कामं गच्छन्तु कुरवो गाः प्रगृह्य परंतपाः । रथेषु वाऽपि तिष्ठन्तो युद्धं पश्यन्तु मामकम्
तस्य तद्वचनं श्रुत्वा नीतिशास्त्रविशारदः। आचार्यः कुरुवीराणां कृपः शारद्वतोऽब्रवीत्
सदैव तव राधेय युद्धे क्रूरतरा मतिः। नार्थानां प्रकृतिं वेत्सि नानुबन्धमवेक्षसे
नया हि बहवः सन्ति शास्त्राण्याश्रित्य चिन्तिताः । तेषां युद्धं सुपापिष्ठं वेदयन्ति पुराविदः
देशकालेन संयुक्तं युद्धं विजयदं भवेत्। हीनकालं तदेवेह अनर्थायोपकल्पते
देशे काले च विक्रान्तं कल्याणाय विधीयते। आनुकूल्येन कार्याणामुत्तरं तु विधीयते
भारं हि रथकारस्य न व्यवस्यन्ति पण्डिताः। परिचिन्त्य तु पार्थेन संनिपातो न नः क्षमः
एको हि शत्रून्समरे समर्थः प्रतिबाधितुम् । एकः कुरूनभ्यरक्षदेकश्चाग्निमतर्पयत्
एकश्च पञ्च वर्षाणि ब्रह्मचर्यमधारयत् । एकः सुभद्रामारोप्य द्वैरथे कृष्णमाह्वयम्
सैन्धवं वनवासे तु जित्वा कृष्णामथानयत् । एकश्च पञ्च वर्षाणि शक्रादस्राण्यशिक्षत
एकः सपत्नाञ्जित्वा तु कुरूणामकरोद्यशः । एको गन्धर्वराजानं चित्रसेनमरिन्दमः । विजिग्ये तरसा सङ्ख्ये सेनां चास्य सुदुर्जयाम्
पाञ्चाली श्रीमती प्राप्ता क्षत्रं जित्वा स्वयंवरे । आदाय गतवान्पार्थो भवान्क्वनु गतस्तदा
तथा निवातकवचाः कालकेयाश्च दानवाः । दैवतैरप्यवध्यास्ते एकेन युधि पातिताः
एकेन हि त्वया कर्ण किं नामेह कृतं पुरा। एकैकेन यथा तेषां भूमिपाला वशे कृताः
इन्द्रोपि हि न पार्थेन संयुगे योद्धुमर्हति । यस्तेनाशंसते योद्धुं कर्तव्यं तस्य भेषजम्
आशीविषस्य क्रुद्धस्य पाणिमुद्यम्य दक्षिणम्। अवमुच्य प्रदेशिन्या दंष्ट्रामादातुमिच्छसि
अथवा कुञ्जरं मत्तमेकमेकचरं वने। निरङ्कुशं समारुह्य नगरं यातुमिच्छसि
समिद्धं पावकं चापि घृतमेदोवसाहुतम्। घृताक्तश्चीरवासास्त्वं मध्येनोत्सर्तुमिच्छसि
आत्मानं यः समाबध्य कण्ठे बद्ध्वा तथा शिलाम् । समुद्रं प्रतरेद्दोर्भ्यां तत्र किं कर्ण पौरुषम्
अकृतास्त्रः कृतास्त्रं वै बलवन्तं सुदुर्बलः। तादृशं कर्ण यः पार्थं योद्धुमिच्छेत्स दुर्मतिः
अस्माभिरेव निकृतो वर्षाणीह त्रयोदश। सिंहः पाशविनिर्मुक्तो न नः शेषं करिष्यति
एकान्ते पार्थमासीनं कूपेऽग्निमिव संवृतम् । अज्ञानादभ्यवस्कन्द्य प्राप्ताः स्मो भयमुत्तमम्
उत्सृष्टं तूलराशौ तु एकोऽग्निं शमयेत्कथम् । सह युद्ध्यामहे पार्थमागतं युद्धदुर्मदम्
यत्ता वयं पराक्रान्ता व्यूढानीकाः प्रहारिणः। युद्धायावस्थितं पार्थमागतं पाकशासनिम्
यत्ताः सर्वे रथश्रेष्ठं परिवार्य समन्ततः। षड्रथाः परिकीर्यन्तां वज्रपाणिमिवासुराः
द्रोणो दुर्योधनो भीष्मो भवान्द्रौणिस्तथा वयम्। सर्वे युद्ध्यामहे पार्थं कर्ण मा साहसं कृथाः
न ह्यसंगत्य समरे पार्थं जेष्यामहे वयम्। संगत्य समरे पार्थं सर्वे जेष्यमाहे वयम् ।। 26
कृपस्य वचनं श्रुत्वा कर्णो राजन्युधांपतिः । पुनः प्रोवाच संरब्धो गर्हयन्ब्राह्मणं कृपम्
लक्षयाम्यहमाचार्यं भयाद्भक्तिं गतं रिपौ । भीतेन हि न योद्धव्यमहं योत्स्ये धनञ्जयम् ।। 2
ननु वारुणमाग्नेयं याम्यं वायव्यमेव च। अस्त्रं ब्रह्मशिरश्चैव सत्वहीनस्य ते वृथा