भ्रातुर्वचनमादाय भीमो वृक्षं विसृज्य च। चापमादाय संप्राप्तो रथमास्थाय पाण्डवः ।। 31
व्यमुञ्चच्छरवर्षाणि सतोय इव तोयदः । तं भीमो भीमकर्माणं शुशर्माणमथाऽऽद्रवत् ।। 32
विराटमभिवीक्ष्यैनं तिष्ठितिष्ठेति चावदत् ।। 33
सुशर्मा चिन्तयामास कालान्तकयमोपमम् । तिष्ठतिष्ठेति भाषन्तं पृष्ठतो रथपुङ्गवः ।। 34
पश्यतां सुमहत्कर्म महद्युद्धमुपस्थितम् । परावृत्तो धनुर्गृह्य सुशर्मा भ्रातृभिः सह ।। 35
निमेषान्तरमात्रेण भीमसेनेन ते रथाः । रथानां च गजानां च वाजिनां च ससादिनां ।। 36
सहस्रशतसंघाताः शूराणामुग्रधन्विनाम् । पातिता भीमसेनेन विराटस्य समीपतः ।। 37
पत्तयो निहतास्तेषां गदां गृह्य महात्मना ।। 38
तद्दृष्ट्वा तादृशं युद्धं सुशर्मा युद्धदुर्मदः। चिन्तयामास मनसा किं शेषं हि बलस्य मे ।। 39
अपरो दृश्यते सैन्ये पुरा मग्नो महाबले। आकर्णपूर्णेन तदा धनुषा प्रत्यदृश्यत ।। 40
सुशर्मा सायकांस्तीक्ष्णान्क्षिपते च पुनःपुनः ।। 41
ततः समस्तास्ते सर्वे तुरगानभ्यचोदयन्। दिव्यमस्त्रं विकुर्वाणास्त्रिगर्तान्प्रत्यमर्षणाः ।। 42
तान्निवृत्तरथान्दृष्ट्वा पाण्डवास्तां महाचमूम् । वैराटिः परमक्रुद्धो युयुधे परमाद्भुतम् ।। 43
त्रिगर्ताः समभिक्रम्य अयुध्यन्त जयैषिणः। तान्भीमसेनः संक्रुद्धः सर्वशस्त्रभृतांवरः । वैराटिः परमक्रुद्धो युयुधे परमाद्भुतम् ।। 44
सहस्रं प्राहिणीद्राजा कुन्तीपुत्रो युधिष्ठिरः। नकुलश्चापि सप्तैव शतानि प्राहिणोच्छरैः ।। 45
शतानि त्रीणि शूराणां सहदेवः प्रतापवान् । युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः ।। 46
प्रविश्य महतीं सेनां त्रिगर्तानां महाबलः । क्षोभयन्सर्वभूतानि सिंहः क्षुद्रमृगानिव ।। 47
ततो युधिष्ठिरो राजा त्वरमाणो महाबलः। अभिद्रुत्य सुशर्माणं शरैरभ्यहनद्धृशम् ।। 48
सुशर्माऽपि सुसंक्रुद्धस्त्वराणो युधिष्ठिरम् । अविध्यद्दशभिर्बाणैश्चतुर्भिश्चतुरो हयान् ।। 49
ततो राजन्क्षिप्रकारी कुन्तीऽपुत्रो वृकोदरः। समासाद्य सुशर्माणमश्वांस्तस्य न्यपातयत् ।। 50
पृष्ठगोषौ च तस्याथ हत्वा परमसायकैः। अथास्य सारथिं क्रुद्धो रथोपस्थादपतयत् ।। 51
चक्ररक्षस्तु शूरश्च शोणाश्वो नाम नामतः। स भयाद्विरथं दृष्ट्वा त्रैगर्तं व्याजहात्तदा ।। 52
ततो विराटः प्रस्कन्द्य रथादथ सुशर्मणः। गदामस्य परामृश्य तमेवाभ्यहनद्बली ।। 53
स चचार गदापाणिर्वृद्धोऽपि तरुणो यथा ।। 54
भीमस्तु भीमसंकाशो रथात्प्रस्कन्द्य वीर्यवान् । उत्प्लुत्य गत्वा वेगेन तद्रथे विनिपत्य च। सुशर्मणः शिरोऽगुह्णात्पुनराश्वास्य युध्यतः ।। 55
अग्राद्गिरेर्विनिक्षिप्य सिंहः क्षुद्रमृगं यथा। ऊर्ध्वमुत्प्लृत्य मार्जार आखोर्यद्वच्छिरो रुषा ।। 56
समुद्यम्य तु रोषात्तं निष्पिपेष महीतले। यदा मूर्ध्नि महाबाहुः प्राहरद्विलपिष्यतः ।। 57
तस्य जानु ददौ भीमो जघ्ने चैनमरत्निना । स मोहमगमद्राजा प्रहारवरपीडितः।। 58
तस्मिन्वीरे गृहीते तु त्रिगर्तानां महारथे। अभज्यत बलं सर्वं त्रिगर्तानां भयातुरम् ।। 59
निवृत्य गास्ततः सर्वाः पाण्डुपुत्रा महारथाः। अवजित्य सुशर्माणं धनं चादाय सर्वशः ।। 60