सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना। का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला
दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा। कथं च पतिताऽस्यस्मिन्कूपे वीरुत्तृणावृते
योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया
तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते। एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः
समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः। जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम्
तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि
गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात्। उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः
गच्छ भद्रे यथाकामं न भयं विद्यते तव। इत्युच्यमाना नृपतिं देवयानीदमुत्तरम्
उवाच मामुपादाय गच्छ शीघ्रं प्रियो हि मे। गृहीताहं त्वया पाणौ तस्माद्भर्ता भविष्यसि
इत्येवमुक्तो नृपतिराह क्षत्रकुलोद्भवः। त्वं भद्रे ब्राह्मणी तस्मान्मया नार्हसि सङ्गमम्
सर्वलोकगुरुः काव्यस्त्वं तस्य दुहिता शुभे। तस्मादपि भयं मेऽद्य ततः कल्याणि नार्हसि
यदि मद्वचनान्नाद्य मां नेच्छसि नराधिप। त्वामेव वरये पित्रा तस्माल्लप्स्यसि गच्छ हि
आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ। गते तु नाहुषे तस्मिन्देवयान्यप्यनिन्दिता
क्वचिद्गत्वा च रुदती वृक्षमाश्रित्य धिष्ठिता। ततश्चिरायमाणायां दुहितर्यथ भार्गवः
संस्मृत्योवाच धात्रीं तां दुहितुः स्नेहविक्लवः। धात्रि त्वमानय क्षिप्रं देवयानीं समुध्यमाम्
इत्युक्तमात्रे सा धात्री त्वरिताऽऽनयितुं गता। यत्रयत्र सशीभिः सा गता पदममार्गत
सा ददर्श तथा दीनां श्रमार्तां रुदतीं स्थिताम्। वृत्तान्तं किमिदं भद्रे शीघ्रं वद पिताह्वयत्
एवमुक्ताह धात्रीं तां शर्मिष्ठावृजिनं कृतम्। उवाच शोकसंतप्ता घूर्णिकामागतां पुरः
त्वरितं घूर्णिके गच्छ शीघ्रमाचक्ष्व मे पितुः
सा तत्र त्वरितं गत्वा घूर्णिकाऽसुरमन्दिरम्
दृष्ट्वा काव्यमुवाचेदं संभ्रमाविष्टचेतना। आचचक्षे महाप्राज्ञं देवयानीं वने हताम्
शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः। श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम्
त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने। दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने
बाहुभ्यां संपरिष्वज्य दुःखितो वाक्यमब्रवीत्। आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः
मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता
शर्मिष्ठया यदुक्ताऽस्मि दुहित्रा वृषपर्वणः।। सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः
एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी। वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम्
स्तुवतो दुहिता नित्यं याचतः प्रतिगृह्णतः। अहं तु स्तूयमानस्य ददतोऽप्रतिगृह्णतः
इदं मामाह शर्मिष्ठा दुहिता वृषपर्वणः। क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः
यद्यह स्तुवतस्तात दुहिता प्रतिगृह्णतः। प्रसादयिष्ये शर्मिष्ठामित्युक्ता तु सखी मया