दृष्ट्वा काव्यमुवाचेदं संभ्रमाविष्टचेतना। आचचक्षे महाप्राज्ञं देवयानीं वने हताम्
शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः। श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम्
त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने। दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने
बाहुभ्यां संपरिष्वज्य दुःखितो वाक्यमब्रवीत्। आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः
मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता
शर्मिष्ठया यदुक्ताऽस्मि दुहित्रा वृषपर्वणः।। सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः
एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी। वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम्
स्तुवतो दुहिता नित्यं याचतः प्रतिगृह्णतः। अहं तु स्तूयमानस्य ददतोऽप्रतिगृह्णतः
इदं मामाह शर्मिष्ठा दुहिता वृषपर्वणः। क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः
यद्यह स्तुवतस्तात दुहिता प्रतिगृह्णतः। प्रसादयिष्ये शर्मिष्ठामित्युक्ता तु सखी मया
उक्ताप्येवं भृशं मां सा निगृह्य विजने वने। कूपे प्रक्षेपयामास प्रक्षिप्य गृहमागमत्
स्तुवतो दुहिता न त्वं याचतः प्रतिगृह्णतः। अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि
वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः। अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम
जानामि जीविनीं विद्यां लोकेस्मिञ्शाश्वतीं ध्रुवम्। मृतः संजीवते जन्तुर्यया कमललोचने
कत्थनं स्वगुणानां च कृत्वा तप्यति सज्जनः। ततो वक्तुमशक्तोऽस्मित्वं मे जानासि यद्बलम्
तसमादुत्तिष्ठ गच्छामः स्वगृहं कुलनन्दिनि। क्षमां कृत्वा विशालाक्षि क्षमासारा हि साधवः
यच्च किंचित्सर्वगतं भूमौ वा यदि वा दिवि। तस्याहमीश्वरो नित्यं तुष्टेनोक्तः स्वयंभुवा
अहं जलं विमुञ्चामि प्रजानां हितकाम्यया। पुष्णाम्यौषधयः सर्वा इति सत्यं ब्रवीमि ते
एवं विषादमापन्नां मन्युना संप्रपीडिताम्। वचनैर्मधुरैः श्लक्ष्णैः सान्त्वयामास तां पिता
यः परेषां नरो नित्यमतिवादांस्तितिक्षते। देवयानि विजानीहि तेन सर्वमिदं जितम्
यः समुत्पतितं क्रोधं निगृह्णाति इयं यथा। स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते
यः समुत्पतितं क्रोधमक्रोधेन निरस्यति। देवयानि विजानीहि तेन सर्वमिदं जितम्
यः समुत्पतितं क्रोधं क्षमयेह निरस्यति। यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते
यः संधारयते मन्युं योऽतिवादांस्तितिक्षते। यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम्
यो यजेदपरिश्रान्तो मासिमासि शतं समाः। न क्रुद्ध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः
तस्मादक्रोधनः श्रेष्ठः कामक्रोधौ विगर्हितौ। क्रुद्धस्य निष्फलान्येव दानयज्ञतपांसि च
तस्मादक्रोधने यज्ञतपोदानफलं महत्। भवेदसंशयं भद्रे नेतरस्मिन्कदाचन
न यतिर्न तपस्वी च न यज्वा न च धर्मभाक्। क्रोधस्य यो वशं गच्छेत्तस्य लोकद्वयं न च
पुत्रो भृत्यः सुहृद्भ्राता भार्या धर्मश्च सत्यता। तस्यैतान्यपयास्यन्ति क्रोधशीलस्य निश्चितम्
यत्कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः। न तत्प्राज्ञोऽनुकुर्वीत न विदुस्ते बलाबलम्