इष्वस्त्रनिपुणो योधः सदा वीरश्च मे सुतः। समर्थः समरे योद्धुं कौरवैः सह तादृशै ।। 13
तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम् । जयश्च नियतो युद्धे कौरवाश्च ध्रुवं हताः ।। 14
आवर्तय कुरूञ्जित्वा पशून्पशुपतिर्यथा। निर्दर्हषामनीकानि भीमेन शरतेजसा ।। 15
धनुश्च्युतै रुक्मपुङ्खैश्चित्रैः संनतपर्वभिः । द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः ।। 16
पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम् । शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय ।। 17
निर्याहि नगराच्छीघ्रं राजपुत्र किमास्यते । श्वेताः काञ्चनसंनाहा रथे युज्यन्तु ते हयाः । ध्वजं च सिहं सौवर्णमुच्छ्रयस्व तथा विभो ।। 18
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया। छादयन्तु शराः सूर्यं राज्ञमायुर्निरोधकाः ।। 19
रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान् । यशो महदवाप्य त्वं प्रविरोदं पुरं पुनः ।। 20
त्वं हि राष्ट्रस्य परमा गतिर्मात्स्यपतेः सुतः। गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः ।। 21
यथा हि पाण्डुपुत्राणामर्जुनो जयतांवरः । एवमेव गतिर्नूनं भवान्विपयवासिनाम् ।। 22
महाजनसमक्षं तु स्त्रीणां मध्ये विशेषतः । गवाध्यक्षेण संप्रोक्तो विराटतनयस्तदा ।। 1
स्त्रीमध्य उक्तस्तेनासौ वाक्यं तेजःप्रवर्धनम्। अन्तःपुरे श्लाघमान इदं वचनमब्रवीत् ।। 2
अद्याहमनुगच्छेयं दृढधन्वा गवां पदम्। यदि मे सारथिः कश्चिद्भवेदश्वेषु कोविदः ।। 3
तमेव नाधिगच्छामि यो मे यन्ता समो भवेत् । पश्यध्वं सारथिं शीघ्रं मम युक्तं प्रयास्यतः ।। 4
अष्टाविंशतिरात्रं वा मासं वा नूनमन्ततः । यत्तदासीन्महायुद्धं तत्र मे सारथिर्हतः ।। 5
यद्यहं त्वधिगच्छेयं यो मे यन्ता भवेद्युधि । त्वरावानद्य यास्यामि समुच्छ्रितमहाध्वजः ।। 6
विगाह्य तत्परानीकं गजवाजिरथाकुलम् । शस्त्रप्रतापान्निर्वीर्यान्कुरूञ्जित्वाऽऽनये पशून् ।। 7
दुर्योधनं विकर्णं च कर्णं वैकर्तनं कृपम्। द्रोणं च सह पुत्रेण महेष्वासान्समागतान् ।। 8
विद्रावयित्वा संग्रामे दानवान्मघवानिव । अनेनैव मुहूर्तेन पुनः प्रत्यानये पशून् ।। 9
शून्यमाज्ञाय कुरवः प्रयान्त्यादाय गोधनम् । किं न शक्यं च तैः कर्तुं यदहं तत्र नाभवम् ।। 10
पश्ययुरद्य मे वीर्यं कुरवस्ते समागताः । किंनु पार्थोऽर्जुनः साक्षादिति मंस्यन्ति मां परे ।। 11
तस्य तद्वचनं श्रुत्वा स्त्रीषु चात्मप्रशंसनम् । नामर्षयत पाञ्चाली बीभत्सोः परिकीर्तनम् ।। 12
श्रुत्वा तदर्जुनो वाक्यमुत्तरेण प्रभाषितम्। अतीतसमये काले प्रियां भार्यामभाषत ।। 13
द्रुपदस्य सुतां राज्ञः पाञ्चालीं रूपसंमताम् । सत्यार्जवगुणोपेतां भर्तुः प्रियहितैषिणीम् । उवाच रहसि प्रीतः कृष्णां सर्वार्थकोविदः ।। 14
उत्तरां ब्रूहि पाञ्चालि गत्वा क्षिप्रं शुचिस्मिते ।। 15
इयं किल पुरा युद्धे खाण्डवे सव्यसाचिनः । सारथिः पाण्डुपुत्रस्य पार्थस्य तु बृहन्नला। महाञ्जयो भवेद्युद्धे सा चेद्यन्ता बृहन्नला ।। 16
सा चोदिता तदा ह्येन ह्यर्जुनेन शुचिस्मिता। पाञ्चाली च तदाऽऽगम्य उत्तराया निवेशनम् ।। 17
ज्ञात्वा तु समयान्मुक्तं चन्द्रं राहुमुखादिव । युधिष्ठिरं धर्मपरं सत्यार्जवपथे स्थितम् ।। 18
अमर्षयन्ती तद्दुःखं कृष्णा कमललोचना। उत्तरामाह वचनं सखीमध्ये विलासिनीम् ।। 19
योऽयं युवा वारणयूथपोपमो बृहन्नलाऽस्मीति जनोऽभ्यभाषत। पुराऽपि पार्थस्य स सारथिस्तदा धनुर्धराणां प्रवरस्य मन्ये ।। 20