अतिसूक्ष्माणि ह्रस्वानि सर्वाणि च मृदूनि च। आयुधानि महाबाहो तवैतानि महाबल
तस्माद्भूमिंजयारुह्य शमीमेतां पलाशिनीम् । अस्यां हि पाण्डुपुत्राणां धनूंषि निहितात्युत
युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा । ध्वजा शराश्च शूराणां दिव्यानि कवचानि च
अत्रैव तु महावीर्यं धनुः पार्थस्य गाण्डिवम् । एकं शतसहस्रेण संमितं राष्ट्रवर्धनम्
व्यायामसहमत्यर्थं तृणराजसमं महत् । सर्वायुधमहामात्रं सर्वारिक्षयकारकम्
सुवर्णविकृतं दिव्यं श्लक्ष्णमायतमव्रणम्। अलं भारं गुरुं सोढुं वारुणं च सुदर्शनम्
तादृशान्येव सर्वाणि बलवन्ति दृढानि च। युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा । प्रथितानि विशिष्टानि दुर्दशानि भवन्त्युत
शरीरमिह चासक्तं शम्यां शुष्कं पुरा किल। तदहं राजपुत्रः सन्स्पृशेयं पाणिना कथम्
न मामेवंविधं कर्म कारयस्व बृहन्नले । कथं वा शक्यते कर्तुं बुद्ध्या त्वं मन्यसे कथं
नैवंविधं मया युक्तमालब्धुं क्षत्रयोनिना । महता राजपुत्रेण मन्त्रयज्ञविदा सता
स्पृष्टवन्तं शरीरं मां शववाहमिवाशुचिम्। कथं वा व्यवहार्यं वै कुर्वीथास्त्वं बृहन्नले
तमुवाच ततः शूरः पार्थं परपुंरजयः। दायादं सर्वमत्स्यानां कुले जातं विशारदम्
जानामि त्वां महाप्राज्ञ शुभं जात्या कुलेन च । कथं नु पापकं कर्म ब्रूयां त्वाऽहं परन्तप
व्यवहार्यश्च राजेन्द्र शुद्धश्चैव भविष्यसि । धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते
दायादं मत्स्यराजस्य कुले जातं मनस्विनम् । कथं वा नन्दितं कर्म कारये त्वां नृपात्मज
एवमुक्तः स पार्थेन रथात्प्रस्कन्द्य कुण्डली। आरुरोह शमीवृक्षं वैराटिरवशस्तदा
तमन्वशासच्छत्रुघ्नो रथे तिष्ठन्धनञ्जयः । अवरोपय वृक्षाग्राद्धनूंष्येतानि माचिरम्
सोपहृत्य महार्हाणि धनूंषि पृथुवक्षसाम् । परिवेष्टनपत्राणि विमुच्य समुपानयत्
परिवेष्टनमेतेषां सर्वं मुञ्चस्व माचिरम् । तेषां संनहनीयानि परिमुच्य परन्तपः। अपश्यत्तत्र गाण्डीवं चतुर्भिरपरैः सह
तेषां विमुच्यमानानां धनुषामर्कवर्चसाम्। विनिश्चेरुः प्रभा दिव्या ग्रहाणामुदयेष्विव
स तेषां रूपमालेक्य भोगिनामिव दृम्भताम् । हृष्टरोमा भयोद्विग्रः प्रवेपिततनुस्तदा
अर्जुनेन समाश्वस्तः किंचिद्धृष्टो नृपात्मजः। तेषां संदर्शनाभ्यासं स्पर्शाभ्यासं पुनः पुनः ।। 58
आमील्य पुनरुन्मील्य स्पृष्ट्वास्पृष्ट्वा चकार सः। सम्यग्घुण्टस्तदाऽऽश्वस्तः क्षणेन समपद्यत ।। 59
संस्पृश्य तानि चापानि भानुमन्ति बृहन्ति च। वैराटिरर्जुनं राजन्निदं वचनमब्रवीत् ।। 60
सारथे किमिदं दिव्यं नागो वा यदि वा धनुः। सौवर्णान्यत्र पद्मानि शतपत्राणि भागशः । कुशाग्निप्रतितप्तानि भानुमन्ति बृहन्ति च
बिन्दवश्चात्र सौवर्णा मणिप्रोताः समन्ततः। शशिसूर्यप्रभाः पृष्ठे भान्ति रुक्मपरिष्कृताः
पुष्पाण्यत्र सुवर्णानि शतपत्राणि भागशः । विस्मापनीयरूपं च भीमं भीमप्रदर्शनम्
नीलोत्पलनिभं कस्य शातकुम्भपरिष्कृतम्। ऋषभा यस्य सौवर्णाः पृष्ठे तिष्ठन्ति शृङ्गिणः
तालप्रमाणं कस्येदं मणिरुक्मविभूषितम् हाटकस्य सुवर्णस्य यस्मिञ्शाखामृगा दश
दुरानमं महादीर्घं सुरूपं दुष्प्रधर्षणम् । कस्येदमीदृशं चित्रं धनुः सर्वे च दंशिताः