स्वबाहुबलसंपन्ना ह्रीनिषेवा यतव्रताः। विराटस्य महात्मानः परिक्लेशविनाशनाः। स्थिताः समक्षं ते सर्वे त्वथ भीमोऽभ्यभाषत ।। 61
नायं पापसमाचारो मत्तो जीवितुमर्हति। किंनु शक्यं मया कर्तुं यद्राजा सततं घृणी । गले गृहीत्वा राजानमानीय विवशं वशम् ।। 62
तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः। रथमारोपयामास विसंज्ञं पांसुगुण्ठितम् ।। 63
अभ्येत्य रणमध्यस्थमभ्यगच्छद्युधिष्ठिरम् । दर्शयामास भीमस्तु सुशर्माणं नराधिपम् ।। 64
प्रोवाच पुरुषव्याघ्रो भीममाहवशोभिनम् । तं राजा प्राहसद्दृष्ट्वा मुच्यतां वै नराधमः ।। 65
एवमुक्तोऽब्रवीद्भीमः सुशर्माणं महाबलम् । जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु ।। 66
दासोस्मीति त्वया वाच्यं संसत्सु च सभासु च । एवं ते जीवितं दद्यामेष युद्धजितो विधिः ।। 67
तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः। मुञ्चमुञ्चाधमाचारं प्रमाणं यदि ते वयम् ।। 68
दासभावं गतो ह्येष विराटस्य महीपतेः। अदासो गच्छ मुक्तोसि मैवं कार्षीः कदाचन ।। 69
एवमुक्ते तु सव्रीडः सुशर्माऽसीदधोमुखः । स मुक्तोऽभ्येत्य राजानमभिवाद्य प्रतस्थिवान् ।। 70
विसृज्य तु सुशर्माणं पाण्डवास्ते हतद्विषः । स्वबाहुबलसंपन्ना हीनिषेवा यतव्रताः । संग्रामशिरसो मध्ये तां रात्रिं सुखिनोऽवसन् ।। 71
ततो विराटः कौन्तेयानतिमानुषविक्रमान्। अर्चयामास वित्तेन मानेन च महारथान्। वचसा चैव सान्त्वेन स्नेहेन च मुदाऽन्वितः ।। 1
यथैव मम रत्नानि युष्माकं तानि वै तथा। कार्यं कुरुत तैः सर्वैर्यथाकामं यथासुखम् ।। 2
ददाम्यलंकृताः कन्या वसूनि विविधानि च। मनसा चाप्यभिप्रेतं यद्वः शत्रुनिबर्हणाः ।। 3
युष्माकं विक्रमादद्य मुक्तोऽहं स्वस्तिमानिह । तस्माद्भवन्तो मत्स्यानामीश्वराः सर्व एव हि ।। 4
तं तथावादिनं तत्र कौरवेयाः पृथक्पृथक्। ऊचुः प्रहृष्टमनसो युधिष्ठिरपुरोगमाः ।। 5
प्रतिनन्दामहे वाचं सर्वथैव विशांपते। एतावताऽद्य प्रीताःस्मो यत्त्वं मुक्तोसि शत्रुभिः ।। 6
यत्त्वं मुक्तोसि शत्रुभ्यो ह्येतत्कार्यं हितं हि नः । न किंचित्कार्यमस्माकं न धनं मृगयामहे ।। 7
अथाब्रवीत्प्रीतमना मात्स्यराजो युधिष्ठिरम्। निर्भरः प्रीतिपूरेण हर्षगद्गदया गिरा ।। 8
पुनरेव महाबाहुर्विराटो राजसत्तमः । एहि त्वामभिषेक्ष्यामि मत्स्यराजस्तु नो भवान् ।। 9
मनसा चाप्यभिप्रेतं यत्ते शत्रुनिबर्हण। तत्तेऽहं संप्रदास्यामि सर्वमर्हति नो भवान् ।। 10
रत्नानि गाः सुवर्णं च मणिमुक्तमथापि वा। वैयाघ्रपद्य विप्रेन्द्र सर्वथैव नमोस्तु ते ।। 11
त्वत्कृते ह्यद्य पश्यामि राज्यमात्मानमेव च। यतश्च जातः संरम्भः स च शत्रुर्वशं गतः ।। 12
ततो युधिष्ठिरो मात्स्यं पुनरेवाब्रवीद्वचः। प्रतिनन्दामि ते वाचं मनोज्ञां मात्स्य भाषितां ।। 13
आनृशंस्यपरो नित्यं सुमुखः सततं भवान् । पुनरेव विराटश्च राजा कङ्कमभाषत ।। 14
अहो शूद्रस्य कर्माणि वललस्य द्विजोत्तम । सोहं शूद्रेण संग्रामे वललेनाभिरक्षितः ।। 15
त्वत्कृते सर्वमेवैतदुपपन्नं ममानघ। वरं वृष्णीष्व भद्रं ते ब्रूहि किं करवाणि ते ।। 16
ददामि ते महाप्रीत्या रत्नान्युच्चावचान्यहम्। शयनासनयानानि कन्याश्च समलंकुताः ।। 17
हस्त्यश्वरथसङ्घाश्च राष्ट्राणि विविधानि च। एतानि च मम प्रीत्या प्रतिगृह्ण ममान्तिके ।। 18
तं तथावादिनं तत्र कौरव्यः प्रत्यभाषत। एषैव तु मम प्रीतिर्यत्त्वं मुक्तोसि शत्रुभिः ।। 19