अर्जुने चापि संप्रीतिमधिकामुपलक्षये । तथा दृष्ट्वा हि बीभत्सुमुपायान्तं प्रशंसति । यथा सेना न भज्येत तथा नीतिर्विधीयताम्
अदेशिका ह्यरण्येऽस्मिन्कृच्छ्रे शत्रुवशं गता। यथा न विभ्रमेत्सेना तथा नीतिर्विधीयताम्
अश्वानां हेषितं श्रुत्वा का प्रशंसा भवेत्परे । स्थाने वाऽपि व्रजन्तो वा सदा हेषन्ति वाजिनः
सदा च वायवो वान्ति नित्यं वर्षति वासवः । स्तनयित्नोश्च निर्घोषः श्रूयते बहुशस्तथा
भीषयन्पाण्डवेयेभ्यो भवान्सर्वानिमाञ्जनान्। प्रमुखे सर्वसैन्यानामबद्धं बहु भाषते
यथैवाश्वान्मार्गमाणास्तानेवाभिपरीप्सवः । हेषितानीव शृण्वन्ति तदिदं भवतस्तथा
किमत्र कार्यं पार्थस्य कथं वा स प्रशस्यते। अन्यत्र कामाद्द्वेषाद्वा रोषाद्वाऽस्मासु केवलम्
आचार्या वै कारुणिकाः प्राज्ञाश्चापायदर्शिनः । नैते महाहवे घोरे संप्रष्टव्याः कथंचन
प्रासादेषु विचित्रेषु गोष्ठीपानाशनेषु च। कथा विचित्राः कुर्वाणाः पण्डितास्तत्र सोभनः
बहून्याश्चर्यरूपाणि कुर्वते जनसंसदि । इष्वस्त्रे चापसंधाने पण्डितास्तत्र शोभनाः
परेषां विवरज्ञाने मनुष्याचरितेषु च। अन्नसंस्कारदोषेषु पण्डितास्तत्र शोभनाः
पण्डितान्पृष्ठतः कृत्वा परेषां गुणवादिनः । विधीयतां तथा नीतिर्यथा वध्येत वै परः
गावश्चैताः प्रतिष्ठन्तां सेनां व्यूहन्तु माचिरम्। आरक्षाश्च विधीयन्तां यत्र योत्स्यामहे परैः
सर्वानायुष्मतो भीतान्संत्रस्तानिव लक्षये। अयुद्धमनसश्चैव सर्वांश्चैवानवस्थितान्
यद्येष जामदग्न्यो वा यदि वेन्द्रः पुरंदरः । वासुदेवेन सहितो यदि बीभत्सुरागतः। अहमेनं निरोत्स्यामि वेलेव वरुणालयम्
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता मया। छादयन्तु शारः सूर्यं पार्थस्यायुर्निरोधकाः
मम चापप्रमुक्तानां शराणां नतपर्वणाम् । निवृत्तिर्गच्छतां नास्ति सर्पाणां श्वसतामिव
शराणां पुङ्खसक्तानां मौर्व्याऽभिहतयोर्भृशम् । श्रूयते तलयोः शब्दो भेर्योराहतयोरिव
एकैकं चतुरः पञ्च क्वचित्पष्टिं क्वचिच्छतम्। हतान्पश्यत मात्स्यानामिषुभिर्निहतान्रथान्
मद्बाहुमुक्तैरिषुभिस्तैलधौतैः पतत्रिभिः । खद्योतैरिव संपृक्तमन्तरिक्षं विराजताम्
ध्वजाग्राद्वानरस्तस्य भल्लेनाभिहतो मया। अद्यैव पततां भूमौ विनदन्भैरवान्रवान्
शत्रोर्मयाभिपन्नानां भूतानां ध्वजवासिनाम् । दिशः प्रतिष्ठमानानामस्तु शब्दो दिवं गतः
क्रुद्धेनास्त्रं मया मुक्तं निर्दहेत्पृथिवीमिमाम् । स्थितं संग्रामशिरसि पार्थमेकाकिनं किमु
समाहितश्च बीभत्सुर्वर्षाण्यष्टौ च पञ्च च । जातस्नेहश्च युद्धस्य मयि संदर्शयिष्यति
पात्रीभूतस्तु कौन्तेयो ब्राह्मणो गुणवानिव । शरमालां स गृह्णातु मत्प्रसृष्टां स्वधामिव
एष चापि महेष्वासस्त्रिषु लोकेषु विश्रुतः । अहं चापि नरश्रेष्ठादर्जुनान्नावमः क्वचित्
मम हस्तप्रमुक्तानां शराणां नतपर्वणाम्। निवृत्तिर्गच्छतां नास्ति वैश्वानरशिखार्चिषाम्
इतश्चेतश्च मुक्तानां शराणां नतपर्वणाम् । तुगुलः श्रूयतां नादः षट्पदां गायतामिव
अन्तरा संपतद्भिस्तु गृध्रपत्रैः शिलाशितैः । शलभानामिवाकाशे छाया संप्रति दृश्यताम्
अद्य मत्कार्मुकोत्सृष्टाः शिताः पार्थस्य मर्मगाः। शरीरमुपसर्पन्तु वल्मीकमिव पन्नगाः