ।। 2
ननु वारुणमाग्नेयं याम्यं वायव्यमेव च। अस्त्रं ब्रह्मशिरश्चैव सत्वहीनस्य ते वृथा
मित्रकार्यं कृतमिदं पितापुत्रैर्महारथैः । भर्तृपिण्डश्च निर्विष्टो यथेष्टं गन्तुमर्हथ
भिक्षां हरस्व नित्यं त्वं यज्ञाननुचरस्व च। आमन्त्रणानि भुङ्क्षाद्य माऽस्मान्युद्धेन भीषय
भार्गवास्त्रं मया मुक्तं निर्दहेत्पृथिवीमिमाम्। किं पुनः पाण्डुपुत्राणामेकमर्जुनमाहवे
आगमिष्यन्ति पदवीं मात्स्याः पाण्डवमाश्रिताः । कीचकानां तु बलिनां शत्रुसेनावमर्दिनाम्
तानहं निहनिष्यामि भवता गम्यतां गृहम् । किं वेदवादिनां कार्यं परस्नेहानुभाषिणाम्
तस्य तद्वचनं श्रुत्वा अश्वत्थामा प्रतापवान् । उवाच वदतांश्रेष्ठो दुर्योधनमवेक्ष्य च
न च तावञ्जिता गावो न च सीमान्तरं गताः। न हास्तिनपुरं प्राप्तास्त्वं च कर्ण विकत्थसे
बहूनि धर्मशास्त्राणि पठन्ति द्विजसत्तमाः । तेषु किंस्विदिदं दृष्टं द्यूते जीयेत यन्नृपः
संग्रामान्विपुलाञ्जित्वा लब्धा च विपुलं धनम् । विजित्य च महीं कृत्स्नां नेह कत्थन्ति पण्डिताः
पचत्यग्निरवाक्यस्तु तूष्णीं भाति दिवाकरः । तूष्णीं धारयते लोकान्वसुधा सचराचरान्
चातुर्वर्ण्यस्य कर्माणि विहितानि महर्षिभिः । धनं यैरधिगन्तव्यं यच्च कुर्वन्न दुष्यति
अधीत्य ब्राह्मणो वेदान्याजयेत यजेत वा । क्षत्रियो धनमाहृत्य यजेतैव न याजयेत्
वैश्योऽधिगम्य वित्तानि वार्ताकर्माणि कारयेत्
शूद्रः शुश्रूषणं कुर्यात्रिषु वर्णेषु नित्यशः। वन्दनायोगविधिभिर्वैतसीं वृत्तिमाश्रितः
वर्तमाना यथाशास्त्रं प्राप्य चापि महीमिमाम् । प्रकुर्वन्ति महाभागा यज्ञान्सुविपुलानपि
का जातिस्तेषु सूतेयं केऽपि मन्त्राः क्रियाश्च काः । केयं वर्णेषु या राज्ञो वक्तृभोक्तृनियन्तृषु
दुर्योधनमभिप्रेक्ष्य कर्णं च कुरुसंसाद। अश्वत्थामा भृशं क्रुद्धो दुर्योधनमतर्जयत्
प्राप्य द्यूतेन को राज्यं क्षत्रियः स्तोष्टुर्महति । तथा नृशंसरूपोयं धार्तराष्ट्रश्च निर्घृणः
तथाऽधिगम्य वित्तानि को विकत्थेद्विचक्षणः । निकृत्या वञ्चनायोगैश्चरन्वैतंसिको यथा
कतमद्द्वैरथं युद्धं यत्राजैषीर्धनञ्जयम्। नकुलं सहदेवं वा धनं येषां त्वया हृतम्