अद्य पश्य महाबाहो मम वीर्यं सुदुःसहम्। मा भैर्विगतसंत्रासः कुरूनेतान्समागतान्
सुयोधनस्य मिषतः कर्णस्य च कृपस्य च। पितामहस्य भीष्मस्य द्रौणेर्द्रोणस्य च स्वयम्। सर्वानेव कुरूञ्जित्वा प्रत्यानेष्यामि ते पशून्]
ततः पार्थं स वैराटिः प्राञ्जलिस्त्वभ्यवादयत्। अहं भूमिंजयो नाम प्रणतोस्मि धनंजय
दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनंजय । लोहिताक्ष महाबाहो नागराजवरोपम
यदज्ञानादवोचं त्वां प्रमादेन नरोत्तम। अकृत्वा हृदये सर्वं क्षन्तुमर्हसि तन्मम
यतस्त्वया कृतं पूर्वं चित्रं कर्म सुदुष्करम्। अतो भयं व्यपेतं मे प्रीतिश्च परमा त्वयि
दासोऽहं ते भविष्यामि पश्य मामनुकम्पया
या प्रतिज्ञा कृता पूर्वं तव सारथ्यकारणात्। सेयं प्रतिज्ञा पूर्णा मे हर्षश्चार्जुन जायते
देवेन्द्रतनयस्येह सारथिः स्यां महामृधे । इति पूर्वं कृताऽस्माभिः प्रतिज्ञा युद्धदुर्मद
प्रतिज्ञा मम संपूर्णा तव सारथ्यकारणात् । मनस्स्वास्थ्यं च मे जातं जातं भाग्यं च मे महत्
आस्थाय विपुलं वीर रथं सारथिना मया। दुर्योधनं च जित्वाऽऽजौ निवर्तय पशून्मम
प्रीतोस्मि राजपुत्राद्य न भयं विद्यते तव। सर्वान्नुदामि ते शत्रून्रणे रणविशारद
स्वस्थो भव महान्युद्धे पश्य मां शत्रुभिः सह । युध्यमानं विमर्देऽस्मिन्कुर्वाणं भैरवं रवम्
गाण्डीवं देवदत्तं च शरान्कनकभूषणान्। एतान्सर्वानुपासङ्गान्क्षिप्रं बध्नीहि मे रथे । एकं चाहर निस्त्रिंशं जातरूपपरिष्कृतम्
अहं वै कुरुभिर्योत्स्ये मोक्षयिष्यामि ते पशून् । तोषयिष्यामि राजानं प्रवेक्ष्यामि पुरं पुनः
संकल्पागाधपरिधं बाहुप्राकारतोरणम्। त्रिदण्डतूणसंबाधं नैकध्वजसमाकुलम्
ज्याक्षेपनिनदारावं नेमीनिनददुन्दुभिः । शरजालवितानाढ्यमाक्ष्वेडितमहास्वनम् । नगरं ते मया गुप्तं रथोपस्थं भविष्यति
अधिष्ठितो मया सङ्ख्ये रथो गाण्डीवधन्विना । अजय्यः शत्रुसैन्यानां वैराटे व्येतु ते भयम्
बहुना किं प्रलापेन शृणु मे परमं वचः। नाहं बिभेमि कौन्तेय साक्षादपि शतक्रतोः
यमवायुकुबेरेभ्यो द्रोणभीष्मशतादपि । बिभेमि नाहमेतेभ्यो जानामि त्वां स्थिरं युधि । केशवेनापि संग्रामे साक्षादिन्द्रेण वा समम्
इदं तु चिन्तयन्नेव परिमुह्यामि केवलम्। निश्चयं नाधिगच्छामि नावगच्छामि किंचन
एवं वराङ्गरूपस्य लक्षणैः सूचितस्य च। केन कर्मविपाकेन क्लीबत्वं त्वामुपागतम्
मन्ये त्वां क्लीबरूपेण चरन्तं शूलपाणिनम्। गन्धर्वराजप्रतिमं देवं वाऽपि शतक्रतुम्
भ्रातुर्नियोगाञ्ज्येष्ठस्य संवत्सरमिदं व्रतम्। चरामि ब्रह्मचर्यं वै सत्यमेतद्ब्रवीमि ते
नास्मि क्लीबो महाबाहो परवान्धर्मसंयुतः । उर्वशीशापसंभूतं क्लैब्यं समुपसंस्थितम्
पुराऽहमाज्ञया भ्रातुर्ज्येष्ठस्यास्मि सुरालयम्। प्राप्तवानुर्वशी दृष्टा सुधर्मायां मया तदा
नृत्यन्तीं परमं रूपं बिभ्रतीं वज्रिसन्निधौ । अपश्यं तामनिमिषं कूटस्थामन्वयस्य मे
रात्रौ समागता मह्यं शयनं रन्तुमिच्छया। अहं तामभिवाद्यैव मातृसत्कारमाचरम्
सा च मामशपत्क्रुद्धा शिखण्डी त्वं भवेति वै। श्रुत्वा तमिन्द्रो मामाह मा भैस्त्वं पार्थ षण्डता
उपकारो भवेत्तुभ्यमज्ञातवसतौ पुरा। इतीन्द्रो मामनुग्राह्य ततः प्रेषितवान्वृषा