एवं ब्रुवाणो वैराटिं बीभत्सुरपराजितः। समाश्वास्य भयार्तं तमुत्तरं भरतर्षभः ।। 78
इतस्ततो विवेष्टन्तमकामं भयपीडितम् । रथमारोपमायास पार्थः परपुरंजयः ।। 79
तमारोप्य रथोपस्थे विलपन्तं धनञ्जयः। गाण्डीवं धनुरादातुमुपायात्तां शमीं प्रति
उत्तरं तं समाश्वास्य कृत्वा यन्तारमर्जुनः ।। 80
तं दृष्ट्वा क्लीबरूपेण रथस्थं रथिपुङ्गवम्। शमीमभिमुखं यान्तं रथमारोप्य चोत्तरम्
द्रोणभीष्मादयः शूराः कुरूणां रथिसत्तमाः । वित्रस्तमनसश्चासन्धनञ्जयकृताद्भयात्
तानवेक्ष्य हतोत्साहानुत्पातानपि चाद्भुतान्। गुरुः शस्त्रभृतांश्रेष्ठो भारद्वाजोऽभ्यभाषत
स्वराश्च वाताः संयान्ति रूक्षाः परुषनिस्वनाः । भस्मवर्षप्रकाशेन तमसा संवृतं नभः
रूक्षवर्णाश्च जलदा दृश्यन्तेऽद्भुतदर्शनाः । निःसरन्ति च कोशेभ्यः शस्त्राणि विविधानि च
शिवाश्च विनदन्त्येता दीप्तायां दिशि दारुणाः । हयाश्चाश्रूणि मुञ्चन्ति ध्वजाः कम्पन्त्यकम्पिताः
यादृशान्यत्र दृश्यन्ते रूपाणि विविधानि च। यत्ता भवन्तस्तिष्ठन्तु युद्धं स्यात्समुपस्थितम्
रक्षध्वमपि राजानं व्यूहध्वं वाहिनीमपि । वैशसं च प्रतीक्षध्वं रक्षध्वं चापि गोधनम्
एष वीरो महेष्वासः सर्वशस्त्रभृतांवरः। आगतः क्लीबवेषेण पार्थो नास्त्यत्र संशयः
एतावदुक्त्वा वचनं भीष्ममालोक्य चाब्रवीत्
नदीज लङ्केशवनारिकेतुर्नगाह्वयो नाम नगारिसूनुः । गत्या सुरेशः क्वचिदङ्गनेव गुरुर्बभाषे वचनं तदानीम्
इत्युक्त्वा संज्ञया द्रोणस्तूष्णीमासीद्विशांपते। भारद्वाजवचः श्रुत्वा गाङ्गेयः संज्ञयाऽब्रवीत्
अतीतं चक्रमस्माकं विषयान्तरमागताः । अतीतः समयश्चोक्त अस्माभिर्यः सभातले। न भयं शत्रुतः कार्यं शङ्कां त्यज नरर्षभ
देवव्रतेनैवमुक्ते वचने हितकारिणा । दुर्योधनमथालोक्य संज्ञया द्रोण अब्रवीत्
एष वीरो महेष्वासः सर्वशस्त्रभृतांवरः । आगतः क्लीबरूपेण पार्थो नास्त्यत्र संशयः
एष पार्थो हि विक्रान्तः सव्यसाची परन्तपः। ये जेतारो महीपानाममुना कुरवो हताः
यस्मिञ्जाते मही कृत्स्ना निर्भरोच्छ्वासिताऽभवत्। येन मे दक्षिणा दत्ता बद्ध्वा द्रुपदमोजसा
विद्ध्वा वियद्गतं लक्ष्यं विनिर्जित्य च पार्थिवान् । निर्जिता येन पाञ्चाली पुरा येन स्वयंवरे
खाण्डवे येन संतृप्तो वह्निर्जित्वा सुरासुरान् । परिणीता सुभद्रा च येन निर्जित्य यादवान्
निर्जितो येन युद्धेन त्रिपुरारिः स्मरार्दनः
गत्वा त्रिविष्टपं येन जितेन्द्रा दानवा युधि । निवातकवचा राजन्दानवानां त्रिकोटयः। निर्जिताः कालकेयाश्च हिरण्यपुरवासिनः
येन त्वं मोचितो बद्धश्चित्रसेनेन तद्वने
येन गत्वोत्तरं मेरोरानिनाय महद्धनम् । याजितो धर्मसूनुश्च नृपान्सर्वान्विजित्य च
यस्मिञ्शौर्यं च वीर्यं च तेजो धैर्यं पराक्रमः । औदार्यं चैव गाम्भीर्यं श्रीर्ह्रीर्धर्मो दयाऽऽर्जवम् । एवमादिगुणोपेतः सोयं पार्थो न संशयः
नाजित्वा विनिवर्तेत सर्वानपि मरुद्गणान्
क्लेशितश्च वने शूरो वासवेन च शिक्षितः। अमर्षवशमापन्नो योत्स्यते नात्र संशयः । न ह्यस्य प्रतियोद्धारमन्यं पश्यामि कौरव