आरक्तनिम्ननयनं ह्रस्वस्थूलशिरोधरम्। अतिश्लिष्टोदरोरस्कं तिर्यगाननशोभितम्
यावत्स्वशक्तिसामग्र्यं त्रैलोक्यं क्षोभयन्निव । मरुद्भिर्दशभिश्चैव प्राध्मापयदरिंदमः ]
शङ्खशब्दोस्य सोत्यर्थं श्रूयते कालमेघवत्
तस्य शङ्खस्य शब्देन धनुपो निस्वनेन च। वानरस्य निनादेन रथनेमिस्वनेन च। जङ्गमस्य भयं घोरमकरोत्पाकशासनिः
शङ्खशब्देन पार्थस्य मुखेनाश्वाः पतन्क्षितौ । उत्तरश्चापि संत्रस्थो रथोपस्थ उपाविशत्
अथाश्वान्रश्मिभिः पार्थः समुद्यम्य परंतपः । अभ्राजत रथोपस्थे भानुर्मेराविवोत्तरे
शङ्खघोषेण वित्रस्तं ज्याघातेन च मूर्छितम् । उत्तरं संपरिष्वज्य समाश्वासयदर्जुनः
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोसि परन्तप । कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि
श्रुतास्ते शङ्खशब्दाश्च भेरीशब्दाश्च सर्वशः । कुञ्जराणां च निनदा व्यूढानीकेषु नित्यशः
स त्वं कथमिवानेन शङ्खशब्देन भीषितः । विपण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा
श्रुता मे शङ्खशब्दाश्च भेरीशब्दाश्च नित्यशः। कुञ्जराणां च निनदा व्यूढानीकेषु तिष्ठतः
नैवंविधाः शङ्खशब्दाः पुरा जातु मया श्रुताः। ध्वजस्य चापि रूपं मे दृष्टपूर्वं नहीदृशम् । धनुषश्चापि घोषश्च श्रुतपूर्वो न मे क्वचित्
अस्य शङ्खस्य शब्देन धनुषो निस्वनेन च। अमानुषाणां शब्देन भूतानां निस्वसेन च। रथनेमिप्रणादेन मनो कमे मुह्यते भृशम्
व्याकुलाश्च दिशः सर्वा हृदयं व्यथतीव च। ध्वजेन पिहिताः सर्वा दिशो न प्रतिभान्ति मे। गाण्डीवस्य च शब्देन कर्णौ मे बधिरीकृतौ
पुनर्ध्वजं पुनः शङ्खं धनुश्चैव पुनः पुनः । स मूढचेता वैराटिरर्जुनं समुदैक्षत
स मुहूर्तं प्रयातं तु पार्थो वैराटिमब्रवीत्
स्थिरो भव महाबाहो संज्ञां चात्मानमानय। एकान्ते रथमास्थाय पद्भ्यां त्वमवपीड्य च। दृढं च रश्मीन्संयच्छ शङ्खं ध्मास्याम्यहं पुनः
एवमुक्त्वा महाबाहुः सव्यसाची परन्तपः। ततः शङ्खमुपाध्मासीद्दारयन्निव पर्वतान्। गुहा गिरीणां च तदा दिशः शैलांस्तथैव च
ज्याघोषं तलघोषं च कृत्वा भूतान्यमोहयत्। उत्तरश्चापि संलीनो रथोपस्थ उपाविशत्। तं समाश्वासयामास पुनरेव धनञ्जयः
तस्य शङ्खस्य शब्देन रथनेमिस्वनेन च। गाण्डीवस्य च शब्देन पृथिवी समकम्पत
भारद्वाजस्ततो द्रोणः सर्वशस्त्रभृतांवरः। राजानं चाह संप्रेक्ष्य दुर्योधनमरिंदमः
यथा रथस्य निर्घोषो यथा शङ्ख उदीर्यते। कम्पते च यथा भूमिर्नैषोन्यः सव्यसाचिनः
औत्पातिकमिदं राजन्निमित्तं भवतीह नः। न हि पश्यामि विजयं सैन्येऽस्माकं परन्तप
शस्त्राणि न प्रकाशन्ते न प्रहृष्यन्ति वाहनाः । अग्नयश्च न भासन्ते सुसमिद्धा न शोभनाः
प्रत्यादित्यं च नः सर्वे मृगा घोरा नदन्ति च। शकुनाश्चापसव्याश्च वेदयन्ति महाभयम्
गोमायुरेष सैन्यानां रुदन्मध्येन धावति। चाषा नदन्ति चाकाशे वेदयन्तो महद्भयम्
भवतां चैव रोमाणि प्रहृष्टानीव लक्षये
अनुष्णाङ्गाश्च संस्विन्ना जृम्भन्ते चाप्यभीक्ष्णशः । विष्कम्भन्ति च मातङ्गा मुञ्चन्त्यश्रूणि वाजिनः । सदा मूत्रं पुरीषं च उत्सृजन्ति पुनः पुनः
लोहितार्द्रा च पृथिवी दिशः सर्वाः प्रधूमिताः । न च सूर्यः प्रतपति महद्वेदयते भयम्
हस्तिनश्चापि वित्रस्ता योधाश्चापि वितत्रसुः । पराभूता च वः सेना न कश्चिद्योद्भुमिच्छति