परेषां विवरज्ञाने मनुष्याचरितेषु च। अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः
पण्डितान्पृष्ठतः कृत्वा परेषां गुणवादिनः । विधीयतां तथा नीतिर्यथा वध्येत वै परः
गावश्चैताः प्रतिष्ठन्तां सेनां व्यूहन्तु माचिरम्। आरक्षाश्च विधीयन्तां यत्र योत्स्यामहे परैः
सर्वानायुष्मतो भीतान्संत्रस्तानिव लक्षये। अयुद्धमनसश्चैव सर्वांश्चैवानवस्थितान्
यद्येष जामदग्न्यो वा यदि वेन्द्रः पुरंदरः । वासुदेवेन सहितो यदि बीभत्सुरागतः। अहमेनं निरोत्स्यामि वेलेव वरुणालयम्
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता मया। छादयन्तु शारः सूर्यं पार्थस्यायुर्निरोधकाः
मम चापप्रमुक्तानां शराणां नतपर्वणाम् । निवृत्तिर्गच्छतां नास्ति सर्पाणां श्वसतामिव
शराणां पुङ्खसक्तानां मौर्व्याऽभिहतयोर्भृशम् । श्रूयते तलयोः शब्दो भेर्योराहतयोरिव
एकैकं चतुरः पञ्च क्वचित्पष्टिं क्वचिच्छतम्। हतान्पश्यत मात्स्यानामिषुभिर्निहतान्रथान्
मद्बाहुमुक्तैरिषुभिस्तैलधौतैः पतत्रिभिः । खद्योतैरिव संपृक्तमन्तरिक्षं विराजताम्
ध्वजाग्राद्वानरस्तस्य भल्लेनाभिहतो मया। अद्यैव पततां भूमौ विनदन्भैरवान्रवान्
शत्रोर्मयाभिपन्नानां भूतानां ध्वजवासिनाम् । दिशः प्रतिष्ठमानानामस्तु शब्दो दिवं गतः
क्रुद्धेनास्त्रं मया मुक्तं निर्दहेत्पृथिवीमिमाम् । स्थितं संग्रामशिरसि पार्थमेकाकिनं किमु
समाहितश्च बीभत्सुर्वर्षाण्यष्टौ च पञ्च च । जातस्नेहश्च युद्धस्य मयि संदर्शयिष्यति
पात्रीभूतस्तु कौन्तेयो ब्राह्मणो गुणवानिव । शरमालां स गृह्णातु मत्प्रसृष्टां स्वधामिव
एष चापि महेष्वासस्त्रिषु लोकेषु विश्रुतः । अहं चापि नरश्रेष्ठादर्जुनान्नावमः क्वचित्
मम हस्तप्रमुक्तानां शराणां नतपर्वणाम्। निवृत्तिर्गच्छतां नास्ति वैश्वानरशिखार्चिषाम्
इतश्चेतश्च मुक्तानां शराणां नतपर्वणाम् । तुगुलः श्रूयतां नादः षट्पदां गायतामिव
अन्तरा संपतद्भिस्तु गृध्रपत्रैः शिलाशितैः । शलभानामिवाकाशे छाया संप्रति दृश्यताम्
अद्य मत्कार्मुकोत्सृष्टाः शिताः पार्थस्य मर्मगाः। शरीरमुपसर्पन्तु वल्मीकमिव पन्नगाः
बर्हिबर्हिणराजानां बर्हिणां बर्हिणामिव । पततां पततां घोषः पततां पततामिव
अद्य त्वहमृणान्मोक्ष्ये यन्मया तत्प्रतिश्रुतम् । धार्तराष्ट्रस्य तत्काले निहत्य समरेऽर्जुनम्
इन्द्राशनिसमस्पर्शं महेन्द्रसमविक्रमम्। अर्दयिष्याम्यहं पार्थमुल्काभिरिव कुञ्जरम्
शरजालमहाज्वालमसिशक्तिगदेन्धनम् । निर्दहन्तमनीकानि शमयिष्येऽर्जुनानलम्
रथादतिरथं लोके सर्वशस्त्रभृतांवरम् । विवशं पार्थमादास्ये गरुत्मानिव पन्नगम्
क्षुद्रकैर्विविधैर्भल्लैर्निपतद्भिश्च मामकैः । संमूढचेताः कौन्तेयः कर्तव्यं नाभिपद्यताम्
अद्य दुर्योधनस्याहं शोकं हृदि चिरं स्थितम् । समूलमपनेष्यामि हरन्पार्थशिरः शरैः
अद्य मत्कार्मुकोत्सृष्टैर्भल्लैश्च नतपर्वभिः। हताश्वं विरथं पार्थं पौरुषे पर्यवस्थितम् । निश्वसन्तं यथा नागमद्य पश्यन्तु कौरवाः
जामदग्न्यान्मया लब्धं दिव्यास्रमृषिसत्तमात्। तदुपाश्रित्य वीर्यं च युध्येयमपि वासवम्
ध्वजाग्रे वानरस्तिष्ठन्भल्लेन निहतो मया। अद्यैव पततां भूमौ विनदन्भैरवान्रवान्