स्वबाहुबलमाश्रित्य परेषामसमं रणे। एकान्तमाश्रितो राजंस्तिष्ठ त्वं भ्रातृभिः सह ।। 21
अयं वृक्षो महाशाखो गिरिमात्रो वनस्पतिः। अहमेनं समारुज्य पोथयिष्यामि शात्रवान् ।। 22
तं मत्तमिव मातङ्गं वीक्षमाणं वनस्पतिम्। अब्रवीद्भ्रातरं वीरं धर्मराजो युधिष्ठिरः ।। 23
भीम मा साहसं कार्षीस्तिष्ठत्वेष वनस्पतिः ।। 24
मा त्वां वृक्षेण कर्माणि कुर्वन्तमतिमानुषम् । जनाः समवबुध्येरन्भीमोऽयमिति भारत ।। 25
मा ग्रहीस्त्वमिमं वृक्षं सिंहनादं च मा नद। कर्मणा सिंहनादेन विज्ञास्यन्ति जना ध्रुवम् ।। 26
इमं वृक्षं गृहीत्वा त्वं नेमां सेनामभिद्रव । वृक्षं च त्वां रुजन्तं वै विज्ञास्यति जनो ध्रुवं ।। 27
अन्यदेवायुधं गृह्य प्रतिपद्यस्व मानुषम्। चापं वा यदि वा शक्तिं निस्त्रिंशं वा परश्वथम् ।। 28
यदेव मानुषं भीम भवेदन्यैरलक्षितम् । तदेवायुधमादाय मोचयाशु महीतिम् ।। 29
यमौ च चक्ररक्षौ ते भवितारौ महाबलौ। व्यायच्छतस्ते समरे मत्स्यराजं परीप्स्रतः ।। 30
भ्रातुर्वचनमादाय भीमो वृक्षं विसृज्य च। चापमादाय संप्राप्तो रथमास्थाय पाण्डवः ।। 31
व्यमुञ्चच्छरवर्षाणि सतोय इव तोयदः । तं भीमो भीमकर्माणं शुशर्माणमथाऽऽद्रवत् ।। 32
विराटमभिवीक्ष्यैनं तिष्ठितिष्ठेति चावदत् ।। 33
सुशर्मा चिन्तयामास कालान्तकयमोपमम् । तिष्ठतिष्ठेति भाषन्तं पृष्ठतो रथपुङ्गवः ।। 34
पश्यतां सुमहत्कर्म महद्युद्धमुपस्थितम् । परावृत्तो धनुर्गृह्य सुशर्मा भ्रातृभिः सह ।। 35
निमेषान्तरमात्रेण भीमसेनेन ते रथाः । रथानां च गजानां च वाजिनां च ससादिनां ।। 36
सहस्रशतसंघाताः शूराणामुग्रधन्विनाम् । पातिता भीमसेनेन विराटस्य समीपतः ।। 37
पत्तयो निहतास्तेषां गदां गृह्य महात्मना ।। 38
तद्दृष्ट्वा तादृशं युद्धं सुशर्मा युद्धदुर्मदः। चिन्तयामास मनसा किं शेषं हि बलस्य मे ।। 39
अपरो दृश्यते सैन्ये पुरा मग्नो महाबले। आकर्णपूर्णेन तदा धनुषा प्रत्यदृश्यत ।। 40
सुशर्मा सायकांस्तीक्ष्णान्क्षिपते च पुनःपुनः ।। 41
ततः समस्तास्ते सर्वे तुरगानभ्यचोदयन्। दिव्यमस्त्रं विकुर्वाणास्त्रिगर्तान्प्रत्यमर्षणाः ।। 42
तान्निवृत्तरथान्दृष्ट्वा पाण्डवास्तां महाचमूम् । वैराटिः परमक्रुद्धो युयुधे परमाद्भुतम् ।। 43
त्रिगर्ताः समभिक्रम्य अयुध्यन्त जयैषिणः। तान्भीमसेनः संक्रुद्धः सर्वशस्त्रभृतांवरः । वैराटिः परमक्रुद्धो युयुधे परमाद्भुतम् ।। 44
सहस्रं प्राहिणीद्राजा कुन्तीपुत्रो युधिष्ठिरः। नकुलश्चापि सप्तैव शतानि प्राहिणोच्छरैः ।। 45
शतानि त्रीणि शूराणां सहदेवः प्रतापवान् । युधिष्ठिरसमादिष्टो निजघ्ने पुरुषर्षभः ।। 46
प्रविश्य महतीं सेनां त्रिगर्तानां महाबलः । क्षोभयन्सर्वभूतानि सिंहः क्षुद्रमृगानिव ।। 47
ततो युधिष्ठिरो राजा त्वरमाणो महाबलः। अभिद्रुत्य सुशर्माणं शरैरभ्यहनद्धृशम् ।। 48
सुशर्माऽपि सुसंक्रुद्धस्त्वराणो युधिष्ठिरम् । अविध्यद्दशभिर्बाणैश्चतुर्भिश्चतुरो हयान् ।। 49
ततो राजन्क्षिप्रकारी कुन्तीऽपुत्रो वृकोदरः। समासाद्य सुशर्माणमश्वांस्तस्य न्यपातयत् ।। 50