इदं तु चिन्तयन्नेव परिमुह्यामि केवलम्। निश्चयं नाधिगच्छामि नावगच्छामि किंचन
एवं वराङ्गरूपस्य लक्षणैः सूचितस्य च। केन कर्मविपाकेन क्लीबत्वं त्वामुपागतम्
मन्ये त्वां क्लीबरूपेण चरन्तं शूलपाणिनम्। गन्धर्वराजप्रतिमं देवं वाऽपि शतक्रतुम्
भ्रातुर्नियोगाञ्ज्येष्ठस्य संवत्सरमिदं व्रतम्। चरामि ब्रह्मचर्यं वै सत्यमेतद्ब्रवीमि ते
नास्मि क्लीबो महाबाहो परवान्धर्मसंयुतः । उर्वशीशापसंभूतं क्लैब्यं समुपसंस्थितम्
पुराऽहमाज्ञया भ्रातुर्ज्येष्ठस्यास्मि सुरालयम्। प्राप्तवानुर्वशी दृष्टा सुधर्मायां मया तदा
नृत्यन्तीं परमं रूपं बिभ्रतीं वज्रिसन्निधौ । अपश्यं तामनिमिषं कूटस्थामन्वयस्य मे
रात्रौ समागता मह्यं शयनं रन्तुमिच्छया। अहं तामभिवाद्यैव मातृसत्कारमाचरम्
सा च मामशपत्क्रुद्धा शिखण्डी त्वं भवेति वै। श्रुत्वा तमिन्द्रो मामाह मा भैस्त्वं पार्थ षण्डता
उपकारो भवेत्तुभ्यमज्ञातवसतौ पुरा। इतीन्द्रो मामनुग्राह्य ततः प्रेषितवान्वृषा
तदिदं समनुप्राप्तं व्रतं चीर्णं मयाऽनघ । समाप्तव्रतमुत्तीर्णं विद्धि मां त्वं नृपात्मज
परमोऽनुग्रहो मेऽद्य यत्प्रतर्को न मे वृथा। न हीदृशाः क्लीबरूपा भवन्ति तु नरोत्तमाः
सहायवानस्मि रणे युद्ध्येयममरैरपि । साध्वसं तत्प्रनष्टं मे किं करोमि ब्रवीहि मे
अहं ते संग्रहीष्यामि हयाञ्शत्रुनिर्बहण। शिक्षितो ह्यस्मि सारथ्ये निष्ठितः पुरुषर्षभ
दारुको वासुदेवस्य यथा शक्रस्य मातलिः। तथा मां विद्धि सारथ्ये शिक्षितं नरपुङ्गव
अश्वा ह्येते महाबाहो तवैवाहवदुर्जयाः। योग्या रथवरे युक्ताः प्राणवन्तो जितश्रमाः
यस्य यातेन पश्यन्ति भूमौ क्षिप्तं पदंपदम्। दक्षिणां यो धुरं वोढा सुग्रीवोण समो हयः
योऽयं हयो धुर्यवरो वामां वहति शोभनः। तं मन्ये मेघपुष्पस्य जवेन सदृशं हयम्
योऽयं वहति वै पार्ष्णिं दक्षिणामञ्चितोद्यतः । वलाहकादभिमतस्तेजसा वीर्यवत्तरः
योऽयं काञ्चनसन्नाहो वामं वहति शोभनः । धुर्यं शैब्यस्य तं मन्ये जवेन बलवत्तरम्
त्वामेवायं रथो वोढुं संग्रामेऽर्हति धन्विनम् । त्वं चे.. रथमास्थाय योद्धुमर्हो मतो मम। शर्वशत्रुभिरायातो देवराज इवासुरैः
ततो रथादवस्कन्द्य वीर्यवानरिमर्दनः। प्रणम्य देवान्गाण्डीवमादाय रुरुचे श्रिया
ततो विमुच्य बाहुभ्यां सङ्खचूडानि पाण्डवः । तौ च दुन्दुभिसन्नादौ प्रतिबद्ध्य तलावुभौ
इन्द्रदत्ते च ते दिव्ये उद्धृत्यामुच्य कुण्डले । श्लक्ष्णान्केशान्मृदून्स्निग्धाञ्श्वेतेनोद्ग्रथ्य वाससा
अथासौ प्राङ्मुखो भूत्वा शुचिः प्रयतमानसः। अभिदध्यौ महाबाहुः सर्वास्त्राणि रथोत्तमे
ऊचुश्च पार्थं सर्वाणि प्राञ्जलीनि नृपात्मजम्। इमानि स्मो महोदार किङ्कराणीन्द्रनन्दन
प्रणिपत्य ततः पार्थः समालभ्य च पाणिना। सर्वाणि मानसानीह भवतेत्यभ्यभाषत
प्रतिगृह्य ततोऽस्त्राणि प्रह्लष्टवदनोऽभवत् । अधिज्यं तरसा कृत्वा गाण्डीवं व्याक्षिपद्धनुः
तस्य विक्षिप्यमाणस्य धनुषोऽभून्महास्वनः । यथा शैलस्य महतः शैलानाक्षिप्य जघ्रुषः
सनिर्घाताऽभवद्भूमिर्दिक्षु वायुर्ववौ भृशम्। भ्रान्तद्विजं खमभवत्प्राकम्पन्त महाद्रुमाः