न कुर्यां कर्म बीभत्सं युध्यमानः कदाचन। तेन देवमनुष्येषु बीभत्सुरिति मां विदुः
उभौ मे तुल्यकर्माणौ गाण्डीवस्य विकर्षणे। भुजौ मे भवतः सङ्ख्ये परसैन्यविनाशिनौ। तयोः सव्योऽधिकस्तस्मात्सव्यसाचीति मां विदुः
पृथिव्यां सागरान्तायां वर्णो मे दुर्लभः समः। शुद्धत्वाद्रुपवत्त्वाच्च तेन मामार्जुनं विदुः
उत्तराभ्यां तु पूर्वाभ्यां फल्गुनीभ्यामहं दिवा । जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः
यो ममाङ्गे व्रणं कुर्याद्धातुर्ज्येष्ठस्य पश्यतः। युधिष्ठिरस्य रुधिरं दर्शयेद्वा कदाचन । पराभवमहं तस्य कुले कुर्यां न संशयः
योत्स्यामि तैरहं सर्वैर्न मे तेभ्यः पराभवः। तेन देवमनुष्येषु जिष्णुर्नामास्मि विश्रुतः
माता मम पृथा नाम तेन मां पार्थमब्रुवन्
देवदानवगन्धर्वपिशाचोरगराक्षसान् । अहं पुरा रणे जित्वा खाण्डवेऽग्निमतर्पयम्
हुताशनं तर्पयित्वा सहितः शार्ङ्गधन्वना । [ त्रिविष्टपगतौ* दृष्ट्वा पितामहमहेश्वरौ
मूर्च्छया पतितं भूमावागतौ देवसत्तमौ । दृष्ट्वा तौ वरदौ देवौ संज्ञां लब्ध्वोत्थितः पुनः
मूर्ध्ना हि प्रणतं भूमौ तौ देवौ वरदौ वरौ। कृष्णेत्येकादशं नाम प्रीत्या मे चक्रतुस्तदा। तुष्टौ च मम वीर्येण कर्मणा चाभिराधितौ
सर्वदेवैः परिवृतौ भूयो मां स्वयमूचतुः। वरं तात वृणीष्वेति यं प्रार्थयसि पाण्डव
ततोऽहमस्त्राण्यलभं दिव्यानि च दृढानि च। ब्राह्मं पाशुपतं चैव स्थूणाकर्णं च दुर्जयम् । ऐन्द्रं वारुणमाग्नेयं वायव्यमथ वैष्णवम्
ततोऽहमजयं भूयो रथेनैन्द्रेण दुर्जयान्। मातलिं सारथिं कृत्वा निवातकवचान्रणे । अवध्यकवचांन्देवैर्वरदृप्तान्महासुरान्
तिस्रः कोटीर्दानवानां संयुगेष्वनिवर्तिनाम्। एको निर्जित्य संग्रामे भूयो देवानतोषयम्
ततो मे भगवानिन्द्रः किरीटमददात्स्वयम्। देवाश्च शङ्खमददुः शत्रुसैन्यनिवारणम्
अहं पारे समुद्रस्य हिरण्यपुरवासिनाम्। हत्वा षष्टिं सहस्राणि जयं संप्राप्तवान्रणे
असंभ्रान्तो रथे तिष्ठन्सहस्रेषु शतेषु च। शत्रुमध्ये दुराधर्षो न मुह्यन्ति च मे दिशः
अहं गन्धर्वराजेन ह्रियमाणं सुयोधनम्। भ्रातृभिः सहितं तात गन्धर्वैः समरे जितम्। चतुर्दश सहस्राणि हत्वा चैनममोचयम्
एतानि मम नामानि योऽहन्यहनि कीर्तयेत्। तं न पश्यन्ति सत्त्वानि न तं निघ्नन्ति शत्रवः
अद्य पश्य महाबाहो मम वीर्यं सुदुःसहम्। मा भैर्विगतसंत्रासः कुरूनेतान्समागतान्
सुयोधनस्य मिषतः कर्णस्य च कृपस्य च। पितामहस्य भीष्मस्य द्रौणेर्द्रोणस्य च स्वयम्। सर्वानेव कुरूञ्जित्वा प्रत्यानेष्यामि ते पशून्]
ततः पार्थं स वैराटिः प्राञ्जलिस्त्वभ्यवादयत्। अहं भूमिंजयो नाम प्रणतोस्मि धनंजय
दिष्ट्या त्वां पार्थ पश्यामि स्वागतं ते धनंजय । लोहिताक्ष महाबाहो नागराजवरोपम
यदज्ञानादवोचं त्वां प्रमादेन नरोत्तम। अकृत्वा हृदये सर्वं क्षन्तुमर्हसि तन्मम
यतस्त्वया कृतं पूर्वं चित्रं कर्म सुदुष्करम्। अतो भयं व्यपेतं मे प्रीतिश्च परमा त्वयि
दासोऽहं ते भविष्यामि पश्य मामनुकम्पया
या प्रतिज्ञा कृता पूर्वं तव सारथ्यकारणात्। सेयं प्रतिज्ञा पूर्णा मे हर्षश्चार्जुन जायते
देवेन्द्रतनयस्येह सारथिः स्यां महामृधे । इति पूर्वं कृताऽस्माभिः प्रतिज्ञा युद्धदुर्मद
प्रतिज्ञा मम संपूर्णा तव सारथ्यकारणात् । मनस्स्वास्थ्यं च मे जातं जातं भाग्यं च मे महत्