तदिदं समनुप्राप्तं व्रतं चीर्णं मयाऽनघ । समाप्तव्रतमुत्तीर्णं विद्धि मां त्वं नृपात्मज
परमोऽनुग्रहो मेऽद्य यत्प्रतर्को न मे वृथा। न हीदृशाः क्लीबरूपा भवन्ति तु नरोत्तमाः
सहायवानस्मि रणे युद्ध्येयममरैरपि । साध्वसं तत्प्रनष्टं मे किं करोमि ब्रवीहि मे
अहं ते संग्रहीष्यामि हयाञ्शत्रुनिर्बहण। शिक्षितो ह्यस्मि सारथ्ये निष्ठितः पुरुषर्षभ
दारुको वासुदेवस्य यथा शक्रस्य मातलिः। तथा मां विद्धि सारथ्ये शिक्षितं नरपुङ्गव
अश्वा ह्येते महाबाहो तवैवाहवदुर्जयाः। योग्या रथवरे युक्ताः प्राणवन्तो जितश्रमाः
यस्य यातेन पश्यन्ति भूमौ क्षिप्तं पदंपदम्। दक्षिणां यो धुरं वोढा सुग्रीवोण समो हयः
योऽयं हयो धुर्यवरो वामां वहति शोभनः। तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम्
योऽयं वहति वै पार्ष्णिं दक्षिणामञ्चितोद्यतः । वलाहकादभिमतस्तेजसा वीर्यवत्तरः
योऽयं काञ्चनसन्नाहो वामं वहति शोभनः । धुर्यं शैब्यस्य तं मन्ये जवेन बलवत्तरम्
त्वामेवायं रथो वोढुं संग्रामेऽर्हति धन्विनम् । त्वं चे.. रथमास्थाय योद्धुमर्हो मतो मम। शर्वशत्रुभिरायातो देवराज इवासुरैः
ततो रथादवस्कन्द्य वीर्यवानरिमर्दनः। प्रणम्य देवान्गाण्डीवमादाय रुरुचे श्रिया
ततो विमुच्य बाहुभ्यां सङ्खचूडानि पाण्डवः । तौ च दुन्दुभिसन्नादौ प्रतिबद्ध्य तलावुभौ
इन्द्रदत्ते च ते दिव्ये उद्धृत्यामुच्य कुण्डले । श्लक्ष्णान्केशान्मृदून्स्निग्धाञ्श्वेतेनोद्ग्रथ्य वाससा
अथासौ प्राङ्मुखो भूत्वा शुचिः प्रयतमानसः। अभिदध्यौ महाबाहुः सर्वास्त्राणि रथोत्तमे
ऊचुश्च पार्थं सर्वाणि प्राञ्जलीनि नृपात्मजम्। इमानि स्मो महोदार किङ्कराणीन्द्रनन्दन
प्रणिपत्य ततः पार्थः समालभ्य च पाणिना। सर्वाणि मानसानीह भवतेत्यभ्यभाषत
प्रतिगृह्य ततोऽस्त्राणि प्रह्लष्टवदनोऽभवत् । अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद्धनुः
तस्य विक्षिप्यमाणस्य धनुषोऽभून्महास्वनः । यथा शैलस्य महतः शैलानाक्षिप्य जघ्रुषः
सनिर्घाताऽभवद्भूमिर्दिक्षु वायुर्ववौ भृशम्। भ्रान्तद्विजं खमभवत्प्राकम्पन्त महाद्रुमाः
तं शब्दं कुरवो राजन्विस्फोटमशनेरिव। तार्क्ष्यं शब्दमिव श्रुत्वा वित्रेसुर्दीनमानसाः
यथेन्द्रो व्याक्षिपद्भीमं विस्फोटमशनेर्भुवि । तथाऽर्जुनो धनुःश्रेष्ठं बाहुभ्यामाक्षिपद्बली
महाशनिमहाशब्दसदृशो ज्यास्वनो महान् । शत्रून्वीरांश्च संतर्ज्य निग्रहस्थो रथे स्थितः
एकस्त्वं पाण्डवश्रेष्ठ बहूनोतान्महारथान्। कथं जेष्यसि संग्रामे सर्वशस्त्रास्त्रपारगान्
असहायो।सि कोन्तेय ससहायाश्च कौरवाः । अत एव महाबाहो भीतस्तिष्ठामि तेऽग्रतः
उवाच पार्थो मा भैषीः प्रहस्य स्वनवत्तदा
युध्यमानस्य मे वीर गन्धर्वैः सुमहाबलैः । सहायो घोषयात्रायां कस्तदासीत्सखा मम
तथा प्रतिभये तस्मिन्देवदानवसंकुले। खाण्डवे युध्यमानस्य कस्तदासीत्सखा मम
निवातकवचैः सार्धं पौलोमैश्च महाबलैः । युध्यतो देवराजार्थे कः सहायस्तदाऽभवत्
स्वयंवरे तु पाञ्चाल्या राजभिः सह संयुगे। युध्यतो बहुभिस्तात कः सहायस्तदाऽभवत्