सुवर्णदण्डरुचिराः कालदण्डोपमाः शुभाः । नकुलस्य शरा ह्येते वज्राशनिसमप्रभाः
यांश्च त्वं पृच्छसे दीप्तान्समधारान्समाहितान्। वराहकर्णास्तीक्ष्णाग्राः सहदेवस्य ते शराः
यस्त्वयं सायको दीर्घो गव्ये कोशे च दंशितः। पार्थस्यायं महाघोरः सर्वभारसहो महान्
यस्त्वयं निर्मलः खङ्गो द्वीपिचर्मणि दंशितः। राज्ञो युधिष्ठिरस्यायं कुन्तीपुत्रस्य धीमतः
वैयाघकोशो भीमस्य पञ्चशार्दूललक्षणः । वारणानां सुदृप्तानां शिक्षितः स्कन्धशातने
नीलोत्पलसवर्णाभः खङ्गः पार्थस्य धीमतः। मृगेन्द्रचर्मपिहितस्तीक्ष्णधारः सुनिर्मलः
दर्शनीयः सुतीक्ष्णाग्रः कुन्तीपुत्रस्य धीमतः । अर्जुनस्यैष निस्त्रिंशः परसैन्याग्रदूषणः
यस्त्वयं पार्षते कोशे निक्षिप्तो रुचिरत्सरुः ।। नकुलस्यैष निस्त्रिंशो वैश्वानरसमप्रभः
यस्त्वयं पिङ्गलः खङ्गश्चित्रो मणिमयत्सरुः। सहदेवस्य खङ्गोऽयं भारसाहोऽतिदंशितःक । भीमस्यायं महादण्डः सर्वामित्रविनाशनः
भेदतो ह्यर्जुनस्तूर्णं कथयामास तत्त्वतः । आयुधानि कलापांश्च निस्त्रिंशांश्चातुलप्रभान्
एतस्मिन्नन्तरे पार्थं न मूढात्मा व्यजानत। विराटपुत्रः प्रभुखे पप्रच्छ पुनरेव तम्
सुवर्णरुचिराण्येषामायुधानि महात्मनाम् । रुचिराणि प्रकाशन्ते पार्थानामाशुकारिणाम्
क्वनु ते पाण्डवाः शूराः संग्रामेष्वपराजिताः। येषामिमानि दीप्तानि श्रिया दीप्यन्ति भान्ति च
कस्मिन्वसन्ति देशे च धर्मज्ञा बन्धुवत्सलाः। क्व धर्मराजः कौन्तेयो धर्मपुत्रो युधिष्ठिरः
धर्मशीलश्च धर्मात्मा धर्मवान्धर्मवित्सुधीः । धर्माध्यक्षो धर्मपुत्रो धर्मज्ञो धर्ममूर्तिमान्
धर्मनिष्ठो धर्मकर्ता धर्मगोप्ता सुधर्मकृत्। सत्यार्जवक्षमाधारो घृणी धर्मपरायणः
भीमसेनार्जुनौ चापि सर्वे ते मातुला मम। नकुलः सहदेवो वा सर्वास्त्रकुशलौ रणे
सर्व एव महात्मानः सर्वामित्रविनाशनाः। राज्यमक्षैः पराजित्य नः श्रूयन्ते वनं गताः
द्रौपदी चापि पाञ्चाली स्त्रीरत्नमिति मे श्रुता। जिता चाक्षैस्तदा कृष्णा तानेवान्वगमद्वने
उत्सृज्य राज्यं धर्म्यं ते नः श्रूयन्ते वनं गताः
पाण्डवान्यदि जानीषे क्वनु ते धर्मचारिणः । क्वनु वा निवसन्तीति सत्यं ब्रूहि बृहन्नले
किमर्थमागतान्यत्र शस्त्रास्त्राणि महात्मनाम्। कथं ज्ञातानि भवता तथा मे ब्रूहि शोभने
ततः प्रहस्य बीभत्सुः कौन्तेयः श्वेतवाहनः। उवाच राजपुत्रं तमुत्तरं शृणु मे वचः
मा भैस्त्वं राजशार्दूल सर्वं ते वर्णयाम्यहम् । नात्र भेतव्यमद्यापि राजपुत्र यथातथा
वयं ते पाण्डवा नाम वनवासस्य पारगाः। अतीते द्वादशे वर्षे च्छन्नवासमिहोषिताः। तस्मादशङ्कितमनाः शृणुष्वावहितोत्तर
अहमस्म्यर्जुनो नाम कङ्को नाम युधिष्ठिरः। भीमसेनस्तु वललः पितुस्ते रसपाचकः। अश्वबन्धस्तु नकुलः सहदेवस्तु गोपतिः
सैरन्ध्रीं द्रौपदीं विद्धि यदर्थे कीचको हतः। भीमसेनेन दुर्वृत्तः सहभ्रातृभिराहवे
श्रुत्वैतद्वचनं जिष्णोर्विस्मयस्फारितेक्षणः । पश्यन्ननिमिषः पार्थं शनैर्वाचमुवाच ह
दश पार्थस्य नामानि श्रूयन्ते मे कथासु च। प्रब्रूयास्तानि यदि मे श्रद्दध्यां सर्वमेव ते
अहं तर्हि तवाचक्षे दश नामानि तानि मे। वैराटे शृणु तानि त्वं यानि पूर्वं श्रुतानि ते। ईशानो विदधे देवस्त्रिदिवस्येश्वरो दिवि