चन्द्रार्कविमलाभासः सुरूपाः सुप्रदर्शनाः । हंसाः पृष्ठं श्रिता यस्य कुशाग्निप्रतिमार्चिषः । शार्ङ्गगाण्डीवसदृशं कस्येदं सारथे धनुः
चतुर्तं काञ्चनवपुर्भाति विद्युद्गणोपमम्। नीलोपलिप्तमच्छिदं जातरूपमयं धनुः । मत्स्यश्चास्य हिरण्यस्य पृष्ठे तिष्ठन्ति दंशिताः
शक्रचापोपमं दिव्यं कस्येदं सारथे धनुः। उच्छ्रितं फणिवद्दिव्यं सारवत्त्वाद्दुरानमम्
सहस्रगोधाः सौवर्णा द्वीपिनश्च चतुर्दश । बर्हिणश्चात्र सौवर्णाः शतचन्द्रार्कभूषिताः। जाम्बूनदविचित्राङ्गं कस्येदं पञ्चमं धनुः
कस्येमे क्षुरनाराचाः सहस्रं लोमवापिनः। प्रक्षिप्तास्तीक्ष्णतुण्डाग्रा उपासङ्गे हिरण्मये
हारिद्रवर्णाः कस्येमे शिता पञ्चशतं शराः। आशीविषसमस्पर्शाः शिताश्चाजिंहगा दृढाः
विपाठाः पृथवः कस्य गृध्रपत्रार्धवाजिताः। वराहकर्णास्तीक्ष्णाग्राः कस्येमे रुचिराः शराः
वज्राशनिसमस्पर्शा वैश्वानरशिखार्चिषः। सुवर्णपुङ्खास्तीक्ष्णाग्राः कस्य सप्तशतं शराः
कस्यायं सायको दीर्घो गव्ये कोशे च दंशितः। कस्य दण्डो दृढः श्लक्ष्णो रुचिरोऽयं प्रकाशते
वैयाघ्रकोशः कस्यायं दिव्यः शङ्खो महाप्रभः । कस्यार्थमसयश्चैते पञ्च शार्दूललक्षणाः
कस्यायं निर्मलः खङ्गो द्वीपिचर्मनिवासितः। नीलोत्पलसवर्णोऽयं कस्य खङ्गः पृथुर्महान्
मृगेन्द्रचर्मावसितस्तीक्ष्णधारः सुनिर्मलः। ऋषभाजिनकोशस्तु कस्य खङ्गो महानयम्
यस्यापिधाने दृश्यन्ते सूर्याः पञ्च परिष्कृताः। कस्यायं विपुलः खङ्गः शृङ्गत्सरुमनोहरः
निहितः पार्षते कोशे तैलधौतः समाहितः। प्रमाणवर्णयुक्तश्च कस्य खङ्गो महानयम्। एतेन प्रतिविद्धः सञ्जीवेत्कश्चिन्न कुञ्जरः
निर्दिशस्व यथामार्गं मया पृष्टा बृहन्नले। विस्मयो मे परो जातो दृष्ट्वा सर्वमिदं महत्
अत्तरेणैवमुक्तस्तु पार्थो वैराटिमब्रवीत्। मृद्व्या प्रत्याययन्वाचा भीतं शङ्कावशं गतम्
अत्त्वया प्रथमं पृष्टं शत्रुसेनाङ्गमर्दनम्। पार्थस्येदं धनुर्दिव्यं गाण्डीवमिति विश्रुतम्
अभेद्यमभयं श्रीमद्दिव्यमच्छेद्यमव्रणम्। सर्वायुधमहामात्रं शातकुम्भमयं धनुः
एतच्छतसहस्रेण संमितं राष्ट्रवर्धनम् । देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः
येन देवासुरान्पार्थः सर्वान्विषहते रणे। एतद्वर्षसहस्रं तु ब्रह्मा पूर्वमधारयत्
उमापतिश्चतुःषष्टिं शक्रोऽशीतिं च पञ्च च । सोमः पञ्चसहस्राणि तथा च वरुणः शतम्
तस्माच्च वरुणादग्निः प्रेम्णा प्राहृत्य तच्छुभम्। अग्निना प्रातिभाव्येन दत्तं पार्थाय गाण्डिवम् । पञ्चषष्टिं च वर्षाणि कौन्तेयो धारयिष्यति
एवंवीर्यं महावेतेतच्च धनुरुत्तमम् । नीलोत्पलसमं राज्ञः कौरव्यस्य महात्मनः
बिन्दवश्चात्र सौवर्णाः पृष्ठे साधुनियोजिताः । विश्रुतं भीमसेनस्य जातरूपग्रहं दृढम्
सहस्रगोधाः सौवर्णा द्वीपिनश्च चतुर्दश । ऋषभा यत्र सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः
येन भीमोऽजयत्कृत्स्नां दिशं प्राचीं परंतपः। पृष्ठे विभक्ताः शोभन्ते कुशाग्निप्रतिदीपिताः
पूजितं सुरमर्त्येषु प्रथितं धनुरुत्तमम्। तालप्रमाणं भीमस्य रत्नरुक्मविभूषितम्
दुरानमं महद्दीर्घं सुरूपं दुष्प्रधर्षणम् । बर्हिणश्चात्र सौवर्णाः शतचन्द्रकभूषणाः
नकुलस्य धनुस्त्वेतन्माद्रीपुत्रस्य धीमतः। एतेन सदृशं चित्रं धनुरेतद्यवीयसः। हारिद्रवर्णं राज्ञस्तु कौरव्यस्य महात्मनः
विपाठा भीमसेनस्य गिरीणामपि दारणाः । सुप्रभाः सुमहाकायास्तीक्ष्णाग्राः सुतरां दृढाः । भीमेन प्रहिता ह्येते वारणानां निवारणाः