हरन्ति वित्तं कुरवाः पितुर्मे शतं सहस्राणि गवां बृहन्नले। सा भ्रातुरश्वान्मम संयमस्व पुरा परे दूरतरं हरन्ति गाः ।। 41
सैरन्ध्रिराख्याति बृहन्नले त्वां सुशिक्षिता संग्रहणे रथाश्वयोः । अहं मरिष्यामि न मेऽत्र संशयो मया वृता तत्र न चेद्गमिष्यसि ।। 42
तथा नियुक्तो नरदेवकन्यया नरोत्तमः प्रीतमना धनञ्जयः। उवाच पार्थः शुभमन्द्रया गिरा शुभाननां शुक्लदतीं शुचिस्मिताम् ।। 43
गच्छामि यत्रेच्छसि चारुहासिनि हुताशनं प्रज्वलितं विशामि वा। इच्छामि तेऽहं वरगात्रि जीवितं करोमि किं ते प्रियमद्य सुन्दरि। न मत्कृते द्रक्ष्यसि तत्पुरं प्रिये वैवस्वतं प्रेतपतेर्महाभयम् ।। 44
एतावदुक्त्वा कुरुवीरपुङ्गवो विलासिनीं शुक्लदतीं शुचिस्मिताम्। बृहन्नलारूपविभूषिताननो विराटपुत्रस्य समीपमाव्रजत् ।। 45
तथा व्रजन्तं वरभूषणैर्वृतं महाप्रभं वारणयूथपोपमम्। गजेन्द्रबाहुं कमलायतेक्षणं कवाटवक्षस्थलमुन्नतांसम् ।। 46
तमागतं पार्थममित्रकर्शनं महाबलं नागमिव प्रमाथिनम्। वैराटिरामन्त्र्य ततो बृहन्नलां गवां निनीषन्पदमुत्तरोऽब्रवीत् ।। 47
तमाव्रजन्तं त्वरितं प्रभिन्नमिव कुञ्जरम्। अन्वगच्छद्विशालाक्षी गजं गजवधूरिव ।। 48
दूरादेव तु संप्रेक्ष्य राजपुत्रोऽभ्यभाषत । त्वया सारथिना पार्थः खाण्डवेऽग्निमतर्पयत् ।। 49
पृथिवीं चाजयत्कृत्स्नां कुन्तीपुत्रो धनञ्जयः। सैरन्ध्री त्वां ममाचष्ट सा हि जानाति पाण्डवान् ।। 50
देवेन्द्रसारथिर्वीरो मातलिः ख्यातविक्रमः । सुमहो जामदग्नेश्च विष्णोर्यन्ता च दारुकः ।। 51
सुमन्त्रो वा दाशरथेः सूर्ययन्ता तथाऽरुणः। सर्वे सारथयः ख्याता न बृहन्नलया समाः ।। 52
इत्युक्तोऽहं च सैरन्ध्र्या तेन त्वामाह्वयामि वै । आहुता त्वं मया सार्धं योद्धुं याहि बृहन्नले ।। 53
दूराद्दूरतरं गावो भवन्ति कुरुभिर्हृताः। तथोक्ता प्रत्युवाचेदं राजपुत्रं बृहन्नला ।। 54
का शक्तिर्मम सारथ्यं कर्तुं संग्राममूर्धनि । नृत्तं वा यदि वा गीतं वादित्रं वा पृथग्विधम् । तत्करिष्यामि भद्रं ते सारथ्यं तु कुतो मम ।। 55
त्वं नर्तको वा यदि वाऽपि गायकः क्षिप्रं तनुत्रं परिधत्स्व भानुमत्। अभीक्ष्णमाहुस्तव कर्म पौरुषं स्त्रियः प्रशंसन्ति ममाद्य चान्तिके ।। 56
इत्येवमुक्त्वा नृपसूनुसत्तमस्तदा स्मयित्वाऽर्जुनमभ्यनन्दयत्। अथोत्तरः पारशवं शताक्षिमत्सुवर्णचित्रं परिगृह्य भानुमत् ।। 57
बृहन्नलायै प्रददौ स्वयं तदा विराटपुत्रः परवीरघातिने। तदाज्ञया मात्स्यसुतस्य वीर्यवानकर्तुकामेव समाददे तदा ।। 58
यद्यस्ति च रणे शौर्यं शक्यः स्याद्द्विषतां वधः। अहं त्वामभिगच्छामि यत्र त्वं यासि तत्र भो ।। 59
ततः स नर्मसंयुक्तमकरोत्पाण्डवो बहु। उत्तरायाः प्रमुखतः सर्वं जानन्नरिन्दमः ।। 60
तमाददानं प्रमदा जहासिरे ह्यधोमुखं वीरवरोऽभ्यधारयत्। ततस्तिरश्चीनकृतं सपत्नहा ह्यधोमुखं कवचमथाभ्यकर्षत ।। 61
सम्यक्प्रजानन्नपि सत्यविक्रमो ह्यज्ञातवत्सर्वकुरुप्रवीरः। ऊर्ध्वं क्षिपन्वीरतरोऽभ्यधारयत्पुनश्च यन्ता कवचं धनञ्जयः ।। 62
एवंप्रकाराणि बहूनि कुर्वति तस्मिन्कुमार्यः प्रमदा जहासिरे । तथापि कुर्वन्तममित्रकर्शनं नैवोत्तरः पर्यभवद्धनञ्जयम् ।। 63
तं राजपुत्रः समनाहयत्स्वयं जाम्बूनदान्तेन शुभेन वर्मणा। कृशानुतप्तप्रतिमेन भास्वता जाज्वल्यमानेन सहस्ररश्मिना ।। 64
अथास्य शीघ्रं प्रसमीक्ष्य भोजयद्रथे हयान्काञ्चनजालसंवृतान्। सुवर्णजालान्तरयोक्तभूषणं सिंहं च सौवर्णमुपाश्रयद्रथे ।। 65
धनूंषि च विचित्राणि बाणांश्च रुचिरान्बहून्। आयुधानि च वै तत्र रथोपस्थे च स न्यसत् ।। 66
आरुह्य प्रययौ वीरः सबृहन्नलसारथिः। अथोत्तरा च कन्याश्च स ख्यश्चैवाब्रुवंस्तदा ।। 67
बृहन्नले आनयेथा वासांसि रुचिराणि नः। पाञ्चालिकार्थं सूक्ष्माणि रत्नानि विविधानि च । विजित्य संग्रामगतान्भीष्मद्रोणमुखान्कुरून् ।। 68
अथ ता ब्रुवतीः कन्याः सहिताः कुरुनन्दनः। प्रत्युवाच हसन्पार्थो मेघदुन्दुभिनिस्वनः ।। 69
यद्युत्तरोऽयं संग्रामे विजेष्यति महारथान् । अथाहरिष्ये वासांसि सूक्ष्माण्याभरणानि च ।। 70