पाण्डवान्यदि जानीषे क्वनु ते धर्मचारिणः । क्वनु वा निवसन्तीति सत्यं ब्रूहि बृहन्नले
किमर्थमागतान्यत्र शस्त्रास्त्राणि महात्मनाम्। कथं ज्ञातानि भवता तथा मे ब्रूहि शोभने
ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः। उवाच राजपुत्रं तमुत्तरं शृणु मे वचः
मा भैस्त्वं राजशार्दूल सर्वं ते वर्णयाम्यहम् । नात्र भेतव्यमद्यापि राजपुत्र यथातथा
वयं ते पाण्डवा नाम वनवासस्य पारगाः। अतीते द्वादशे वर्षे च्छन्नवासमिहोषिताः। तस्मादशङ्कितमनाः शृणुष्वावहितोत्तर
अहमस्म्यर्जुनो नाम कङ्को नाम युधिष्ठिरः। भीमसेनस्तु वललः पितुस्ते रसपाचकः। अश्वबन्धस्तु नकुलः सहदेवस्तु गोपतिः
सैरन्ध्रीं द्रौपदीं विद्धि यदर्थे कीचको हतः। भीमसेनेन दुर्वृत्तः सहभ्रातृभिराहवे
श्रुत्वैतद्वचनं जिष्णोर्विस्मयस्फारितेक्षणः । पश्यन्ननिमिषः पार्थं शनैर्वाचमुवाच ह
दश पार्थस्य नामानि श्रूयन्ते मे कथासु च। प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते
अहं तर्हि तवाचक्षे दश नामानि तानि मे। वैराटे शृणु तानि त्वं यानि पूर्वं श्रुतानि ते। ईशानो विदधे देवस्त्रिदिवस्येश्वरो दिवि
अर्जुनः फल्गुनो जिष्णुः किरीटी श्वेतवाहनः। बीभत्सुर्विजयः पार्थः सव्यसाची धनञ्जयः। एतानि मम नामानि स्थापितानि सुरोत्तमैः
गुणतो दश नामानि समवेतानि पाण्डवे। चरन्ति लोके ख्यातानि विदितानि ममावघ
केनासि विजयो नाम केनासि श्वेतवाहनः। सव्यसाची च केनासि जिष्णुर्बीभत्सुरेव च
अर्जुनः फल्गुनः पार्थः किरीटी केन सारथे। धनञ्जयश्च केनासि शीघ्रं वद बृहन्नले
श्रुता मे तस्य वीरस्य केवला नामहेतवः। इतस्ततश्चलत्येतन्मनो मे चञ्चलं त्वयि। अर्जुनो वा भवान्नेति वद शीघ्रं बृहन्नले
सर्वाञ्जित्वा जनपदान्धनं चाच्छिद्य सर्वशः। मध्ये धनस्य तिष्ठन्तं तन्मामाहुर्धनञ्जयम्
अभिप्रयामि संग्रामे यदाऽहं युद्धदुर्मदान्। अजित्वा न निविर्तेयं तेन वै विजयं विदुः
श्वेताः काञ्चनसन्नाहा रथे युज्यन्ति मे हयाः। शत्रुभिर्युध्यमानस्य तेनाहं श्वेतवाहनः
किरीटं सूर्यसंकाशं भ्राजते मे शिरोगतम्। रणमध्ये रथस्थस्य सूर्यपावकसन्निभम्
अच्छेद्यं रुचिरं चित्रं जाम्बूनदपरिष्कृतम्। इन्द्रदत्तमनाहार्यं तेनाहुर्मां किरीटिनम्
न कुर्यां कर्म बीभत्सं युध्यमानः कदाचन। तेन देवमनुष्येषु बीभत्सुरिति मां विदुः
उभौ मे तुल्यकर्माणौ गाण्डीवस्य विकर्षणे। भुजौ मे भवतः सङ्ख्ये परसैन्यविनाशिनौ। तयोः सव्योऽधिकस्तस्मात्सव्यसाचीति मां विदुः
पृथिव्यां सागरान्तायां वर्णो मे दुर्लभः समः। शुद्धत्वाद्रुपवत्त्वाच्च तेन मामार्जुनं विदुः
उत्तराभ्यां तु पूर्वाभ्यां फल्गुनीभ्यामहं दिवा । जातो हिमवतः पृष्ठे तेन मां फल्गुनं विदुः
यो ममाङ्गे व्रणं कुर्याद्धातुर्ज्येष्ठस्य पश्यतः। युधिष्ठिरस्य रुधिरं दर्शयेद्वा कदाचन । पराभवमहं तस्य कुले कुर्यां न संशयः
योत्स्यामि तैरहं सर्वैर्न मे तेभ्यः पराभवः। तेन देवमनुष्येषु जिष्णुर्नामास्मि विश्रुतः
माता मम पृथा नाम तेन मां पार्थमब्रुवन्
देवदानवगन्धर्वपिशाचोरगराक्षसान् । अहं पुरा रणे जित्वा खाण्डवेऽग्निमतर्पयम्
हुताशनं तर्पयित्वा सहितः शार्ङ्गधन्वना । [ त्रिविष्टपगतौ* दृष्ट्वा पितामहमहेश्वरौ
मूर्च्छया पतितं भूमावागतौ देवसत्तमौ । दृष्ट्वा तौ वरदौ देवौ संज्ञां लब्ध्वोत्थितः पुनः