महादेवोपि पार्थेन श्रूयते युद्धतोषितः । किरातवेषप्रच्छन्नो गिरौ हिमवति प्रभुः
इत्येवंवादिनं द्रोणं कर्णः क्रुद्धोऽभ्यभाषत
सदा भवान्फल्गुनस्य गुणानस्मासु कत्थसे। न चार्जुनः कलापूर्णो मम दुर्योधनस्य वा
यद्येष पार्थो राधेय कृतं कार्यं भवेन्मम । ज्ञाताः पुनश्चरिष्यन्ति द्वादशान्यांश्च वत्सरान्
अथवा कश्चिदेवान्यः क्लीबरूपेण देवराट् । शरैरेनं सुनिशितैः पातयिष्यामि भूतले
तस्मिन्वदति तां वाचं धार्तराष्ट्रे परन्तपे। भीष्मो द्रोणः कृपो द्रौणिः पौरुषं तदपूजयन्
तां शमीमभिसंगम्य पार्थो वैराटिमब्रवीत्। सुखसंवर्धितं पित्रा समराणामकोविदम्
एहि भूमिंजयारुह्य वैराटे महतीं शमीम्। समादिष्टो मया क्षिप्रं धनुर्गाण्डीवमानय
नेमानीष्वासनानीह सोढुं शक्ष्यन्ति मे बलम् । नालं भारं गुरुं भेत्तुं कुञ्जरं वा प्रमर्दितुम्
मम वा बाहुविक्षेपं शत्रूनिह विजेष्यतः। नेच्छामि तैरहं कर्तुं कर्म वैजयिकं त्विह
अतिसूक्ष्माणि ह्रस्वानि सर्वाणि च मृदूनि च। आयुधानि महाबाहो तवैतानि महाबल
तस्माद्भूमिंजयारुह्य शमीमेतां पलाशिनीम् । अस्यां हि पाण्डुपुत्राणां धनूंषि निहितात्युत
युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा । ध्वजा शराश्च शूराणां दिव्यानि कवचानि च
अत्रैव तु महावीर्यं धनुः पार्थस्य गाण्डिवम् । एकं शतसहस्रेण संमितं राष्ट्रवर्धनम्
व्यायामसहमत्यर्थं तृणराजसमं महत् । सर्वायुधमहामात्रं सर्वारिक्षयकारकम्
सुवर्णविकृतं दिव्यं श्लक्ष्णमायतमव्रणम्। अलं भारं गुरुं सोढुं वारुणं च सुदर्शनम्
तादृशान्येव सर्वाणि बलवन्ति दृढानि च। युधिष्ठिरस्य भीमस्य बीभत्सोर्यमयोस्तथा । प्रथितानि विशिष्टानि दुर्दशानि भवन्त्युत
शरीरमिह चासक्तं शम्यां शुष्कं पुरा किल। तदहं राजपुत्रः सन्स्पृशेयं पाणिना कथम्
न मामेवंविधं कर्म कारयस्व बृहन्नले । कथं वा शक्यते कर्तुं बुद्ध्या त्वं मन्यसे कथं
नैवंविधं मया युक्तमालब्धुं क्षत्रयोनिना । महता राजपुत्रेण मन्त्रयज्ञविदा सता
स्पृष्टवन्तं शरीरं मां शववाहमिवाशुचिम्। कथं वा व्यवहार्यं वै कुर्वीथास्त्वं बृहन्नले
तमुवाच ततः शूरः पार्थं परपुंरजयः। दायादं सर्वमत्स्यानां कुले जातं विशारदम्
जानामि त्वां महाप्राज्ञ शुभं जात्या कुलेन च । कथं नु पापकं कर्म ब्रूयां त्वाऽहं परन्तप
व्यवहार्यश्च राजेन्द्र शुद्धश्चैव भविष्यसि । धनूंष्येतानि मा भैस्त्वं शरीरं नात्र विद्यते
दायादं मत्स्यराजस्य कुले जातं मनस्विनम् । कथं वा नन्दितं कर्म कारये त्वां नृपात्मज
एवमुक्तः स पार्थेन रथात्प्रस्कन्द्य कुण्डली। आरुरोह शमीवृक्षं वैराटिरवशस्तदा
तमन्वशासच्छत्रुघ्नो रथे तिष्ठन्धनञ्जयः । अवरोपय वृक्षाग्राद्धनूंष्येतानि माचिरम्
सोपहृत्य महार्हाणि धनूंषि पृथुवक्षसाम् । परिवेष्टनपत्राणि विमुच्य समुपानयत्
परिवेष्टनमेतेषां सर्वं मुञ्चस्व माचिरम् । तेषां संनहनीयानि परिमुच्य परन्तपः। अपश्यत्तत्र गाण्डीवं चतुर्भिरपरैः सह
तेषां विमुच्यमानानां धनुषामर्कवर्चसाम्। विनिश्चेरुः प्रभा दिव्या ग्रहाणामुदयेष्विव