विषण्णमुखभूयिष्ठाः सर्वे योधा विचेतसः । दिशं ते दक्षिणां सर्वे विप्रेक्षन्ते पुनः पुनः
मृगाश्च पक्षिणश्चैव सव्यमेव पतन्ति नः। वादित्रोद्धृष्टघोषाश्च न च गाढं स्वनन्ति च। ध्वजाग्रेषु निलीयन्ते वायसास्तन्न शोभनम्
यथा मेघस्य निनदो गम्भीरस्तूर्णमायतः। श्रूयते रथनिर्घोषो नायमन्यो धनञ्जयात्
अश्वानां स्वनतां शब्दो वहतां पाकशासनिम् । वानरस्य रथे दिव्यो निस्वनः श्रूयते महान्
शङ्खशब्देन पार्थस्य कर्णौ मे बधिरीकृतौ । सर्वसैन्यं च वित्रस्तं नायमन्यो धनञ्जयात्
राजानमग्रतः कृत्वा दुर्योधनमरिन्दमम्। गाः प्रस्थाप्य च तिष्ठामो व्यूढानीकाः प्रहारिणः । प्रविभज्य त्रिधा सेनां समुच्छ्रित्य ध्वजानपि
शितैर्बाणैः प्रताप्येमां चमूमेष धनञ्जयः। मूर्ध्नि सर्वनरेन्द्राणां वामपादं करिष्यति
न ह्येष शक्यो बीभत्सुर्जेतुं देवासुरैरपि । दिक्षु गुल्मा निवेश्यन्तां यत्ता योत्स्यामहेऽर्जुन
ततो दुर्योधनो राजा समरे भीष्ममब्रवीत्। द्रोणं च रथिशार्दूलं कृपं च सुमहाबलम्
उक्तोऽयमर्थ आचार्य मया कर्णेन चासकृत्। पुनरेव च वक्ष्यामि न हि तृप्यामि तद्ब्रुवन्
पराजितैर्विवस्तव्यं तैश्च द्वादशवत्सरान् । वने जनपदेऽज्ञातैरेष एव पणो हि नः
तेषां न तावन्निर्वृत्तो वत्सरः स त्रयोदशः । अज्ञातवासे बीभत्सुरथास्माभिः परिश्रुतः
अनिर्वृत्ते तु निर्वासे यदि बीभत्सुरागतः । पुनर्द्वादशवर्षाणि वने वत्स्यन्ति पाण्डवाः
लोभाद्वा ते न जानीयुरस्मान्वा मोह आविशत्। हीनातिरिक्तमेतेषां भीष्मो वेदितुमर्हति
अर्थानां हि पुनर्द्वैधे नित्यं भवति संशयः । अन्यथा चिन्तितो ह्यर्थः पुनर्भवति चान्यथा
उत्तरं मार्गमाणानां मात्स्यसेनां युयुत्सताम् । यदि बीभत्सुरायातः किंतु कृत्यमतः परम्
त्रिगर्तानां कृतं कार्यं पाण्डवानां च मार्गणम् । विप्रकारैर्हि मात्स्येन सुशर्मा बाधित पुरा
तेषां भयाभिपन्नानां वस्तानां त्राणभिच्छताम् । अभयं याचमानानां तदाऽस्माभिः परिश्रुतम्
प्रथमं वैर्ग्रहीतव्यं मात्स्यानां गोधनं महत्। अष्टम्याश्चापराह्णे तु इति नस्तैः समाहितम्
नवम्यां पुनरस्माभिः सूर्यस्योदयनं प्रति। इमा गावो ग्रहीतव्या याते मत्स्ये गवांपदम्
इत्येवं निश्चयोऽस्माकं मन्त्रोऽभून्नागसाह्वये । पाण्डवानां परिज्ञाने सर्वेषां नः परस्परम्
ते वा गाश्च नयिष्यन्ति यदि वा स्युः पराजिताः। अस्मान्वाऽप्यतिसन्धाय कुर्युर्मात्स्येन संगतिम्
अथवा तानुपादाय मात्स्यो जानपदैः सह । सर्वथा सेनया सार्धमस्मानेष युयुत्सति
तेषामेको महावीर्यः कश्चिदेव पुनःसरः। अस्माञ्जेतुमिहायातो मात्स्यो वाऽपि स्वयं भवेत्
यद्येष राजा मात्स्यानां यदि बीभत्सुरागतः । सर्वैर्योद्धव्यमस्माभिरिति नः समयः कृतः
अथ कस्मात्थिता ह्येते रथेषु रथिसत्तमाः । भीष्मद्रोणकृपाः कर्णो विकर्णो द्रौणिरेव च। संभ्रान्तमनसः सर्वे प्राप्ते ह्यस्मिन्धनञ्जये
नान्यत्र युद्धाच्छ्रेयोस्ति तथाऽऽत्मा प्रणिधीयताम् । सर्वलोकेन वा युद्धं देवैर्वाऽस्तु सवासवैः
अनाच्छिन्ने धनेऽस्माकमथ शक्रेण वज्रिणा। यमेन वाऽपि संग्रामे को हास्तिनपुरं व्रजेत्
शरैरभिप्रणुन्नानां भग्नानां गहने वने । को हि जीवेत्पदातीनां भवेदश्वेषु संशयः
आचार्यं पृष्ठतः कृत्वा तथा नीतिर्विधीयताम् । जानामि च मतं तेषामतस्त्रासयतीव नः