विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान् । दुःसहो दुर्मुखश्चैव एते चान्ये महारथाः ।। 3
सर्वे मत्स्यानुपागम्य विराटस्य महीपतेः । गोपान्विद्राव्य तरसा गोधनं जह्रुरोजसा ।। 4
गवां शतसहस्राणि कुरवः कालयन्ति च । महता रथवंशेन परिगृह्य समन्ततः ।। 5
गोपालानां तु घोषेषु हन्यतां तैर्महारथैः । आरावः सुमहानासीत्संप्रहारे भयंकरे ।। 6
गवाध्यक्षस्तु संत्रस्तो रथमास्थाय सत्वरः। जगाम नगरायैव परिक्रोशंस्तदाऽऽर्तवत् ।। 7
स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात्ततः। अवतीर्य रथात्तूर्णमाख्यातुं प्रविवेश ह ।। 8
दृष्ट्वा भूमिंजयं नाम पुत्रं मात्स्यस्य मानिनम् । तस्मै च सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम् ।। 9
गवां शतसहस्राणि कुरबः कालयन्ति ते। प्रतिजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धन ।। 10
राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम् । त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत् ।। 11
त्वां वै परिषदो मध्ये श्लाघते स नराधिपः । पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः ।। 12
इष्वस्त्रनिपुणो योधः सदा वीरश्च मे सुतः। समर्थः समरे योद्धुं कौरवैः सह तादृशै ।। 13
तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम् । जयश्च नियतो युद्धे कौरवाश्च ध्रुवं हताः ।। 14
आवर्तय कुरूञ्जित्वा पशून्पशुपतिर्यथा। निर्दर्हषामनीकानि भीमेन शरतेजसा ।। 15
धनुश्च्युतै रुक्मपुङ्खैश्चित्रैः संनतपर्वभिः । द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः ।। 16
पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम् । शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय ।। 17
निर्याहि नगराच्छीघ्रं राजपुत्र किमास्यते । श्वेताः काञ्चनसंनाहा रथे युज्यन्तु ते हयाः । ध्वजं च सिहं सौवर्णमुच्छ्रयस्व तथा विभो ।। 18
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया। छादयन्तु शराः सूर्यं राज्ञमायुर्निरोधकाः ।। 19
रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान् । यशो महदवाप्य त्वं प्रविरोदं पुरं पुनः ।। 20
त्वं हि राष्ट्रस्य परमा गतिर्मात्स्यपतेः सुतः। गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः ।। 21
यथा हि पाण्डुपुत्राणामर्जुनो जयतांवरः । एवमेव गतिर्नूनं भवान्विपयवासिनाम् ।। 22
महाजनसमक्षं तु स्त्रीणां मध्ये विशेषतः । गवाध्यक्षेण संप्रोक्तो विराटतनयस्तदा ।। 1
स्त्रीमध्य उक्तस्तेनासौ वाक्यं तेजःप्रवर्धनम्। अन्तःपुरे श्लाघमान इदं वचनमब्रवीत् ।। 2
अद्याहमनुगच्छेयं दृढधन्वा गवां पदम्। यदि मे सारथिः कश्चिद्भवेदश्वेषु कोविदः ।। 3
तमेव नाधिगच्छामि यो मे यन्ता समो भवेत् । पश्यध्वं सारथिं शीघ्रं मम युक्तं प्रयास्यतः ।। 4
अष्टाविंशतिरात्रं वा मासं वा नूनमन्ततः । यत्तदासीन्महायुद्धं तत्र मे सारथिर्हतः ।। 5
यद्यहं त्वधिगच्छेयं यो मे यन्ता भवेद्युधि । त्वरावानद्य यास्यामि समुच्छ्रितमहाध्वजः ।। 6
विगाह्य तत्परानीकं गजवाजिरथाकुलम् । शस्त्रप्रतापान्निर्वीर्यान्कुरूञ्जित्वाऽऽनये पशून् ।। 7
दुर्योधनं विकर्णं च कर्णं वैकर्तनं कृपम्। द्रोणं च सह पुत्रेण महेष्वासान्समागतान् ।। 8
विद्रावयित्वा संग्रामे दानवान्मघवानिव । अनेनैव मुहूर्तेन पुनः प्रत्यानये पशून् ।। 9
शून्यमाज्ञाय कुरवः प्रयान्त्यादाय गोधनम् । किं न शक्यं च तैः कर्तुं यदहं तत्र नाभवम् ।। 10