सुशर्मा सायकांस्तीक्ष्णान्क्षिपते च पुनःपुनः ।। 41
ततः समस्तास्ते सर्वे तुरगानभ्यचोदयन्। दिव्यमस्त्रं विकुर्वाणास्त्रिगर्तान्प्रत्यमर्षणाः ।। 42
तान्निवृत्तरथान्दृष्ट्वा पाण्डवास्तां महाचमूम् । वैराटिः परमक्रुद्धो युयुधे परमाद्भुतम् ।। 43
त्रिगर्ताः समभिक्रम्य अयुध्यन्त जयैषिणः। तान्भीमसेनः संक्रुद्धः सर्वशस्त्रभृतांवरः । वैराटिः परमक्रुद्धो युयुधे परमाद्भुतम् ।। 44
सहस्रं प्राहिणीद्राजा कुन्तीपुत्रो युधिष्ठिरः। नकुलश्चापि सप्तैव शतानि प्राहिणोच्छरैः ।। 45
शतानि त्रीणि शूराणां सहदेवः प्रतापवान् । युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः ।। 46
प्रविश्य महतीं सेनां त्रिगर्तानां महाबलः । क्षोभयन्सर्वभूतानि सिंहः क्षुद्रमृगानिव ।। 47
ततो युधिष्ठिरो राजा त्वरमाणो महाबलः। अभिद्रुत्य सुशर्माणं शरैरभ्यहनद्धृशम् ।। 48
सुशर्माऽपि सुसंक्रुद्धस्त्वराणो युधिष्ठिरम् । अविध्यद्दशभिर्बाणैश्चतुर्भिश्चतुरो हयान् ।। 49
ततो राजन्क्षिप्रकारी कुन्तीऽपुत्रो वृकोदरः। समासाद्य सुशर्माणमश्वांस्तस्य न्यपातयत् ।। 50
पृष्ठगोषौ च तस्याथ हत्वा परमसायकैः। अथास्य सारथिं क्रुद्धो रथोपस्थादपतयत् ।। 51
चक्ररक्षस्तु शूरश्च शोणाश्वो नाम नामतः। स भयाद्विरथं दृष्ट्वा त्रैगर्तं व्याजहात्तदा ।। 52
ततो विराटः प्रस्कन्द्य रथादथ सुशर्मणः। गदामस्य परामृश्य तमेवाभ्यहनद्बली ।। 53
स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा ।। 54
भीमस्तु भीमसंकाशो रथात्प्रस्कन्द्य वीर्यवान् । उत्प्लुत्य गत्वा वेगेन तद्रथे विनिपत्य च। सुशर्मणः शिरोऽगुह्णात्पुनराश्वास्य युध्यतः ।। 55
अग्राद्गिरेर्विनिक्षिप्य सिंहः क्षुद्रमृगं यथा। ऊर्ध्वमुत्प्लृत्य मार्जार आखोर्यद्वच्छिरो रुषा ।। 56
समुद्यम्य तु रोषात्तं निष्पिपेष महीतले। यदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः ।। 57
तस्य जानु ददौ भीमो जघ्ने चैनमरत्निना । स मोहमगमद्राजा प्रहारवरपीडितः।। 58
तस्मिन्वीरे गृहीते तु त्रिगर्तानां महारथे। अभज्यत बलं सर्वं त्रिगर्तानां भयातुरम् ।। 59
निवृत्य गास्ततः सर्वाः पाण्डुपुत्रा महारथाः। अवजित्य सुशर्माणं धनं चादाय सर्वशः ।। 60
स्वबाहुबलसंपन्ना ह्रीनिषेवा यतव्रताः। विराटस्य महात्मानः परिक्लेशविनाशनाः। स्थिताः समक्षं ते सर्वे त्वथ भीमोऽभ्यभाषत ।। 61
नायं पापसमाचारो मत्तो जीवितुमर्हति। किंनु शक्यं मया कर्तुं यद्राजा सततं घृणी । गले गृहीत्वा राजानमानीय विवशं वशम् ।। 62
तत एनं विचेष्टन्तं बद्ध्वा पार्थो वृकोदरः। रथमारोपयामास विसंज्ञं पांसुगुण्ठितम् ।। 63
अभ्येत्य रणमध्यस्थमभ्यगच्छद्युधिष्ठिरम् । दर्शयामास भीमस्तु सुशर्माणं नराधिपम् ।। 64
प्रोवाच पुरुषव्याघ्रो भीममाहवशोभिनम् । तं राजा प्राहसद्दृष्ट्वा मुच्यतां वै नराधमः ।। 65
एवमुक्तोऽब्रवीद्भीमः सुशर्माणं महाबलम् । जीवितुं चेच्छसे मूढ हेतुं मे गदतः शृणु ।। 66
दासोस्मीति त्वया वाच्यं संसत्सु च सभासु च । एवं ते जीवितं दद्यामेष युद्धजितो विधिः ।। 67
तमुवाच ततो ज्येष्ठो भ्राता सप्रणयं वचः। मुञ्चमुञ्चाधमाचारं प्रमाणं यदि ते वयम् ।। 68
दासभावं गतो ह्येष विराटस्य महीपतेः। अदासो गच्छ मुक्तोसि मैवं कार्षीः कदाचन ।। 69
एवमुक्ते तु सव्रीडः सुशर्माऽसीदधोमुखः । स मुक्तोऽभ्येत्य राजानमभिवाद्य प्रतस्थिवान् ।। 70