तं शब्दं कुरवो राजन्विस्फोटमशनेरिव। तार्क्ष्यं शब्दमिव श्रुत्वा वित्रेसुर्दीनमानसाः
यथेन्द्रो व्याक्षिपद्भीमं विस्फोटमशनेर्भुवि । तथाऽर्जुनो धनुःश्रेष्ठं बाहुभ्यामाक्षिपद्बली
महाशनिमहाशब्दसदृशो ज्यास्वनो महान् । शत्रून्वीरांश्च संतर्ज्य निग्रहस्थो रथे स्थितः
एकस्त्वं पाण्डवश्रेष्ठ बहूनोतान्महारथान्। कथं जेष्यसि संग्रामे सर्वशस्त्रास्त्रपारगान्
असहायो।सि कोन्तेय ससहायाश्च कौरवाः । अत एव महाबाहो भीतस्तिष्ठामि तेऽग्रतः
उवाच पार्थो मा भैषीः प्रहस्य स्वनवत्तदा
युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः । सहायो घोषयात्रायां कस्तदासीत्सखा मम
तथा प्रतिभये तस्मिन्देवदानवसंकुले। खाण्डवे युध्यमानस्य कस्तदासीत्सखा मम
निवातकवचैः सार्धं पौलोमैश्च महाबलैः । युध्यतो देवराजार्थे कः सहायस्तदाऽभवत्
स्वयंवरे तु पाञ्चाल्या राजभिः सह संयुगे। युध्यतो बहुभिस्तात कः सहायस्तदाऽभवत्
उपजीव्य गुरुं द्रोणं शुक्रं वैश्रवणं यमम्। वरुणं पावकं चैव कृपं कृष्णं च माधवम् । पिनाकपाणिनं चैव कथमेतान्न योधये
रथं वाहय मे शीघ्रं व्येतु ते मानसो ज्वरः
उत्तरं सांरथिं कृत्वा शमीं कृत्वा प्रदक्षिणम्। आयुधं सर्वमादाय ततः प्रायाद्धनञ्जयः
ध्वजं च सिंहं मात्स्यस्य भ्रातॄणामायुधानि च। प्रणिधाय शमीमध्ये प्रयातुमुपचक्रमे
ततः काञ्चनलाङ्गूलं ध्वजं वानरलक्षणम् । दिव्यं मायामयं युक्तं विहितं विश्वकर्मणा । मनसा चिन्तयामास प्रसादं पावकस्य च
स च तच्चिन्तितं ज्ञात्वा ध्वजे भूतान्ययोजयत्। रथे वानरमुच्छ्रित्य गाण्डीवं व्याक्षिपद्धनुः
सपताकं विचित्राङ्गं सोपासङ्गं महाबलम्। खात्पपात रथे तूर्णं दिव्यरूपं मनोरमम्
रथमास्थाय बीभत्सुः कौन्तेयः श्वेतवाहनः। बद्धासिः सतलत्राणः प्रगृहीतशरासनः । ततः प्रायादुदीचीं स कपिप्रवरकेतनः
सैन्याभ्याशं स संप्राप्य गृहीत्वा शङ्खमुत्तमम् । स्वनवन्तं महाशब्दं देवदत्तं धनञ्जयः । शशाङ्करूपं बीभत्सुः प्राध्मापयदरिंदमः
[ शशाङ्ककुन्दधवलं मुखे निक्षिप्य वासविः । उच्छ्वसद्गण्डयुगलं सिराल्याचितफालकम्
आरक्तनिम्ननयनं ह्रस्वस्थूलशिरोधरम्। अतिश्लिष्टोदरोरस्कं तिर्यगाननशोभितम्
यावत्स्वशक्तिसामग्र्यं त्रैलोक्यं क्षोभयन्निव । मरुद्भिर्दशभिश्चैव प्राध्मापयदरिंदमः ]
शङ्खशब्दोस्य सोत्यर्थं श्रूयते कालमेघवत्
तस्य शङ्खस्य शब्देन धनुपो निस्वनेन च। वानरस्य निनादेन रथनेमिस्वनेन च। जङ्गमस्य भयं घोरमकरोत्पाकशासनिः
शङ्खशब्देन पार्थस्य मुखेनाश्वाः पतन्क्षितौ । उत्तरश्चापि संत्रस्थो रथोपस्थ उपाविशत्
अथाश्वान्रश्मिभिः पार्थः समुद्यम्य परंतपः । अभ्राजत रथोपस्थे भानुर्मेराविवोत्तरे
शङ्खघोषेण वित्रस्तं ज्याघातेन च मूर्छितम् । उत्तरं संपरिष्वज्य समाश्वासयदर्जुनः
मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोसि परन्तप । कथं पुरुषशार्दूल शत्रुमध्ये विषीदसि
श्रुतास्ते शङ्खशब्दाश्च भेरीशब्दाश्च सर्वशः । कुञ्जराणां च निनदा व्यूढानीकेषु नित्यशः
स त्वं कथमिवानेन शङ्खशब्देन भीषितः । विपण्णरूपो वित्रस्तः पुरुषः प्राकृतो यथा