दृष्ट्वा तु महतीं सेनां कुरूणां दृढधन्विनाम्। परिदेवयते मन्दः सकाशे सव्यसाचिनः ।। 18
त्रिगर्तान्मे पिता यातः शून्ये वै प्रणिधाय माम्। सर्वां सेनामुपादाय न मे सन्तीह सैनिकाः ।। 19
अहमेको बहून्बालः कृतास्त्रानकृतश्रमः। प्रतियोद्धुं न शक्नोति निवर्तय बृहन्नले ।। 20
तं तथा वादिनं तत्र बीभत्सुः प्रत्यभाषत। संप्रहस्य पुनस्तं वै सर्वलोकमहारथः ।। 21
भयेन दीनरूपोऽसि द्विषतां हर्षवर्धनः । न च तावत्कृतं किंचित्परैः कर्म रणाजिरे ।। 22
स्वयमेव च मामात्थ नय मां कौरवान्प्रति । सोहं त्वां तत्र नेष्यामि यत्रैते बहुला ध्वजाः ।। 23
मध्यमामिषगृध्रूनां कुरूणामाततायिनाम् । नेष्यामि त्वां महाबाहो मा त्वं हि विमना भव। समुद्रमिव गम्भीरं कुरुसैन्यमरिन्दम ।। 24
स्त्रीसकाशे प्रतिज्ञाय पुरुषाणां हि शृण्वताम्। विकत्थमानो निर्यात्वा ब्रूषि किं नात्र युद्ध्यसे ।। 25
तथा स्त्रीषु प्रतिश्रुत्य पौरुषं पुरुषेषु च। रथमारुह्य निर्यात्वा किमर्थं नावबुध्यसे ।। 26
न चेद्विजित्य गास्त्वं हि नगरं प्रतियास्यसि। प्रहसिष्यन्ति वीरास्त्वां नरा नार्यश्च संगताः ।। 27
अहमप्यस्मि सैरन्ध्र्या स्तुतः सारथ्यकर्मणि । नाहं शक्नोम्यनिर्जित्य गाः प्रयातुं पुरं प्रति ।। 28
स्तोत्रेण चैव सैरन्ध्र्यास्तव वाक्येन चोदितः । कथं न युद्ध्येयमहं कुरूनेतान्स्थिरो भव ।। 29
कामं हरन्तु मात्स्यानां भूयांसः कुरवो धनम्। प्रहसन्तु च मां नार्यो नरा वाऽपि बृहन्नले ।। 30
संग्रामेण न मे कार्यं गावो गच्छन्तु चापि मे । नगरं च प्रवेक्ष्यामि पश्यतस्ते बृहन्नले ।। 31
इत्युक्त्वा प्राद्रवद्भीतो रथात्प्रस्कन्द्य कुण्डली। त्यक्त्वा मानं सुसंत्रस्तो विसृज्य सशरं धनुः ।। 32
नैष शूरैः स्मृतो धर्मः क्षत्रियस्य पलायनम्। श्रेयो हि मरणं युद्धे न भीतस्य पलायनम् ।। 33
एवमुक्त्वा तु कौरव्यः सोऽवप्लुत्य रथोत्तमात्। तमन्वधावद्धावन्तं राजपुत्रं धनञ्जयः । दीर्घां वेणीं विधून्वानः साधु रक्ते च वाससी ।। 34
विक्रमन्तं पदन्यासैर्नमयन्तं च भूतलम् । विधूय वेणीं धावन्तमजानन्तोऽर्जुनं तदा। सैनिकाः प्राहसन्केचिद्योषिद्रूपमवेक्ष्य तम् ।। 35
तं च शीघ्रं प्रधावन्तं संप्रेक्ष्य कुरवोऽब्रुवन् । कोऽयं धावत्यसङ्गेन पूर्वं मुक्त्वा रथोत्तमम् ।। 36
क एष वेषसंच्छन्नो भस्मनेव हुताशनः। किंचिदस्य यथा पुंसः किंचिदस्य यथा स्त्रियः ।। 37
इत्येवं सैनिकाः प्राहुर्द्रोणस्तानिदमब्रवीत् । आचार्यः कुरुपाण्डूनां मतौ शुक्राङ्गिरोपमः ।। 38
किं विचारेण वः कार्यमेतेनानुसृतेन वा। धावन्तमनुधावंश्च निर्भयो भयविप्लुतम् । वेणीकलापं निर्धूय प्रविभाति नरर्षभः ।। 39
आकारमर्जुनस्येव क्लीबरूपं बिभर्ति च। रूपेण पार्थसदृशः स्त्रीवेषसमलंकृतः ।। 40
तदेवैतच्छिरोग्रीवं तौ बाहू परिघोपमौ । तत्तदेवास्य विक्रान्तं नायमन्यो धनञ्जयात् ।। 41
अमरेष्विव देवेन्द्रो मनुष्येषु धनञ्जयः। एकः कोस्मानुपायायादन्यो लोके धनञ्जयात् ।। 42
द्रोणेन चैवमुक्तस्तु कर्णः प्रोवाच बुद्धिमान्। एकः पुत्रो विराटस्य शून्ये संनिहितः पुरे ।। 43
स एष किल निर्यातो बालभावान्न पौरुषात्। क्लीबं वै सारथिं कृत्वा निर्यातो नगराद्बहिः ।। 44
छन्नं सत्रेण वै नूनं जानीध्वं यान्तमर्जुनम् । ते हि नः प्रतिसंयातुं संग्रामे न हि शक्नुयुः । कथमेकतरस्तेषां समस्तान्योधयेत्कुरून् ।। 45
उत्तरः सारथिं कृत्वा निर्यातो नगराद्बहिः। स नो मन्ये ध्वजं दृष्ट्वा भीत एष पलायति ।। 46
नूनं तमेव धावन्तं जिघृक्षति धनञ्जयः। सारथिं ह्युत्तरं कृत्वा स्वयं योद्धुमिहेच्छति ।। 47