तमाददानं प्रमदा जहासिरे ह्यधोमुखं वीरवरोऽभ्यधारयत्। ततस्तिरश्चीनकृतं सपत्नहा ह्यधोमुखं कवचमथाभ्यकर्षत ।। 61
सम्यक्प्रजानन्नपि सत्यविक्रमो ह्यज्ञातवत्सर्वकुरुप्रवीरः। ऊर्ध्वं क्षिपन्वीरतरोऽभ्यधारयत्पुनश्च यन्ता कवचं धनञ्जयः ।। 62
एवंप्रकाराणि बहूनि कुर्वति तस्मिन्कुमार्यः प्रमदा जहासिरे । तथापि कुर्वन्तममित्रकर्शनं नैवोत्तरः पर्यभवद्धनञ्जयम् ।। 63
तं राजपुत्रः समनाहयत्स्वयं जाम्बूनदान्तेन शुभेन वर्मणा। कृशानुतप्तप्रतिमेन भास्वता जाज्वल्यमानेन सहस्ररश्मिना ।। 64
अथास्य शीघ्रं प्रसमीक्ष्य भोजयद्रथे हयान्काञ्चनजालसंवृतान्। सुवर्णजालान्तरयोक्तभूषणं सिंहं च सौवर्णमुपाश्रयद्रथे ।। 65
धनूंषि च विचित्राणि बाणांश्च रुचिरान्बहून्। आयुधानि च वै तत्र रथोपस्थे च स न्यसत् ।। 66
आरुह्य प्रययौ वीरः सबृहन्नलसारथिः। अथोत्तरा च कन्याश्च स ख्यश्चैवाब्रुवंस्तदा ।। 67
बृहन्नले आनयेथा वासांसि रुचिराणि नः। पाञ्चालिकार्थं सूक्ष्माणि रत्नानि विविधानि च । विजित्य संग्रामगतान्भीष्मद्रोणमुखान्कुरून् ।। 68
अथ ता ब्रुवतीः कन्याः सहिताः कुरुनन्दनः। प्रत्युवाच हसन्पार्थो मेघदुन्दुभिनिस्वनः ।। 69
यद्युत्तरोऽयं संग्रामे विजेष्यति महारथान् । अथाहरिष्ये वासांसि सूक्ष्माण्याभरणानि च ।। 70
अथोत्तरो वर्म महाप्रभावं सुवर्णवैडूर्यपरिष्कृतं शुभम्। आमुच्य वीरः प्रययौ रथोत्तमं धनञ्जयं सारथिनं प्रगृह्य ।। 71
तमुत्तरं प्रेक्ष्य रथोत्तमे स्थितं बृहन्नलां चैव महाजनस्तदा। स्त्रियश्च कन्याश्च द्विजाश्च सुव्रताः प्रदक्षिणं मङ्गलिनोऽभ्यपूजयन् ।। 72
यदर्जुनस्यर्षभतुल्यगामिनः पुराऽभवत्खाण्डवदाहमङ्गलम् । कुरून्समासाद्य रणे बृहन्नले सहोत्तरेणास्तु तवाद्य मङ्गलम् ।। 73
स राजधान्य निर्याय वैराटिरकुतोभयः। प्रयाहीत्यब्रवीत्सूतं यत्र ते कुरवो गताः ।। 1
समवेतान्कुरून्सर्वाञ्जिगीषूनवजित्य वै। गाश्चैताः क्षिप्रमादाय पुनरेष्याम्यहं पुरम् ।। 2
ततस्तांश्चोदयामास सदश्वान्पाण्डुनन्दनः ।। 3
ते हया नरसिंहेन चोदिता वातरंहसः। आलिखन्त इवाकाशमूहुः काञ्चनमालिनः ।। 4
नातिदूरमथो गत्वा मात्स्यपुत्रधनञ्जयौ । अवैक्षेतामवित्रस्तौ कुरूणां बलिनां बलम् ।। 5
श्मशानमभितो गत्वा शूरौ ददृशतुःकुरून् ।। 6 ।। तदनीकं महत्तेषां विस्तृतं सागरोपमम्
सर्पमाणमिवाकाशे वनं बहुलपादपम् ।। 7 ।। ददृशे पार्थिवो रेणुर्जनितस्तेन सर्पता
दृष्टिप्रणाशो भूतानां दिवस्पृक्कुरुसत्तम ।। 8 ।। तदनीकमथो वीक्ष्य गजाश्वरथसंकुलम्
कर्णदुर्योधनकृपैर्गुप्तं शान्तनवेन च । द्रोणेन सह पुत्रेण महेष्वासेन धीमता ।। 9
हृष्टरोमा भयोद्विग्नो निमील्य स्वदृशौ तदा। कम्पमानशरीरश्च पार्थं वैराटिरब्रवीत् ।। 10
नोत्सहे कुरुभिर्योद्धुं रोमहर्षं हि पश्य मे। बहुप्रवीरमत्युग्रं देवैरपि दुरासदम्। प्रतियोद्धुं न शक्नोमि कुरुसैन्यं भयानकम् ।। 11
नाशंसे भारतीं सेनां प्रवेष्टुं भीमकार्मुकाम्। देवैरपि सहेन्द्रेण न शक्यं किंपुनर्नरैः ।। 12
रथनागाश्वकलिलं पत्तिध्वजसमाकुलम् । दृष्ट्वैव हि परानीकं मनः प्रव्यथतीव मे ।। 13
यत्र द्रोणश्च भीष्मश्च कृपः कर्णो विविंशतिः । अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः । दुर्योधनस्तथा राजा वीरो दुर्मर्षणः परः ।। 14
नीतिमन्तो महेष्वासाः सर्वे युद्धविशारदाः । मत्ता इव महानागा युक्तध्वजपताकिनः ।। 15
नीतिमन्तो महेष्वासाः सर्वार्थकृतनिश्चयाः । ताञ्जेतुं समरे शूरान्दुर्बुद्धिरहमागतः ।। 16
दृष्ट्वैव हि कुरून्सर्वान्व्यूढानीकान्प्रहारिणः । हृषितानि च रोमाणि कश्मलेनाहतं मनः ।। 17