इति स्म कुरवः सर्वे विमृशन्तः पृथक्पृथक्। न च व्यवसितुं वीरा अर्जुनं शक्नुवन्ति ते ।। 48
दुर्योधन उवाचेदं सैनिकान्रथसत्तमान् । अर्जुनो वासुदेवो वा रामः प्रद्युम्न एव वा। ते हि नः प्रतिसंयातुं संग्रामे न हि शक्नुयुः ।। 49
अन्यो वै क्लीबरूपेण यद्यागच्छेद्गवां पदम्। शस्त्रैस्तीक्ष्णैरर्पयित्वा पातयिष्यामि भूतले । कथमेकतरस्तेषां समस्तान्योधयेत्कुरून् ।। 50
छन्नं तथा तं वेषेण पाण्डवं प्रेक्ष्य सैनिकाः। अर्जुनेति च नेत्येव न व्यवस्यन्ति ते पुनः। इति स्म कुरवः सर्वे विमृशन्तः पुनः पुनः ।। 51
दृढेवधी महासत्त्वः शक्रतुल्यपराक्रमः । अद्यागच्छति चेद्योद्धुं सर्वं संशयितं बलम् ।। 52
न चाप्यन्यतरं तत्र व्यवस्यन्ति धनञ्जयात् ।। 53
उत्तरं तु प्रधावन्तमनुद्रुत्य धनञ्जयः। गत्वा शतपदं तूर्णं केशपक्षे परामृशत् ।। 54
मा मा गृहाण भद्रं ते दासोऽहं ते बृहन्नले। इति वादिनमेवाशु धावन्तं तरसाऽग्रहीत्। विराटपुत्रं बीभत्सुर्बलवानरिमर्दनः ।। 55
सोऽर्जुनेन परामृष्टः पर्यदेवयदार्तवत् । बहुलं कृपणं चैव वित्तं प्रावेदयद्बहु ।। 56
सुवर्णमणिमुक्तानां यद्यदिच्छसि दद्मि ते। हस्तिनोश्वान्रथान्गावः स्त्रियश्च समलङ्कृताः ।। 57
शातकुम्भस्य शुद्धस्य श्रेष्ठस्य रजतस्य च। ददामि शतनिष्कं ते मुञ्च मां त्वं बृहन्नले ।। 58
षष्टिं स्वलंकृताः कन्या ग्राममेकं ददामि ते। मुञ्च मां त्वं भृशं दीनं विह्वलं भयकम्पितम् ।। 59
मणीनष्टौ च वैडूर्यान्हेमबद्धान्महाप्रभान्। हेमदण्डप्रतिच्छन्नं रथं युक्तं तु वाजिभिः ।। 60
मत्तांश्च दश मातङ्गान्मुञ्च मां त्वं बृहन्नले । गमिष्यामि पुरं षण्ड द्रष्टुं मातरमद्य ताम् ।। 61
एकोऽहमेव मे मातुः कुमारः किं ब्रुवे ततः। विधिरेवंविधे काले त्वद्वशं कुरुते हि माम् ।। 62
मात्स्यस्य पुत्रो बालोऽहं तेन चास्मि सुपोषितः। मातृपार्श्वशयानोऽहमस्पृष्टातपवायुमान् ।। 63
अदृष्टबालयुद्धोऽहं कुतस्ते कुरवः कुतः। मातृपार्श्वं गमिष्यामि मुञ्च मां त्वं बृहन्नले ।। 64
प्रलयार्णवसंकाशं दृश्यते कौरवं बलम् ।। 65
स्त्रीणां मध्येऽहमज्ञानाद्वीर्यशौर्याङ्कितां गिरम्। उक्तो यौवनगर्वेण को जेतुं शक्नुयात्कुरून् । अमुक्त्वा मां यदि नयेर्मरिष्यामि तवाग्रतः ।। 66
एवमादीनि वाक्यानि विलपन्तमचेतसम्। प्रसभं पुरुषव्याघ्रो रथस्यान्तिकमानयत् ।। 67
अथैनमब्रवीत्पार्थो भयार्तं नष्टचेतसम् ।। 68
अहं योत्स्यामि कौरव्यैर्हयान्संयच्छ मेति माम् । आददानः किमर्थं त्वं पलायनपरोऽभवः ।। 69
युध्यस्व कौरवैः सार्धं विजयस्ते भविष्यति। यस्य यन्तास्म्यहं युद्धे संयच्छामि हयोत्तमान्। राज्ञो वा राजपुत्रस्य तस्य युद्धे जयो ध्रुवम् ।। 70
सर्वथोत्तर युध्यस्व यन्त्रा सह मया कुरून् । जित्वा महीं यशः प्राप्य भोक्ष्यसे सकलामिमाम् ।। 71
हतो वा प्राप्ससे स्वर्गं न श्रेयस्ते पलायनम् ।। 72
अद्य सर्वान्कुरूञ्जित्वा यथा जयमवाप्स्यसि। तथाऽहं प्रयतिष्येऽत्र सहायोऽत्र मतो ह्यहम् ।। 73
यदि नोत्सहसे योद्धुं शत्रुभिः शत्रुकर्शन। एहि मे त्वं हयान्यच्छ युध्यमानस्य शत्रुभिः ।। 74
प्रयाह्येतद्रथानीकं मद्बाहुपरिरक्षितः । अप्रधृष्यतमं घोरं गुप्तं घोरैर्महारथैः । मा भैस्त्वं राजपुत्राग्र्य क्षत्रियोसि परंतप ।। 75
अहं तैः कुरुभिर्योत्स्ये प्रत्यानेष्यामि ते पशून् । प्रविशैतद्रथानीकमप्रधृष्यं दुरासदम् ।। 76
यन्ता भव नरश्रेष्ठ योत्स्येऽहं कुरुभिः सह। शूरान्समरचण्डांश्च नयिष्ये यमसादनम् ।। 77