एतेन वा सारथिना तदाऽर्जुनः सदेवगन्धर्वमहासुरोरगान् । सर्वाणि भूतान्यजयस्तस वीर्यवानतर्पयच्चापि हिरण्यरेतसम् ।। 21
यदस्य संस्थामपि तस्य संयुगे जानामि वीर्यं परवीरमध्यगम् । संगृह्य रश्मीनपि चास्य वीर्यवानादाय चापं प्रययौ रथे स्थितः ।। 22
न सर्वभूतानि न देवदानवा न चापि सर्वे कुरवः समागताः। धनं हरेयुस्तव जातु धन्विनो बृहन्नला तूत्तरसारथिर्यदि ।। 23
धनुष्यनवमश्चासीत्तस्य शिष्यो महात्मनः । सुदृष्टपूर्वो हि मया चरन्त्या पाण्डवालये ।। 24
स चानेन सहायेन खाण्डवं चादहत्पुरा । अर्जुनस्य तदाऽनेन संगृहीता हयोत्तमाः ।। 25
तेन सारथिना पार्थः सर्वभूतानि सर्वशः। अजयत्खाण्डवप्रस्थे न हि यन्ताऽस्ति तादृशः ।। 26
ततः सैरन्ध्रिसहिता उत्तरा भ्रातुरब्रवीत्। अभ्यर्थयैनां सारथ्ये वीर शीघ्रं बृहन्नलाम् ।। 27
शिक्षितैषा हि सारथ्ये नर्तने गीतवादिते । सैरन्ध्य्राह महाप्राज्ञा स्तुवन्ती वै बृहन्नलाम् ।। 28
सैरन्ध्रि जानासि मम व्रतं हि क्लीबेन पुंसा न हि संवदाम्यहम्। सोहं न शक्ष्यामि बृहन्नलां शुभे वक्तुं स्वयं यच्छ हयान्ममेति ।। 29
भयकाले तु संप्राप्ते न व्रतं नाव्रतं पुनः। यथा दुःखं प्रतरति कर्तुं युक्तं चरेद्बुधः । इति धर्मविदः प्राहुस्तस्माद्वाच्या बृहन्नला ।। 30
येयं कुमारी सुश्रोणी भगिनी ते यवीयसी। अस्यास्तु वचनं वीर करिष्यति न संशयः ।। 31
यदि ते सारथिः सा स्यात्कुरून्सर्वान्न संशयः। जित्वा गाश्च समादाय ध्रुवमागमनं भवेत् ।। 32
एवमुक्तः स सैरन्ध्र्या भगिनीं प्रत्यभाषत। गच्छ त्वमनवद्याङ्गि तामानय बृहन्नलाम् ।। 33
सा प्राद्रवत्काञ्चनमाल्यधारिणी ज्येष्ठेन भ्रात्रा प्रहिता यशस्विनी । भ्रातुर्नियोगं तु निशम्य सुभ्रुः शुभानना हाटकवज्रभूषिता ।। 34
सा वज्रमुक्तामणिहेमकुण्डला मृदुक्रमा भ्रातृनियोगचोदिता। प्रदक्षिणावर्ततनुः शिखण्डिनी पद्मानना पद्मदलायताक्षी ।। 35
तन्वी समाङ्गी मृदुमन्द्रलोचना मात्स्यस्य राज्ञो दुहिता विलासिनी । सा नर्तनागारमरालपक्ष्मा शतह्रदा मेघमिवान्वपद्यत ।। 36
सा नागनासोपमसंहितोरूरनिन्दिता वेदिविलग्नमध्या। आसाद्य तस्थौ वरमाल्यधारिणी पार्थं शुभा नागवधूरिव द्विपम् ।। 37
तामागतामायतताम्रलोचनामवेक्ष्य पार्थः समयेऽभ्यभाषत ।। 38
किमागता काञ्चनमाल्यधारिणी सुगात्रि किंचित्त्वरिताऽसि सुभ्रु । किं ते मुखं सुन्दरि न प्रसन्नमाचक्ष्व शीघ्रं मम चारुहासिनि ।। 39
सा वज्रवैडूर्यविकारकुण्डला विनिद्रपद्मोत्पलपन्नगन्धिनी । प्रसन्नताराधिपसंनिभानना पार्थे कुमारी वचनं बभाषे ।। 40
हरन्ति वित्तं कुरवाः पितुर्मे शतं सहस्राणि गवां बृहन्नले। सा भ्रातुरश्वान्मम संयमस्व पुरा परे दूरतरं हरन्ति गाः ।। 41
सैरन्ध्रिराख्याति बृहन्नले त्वां सुशिक्षिता संग्रहणे रथाश्वयोः । अहं मरिष्यामि न मेऽत्र संशयो मया वृता तत्र न चेद्गमिष्यसि ।। 42
तथा नियुक्तो नरदेवकन्यया नरोत्तमः प्रीतमना धनञ्जयः। उवाच पार्थः शुभमन्द्रया गिरा शुभाननां शुक्लदतीं शुचिस्मिताम् ।। 43
गच्छामि यत्रेच्छसि चारुहासिनि हुताशनं प्रज्वलितं विशामि वा। इच्छामि तेऽहं वरगात्रि जीवितं करोमि किं ते प्रियमद्य सुन्दरि। न मत्कृते द्रक्ष्यसि तत्पुरं प्रिये वैवस्वतं प्रेतपतेर्महाभयम् ।। 44
एतावदुक्त्वा कुरुवीरपुङ्गवो विलासिनीं शुक्लदतीं शुचिस्मिताम्। बृहन्नलारूपविभूषिताननो विराटपुत्रस्य समीपमाव्रजत् ।। 45
तथा व्रजन्तं वरभूषणैर्वृतं महाप्रभं वारणयूथपोपमम्। गजेन्द्रबाहुं कमलायतेक्षणं कवाटवक्षस्थलमुन्नतांसम् ।। 46
तमागतं पार्थममित्रकर्शनं महाबलं नागमिव प्रमाथिनम्। वैराटिरामन्त्र्य ततो बृहन्नलां गवां निनीषन्पदमुत्तरोऽब्रवीत् ।। 47
तमाव्रजन्तं त्वरितं प्रभिन्नमिव कुञ्जरम्। अन्वगच्छद्विशालाक्षी गजं गजवधूरिव ।। 48
दूरादेव तु संप्रेक्ष्य राजपुत्रोऽभ्यभाषत । त्वया सारथिना पार्थः खाण्डवेऽग्निमतर्पयत् ।। 49
पृथिवीं चाजयत्कृत्स्नां कुन्तीपुत्रो धनञ्जयः। सैरन्ध्री त्वां ममाचष्ट सा हि जानाति पाण्डवान् ।। 50