प्रतीतश्चेत्पुरं तुष्टः प्रविशाद्य परंतप। दारैः पुत्रैश्च संश्लिष्य सा हि प्रीतिर्ममातुला ।। 20
सुशर्माणं तु राजेन्द्र सभृत्यबलवाहनम् । विसर्जय नरश्रेष्ठं वरमेतदहं वृणे ।। 21
एवमुक्ते तु कङ्केन विराटो राजसत्तमः । प्रत्युवाच ततः कङ्कं सुशर्मा यातु चेष्टतः ।। 22
गच्छन्तु दूतास्त्वरिता नगरं तव पार्थिव। सुहृदां प्रियमाख्यातुं घोषयन्तु च ते जयम् ।। 23
ततस्तद्वचनान्मात्स्यो दूतान्राजा समादिशत्। आचक्षध्वं पुरं सत्वा संग्रामे विजयं मम ।। 24
कुमार्यः समलंकृत्य प्रयागच्छन्तु मे पुरात् । वादित्राणि च सर्वाणि गणिकाश्च स्वलंकृताः । प्रत्यायान्तु च मे शीघ्रं नागराः सर्व एव ते ।। 25
एवमुक्तास्तथा दूता रात्रौ यात्वा तु केवलम् । ततोऽन्तरे चानुषिता दूताः शीघ्रानुयायिनः ।। 26
नगरं प्राविशंस्ते वै सूर्ये सम्यगथोदिते। विराटनगरं प्राप्य शीघ्रं नान्दीमघोषयन् । पताकोच्छ्रयमाल्याढ्यं पुरमप्रतिमं यथा ।। 27
याते त्रिगर्तान्मात्स्ये तु पशूंस्तान्वै परीप्सति। दुर्योधनः सहामात्यैर्विराट पुरमभ्यगात् ।। 1
भीष्मद्रोणौ च कर्णश्च कृपश्च परमास्त्रवित् । द्रौणिश्च सौबलश्चैव तथा दुःशासनः शलः ।। 2
विविंशतिर्विकर्णश्च चित्रसेनश्च वीर्यवान् । दुःसहो दुर्मुखश्चैव एते चान्ये महारथाः ।। 3
सर्वे मत्स्यानुपागम्य विराटस्य महीपतेः । गोपान्विद्राव्य तरसा गोधनं जह्रुरोजसा ।। 4
गवां शतसहस्राणि कुरवः कालयन्ति च । महता रथवंशेन परिगृह्य समन्ततः ।। 5
गोपालानां तु घोषेषु हन्यतां तैर्महारथैः । आरावः सुमहानासीत्संप्रहारे भयंकरे ।। 6
गवाध्यक्षस्तु संत्रस्तो रथमास्थाय सत्वरः। जगाम नगरायैव परिक्रोशंस्तदाऽऽर्तवत् ।। 7
स प्रविश्य पुरं राज्ञो नृपवेश्माभ्ययात्ततः। अवतीर्य रथात्तूर्णमाख्यातुं प्रविवेश ह ।। 8
दृष्ट्वा भूमिंजयं नाम पुत्रं मात्स्यस्य मानिनम् । तस्मै च सर्वमाचष्ट राष्ट्रस्य पशुकर्षणम् ।। 9
गवां शतसहस्राणि कुरबः कालयन्ति ते। प्रतिजेतुं समुत्तिष्ठ गोधनं राष्ट्रवर्धन ।। 10
राजपुत्र हितप्रेप्सुः क्षिप्रं निर्याहि वै स्वयम् । त्वां हि मत्स्यो महीपालः शून्यपालमिहाकरोत् ।। 11
त्वां वै परिषदो मध्ये श्लाघते स नराधिपः । पुत्रो ममानुरूपश्च शूरश्चेति कुलोद्वहः ।। 12
इष्वस्त्रनिपुणो योधः सदा वीरश्च मे सुतः। समर्थः समरे योद्धुं कौरवैः सह तादृशै ।। 13
तस्य तत्सत्यमेवास्तु मनुष्येन्द्रस्य भाषितम् । जयश्च नियतो युद्धे कौरवाश्च ध्रुवं हताः ।। 14
आवर्तय कुरूञ्जित्वा पशून्पशुपतिर्यथा। निर्दर्हषामनीकानि भीमेन शरतेजसा ।। 15
धनुश्च्युतै रुक्मपुङ्खैश्चित्रैः संनतपर्वभिः । द्विषतां भिन्ध्यनीकानि गजानामिव यूथपः ।। 16
पाशोपधानां ज्यातन्त्रीं चापदण्डां महास्वनाम् । शरवर्णां धनुर्वीणां शत्रुमध्ये प्रवादय ।। 17
निर्याहि नगराच्छीघ्रं राजपुत्र किमास्यते । श्वेताः काञ्चनसंनाहा रथे युज्यन्तु ते हयाः । ध्वजं च सिहं सौवर्णमुच्छ्रयस्व तथा विभो ।। 18
रुक्मपुङ्खाः प्रसन्नाग्रा मुक्ता हस्तवता त्वया। छादयन्तु शराः सूर्यं राज्ञमायुर्निरोधकाः ।। 19
रणे जित्वा कुरून्सर्वान्वज्रपाणिरिवासुरान् । यशो महदवाप्य त्वं प्रविरोदं पुरं पुनः ।। 20
त्वं हि राष्ट्रस्य परमा गतिर्मात्स्यपतेः सुतः। गतिमन्तो भवन्त्वद्य सर्वे विषयवासिनः ।। 21
यथा हि पाण्डुपुत्राणामर्जुनो जयतांवरः । एवमेव गतिर्नूनं भवान्विपयवासिनाम् ।। 22