शङ्खो विराटपुत्रश्च महेष्वासो महाबलः। विनिघ्नन्समरे शूरान्प्रविवेश महाचमूम् ।। 24
विराटस्तत्र संग्रामे हत्वा पञ्चशतं रथान्। कुञ्जराणां शतं चैव सहस्रं वाजिनां तथा ।। 25
चरन्स विविधान्मार्गान्रथेन रथिनांवरः। त्रिगर्तानां सुशर्माणमार्च्छद्रुक्मरथं रणे ।। 26
तौ तु प्राहरतां तत्र महेष्वासौ महाबलौ । अन्योन्यमभिनिघ्नन्तौ गोषु गोवृषभाविव ।। 27
राजसिंहौ सुसंरब्धौ विरेजतुरमर्षणौ। कृतास्रौ निशितैर्बाणैरसिशक्तिपरश्वथैः ।। 28
ततो रथाभ्यां रथिनौ व्यतीयातां समन्ततः । शरान्ससृजतुः शीघ्रं तोयधारा घनाविव ।। 29
अन्योन्यमभिसंरब्धौ दन्ताभ्यामिव कुञ्जरौ। कृतास्त्रौ निशितैर्बाणैर्दारयामासतू रणे ।। 30
मात्स्यो राजा सुशर्माणं विव्याध निशितैः शरैः । पञ्चभिः पञ्चभिर्बाणैर्विव्याध चतुरो हयान् ।। 31
द्वाभ्यां सूतं च विव्याध केतुं च त्रिभिराशुगैः । तथैव मात्स्यराजं तु सुशर्मा युद्धदुर्मदः । पञ्चाशद्भिः शितैर्बाणैविव्याध परमास्त्रवित् ।। 32
तयोर्बलानि राजेन्द्र समस्तानि महारणे। नाजानन्त तदाऽन्योन्यं प्रदोषे रजसा वृते ।। 33
तमसाऽभिप्लुते लोके रजसा चैव भारत। व्यतिष्ठन्त मुहूर्तं ते व्यूढानीकाः प्रहारिणम् ।। 1
ततोऽन्धकारं प्रणुदन्नुदतिष्ठन्निशाकरः। कुर्वाणो विमलां रात्रिं दर्शयन्क्षत्रियान्रणे ।। 2
ततः प्रकाशमासाद्य पुनर्युद्धमवर्तत। घोररूपं तदा तेषामवेक्ष्य तु परस्परम् ।। 3
तथैव तेषां तुमुलानि तानि क्रुद्धानि चान्योन्यमभिद्रवन्ति। गदासिपट्टैश्च परश्वथैश्च प्रासैश्च तीक्ष्णाग्रसुधौतधारैः ।। 4
बलं तु मात्स्यस्य बलेन राजा सर्वं त्रिगर्ताधिपतिः सुशर्मा। प्रमथ्य जित्वा च निपीड्य मत्स्यान्विराटमोजस्विनमभ्यधावत् ।। 5
मत्ताविव वृषौ तौ तु गजाविव मदोद्धतौ । सिंहाविव गजग्राहौ शक्रवृत्राविवोद्धतौ ।। 6
उभौ तुल्यबलोत्साहावुभौ तुल्यपराक्रमौ। उभौ तुल्यास्रविक्षेपावुभौ युद्धविशारदौ ।। 7
तौ निहत्य पृथग्धुर्यानुभयोः पार्ष्णिसारथी । आस्तां तुल्यधनुर्ग्राहौ कृष्णकंसाविवोद्धतौ ।। 8
ततः सुशर्मा त्रैगर्तः सह भ्रात्रा सुवर्मणा। अभ्यद्रवन्मत्स्यराजं रथव्रातेन सर्वशः ।। 9
ततो रथाभ्यां प्रस्कन्द्य भ्रातरौ क्षत्रियर्षभौ। गदापाणी सुसंरब्धौ समभ्यद्रवतां जवात् ।। 10
सुशर्मा परवीरघ्नो बलवान्वीर्यवान्गदी। विरथं मत्स्यराजानं जीवग्राहमथाग्रहीत् ।। 11
तमुन्मथ्य सुशर्मा तु युवतीमिव कामुकः। स्यन्दनं स्वं समारोप्य प्रययौ भीमविक्रमः ।। 12
तस्मिन्गृहीते विरथे विराटे बलवत्तरे। बलं सर्वं विभग्नं तन्निरुत्साहं निराशकम् ।। 13
प्राद्रवन्त भयान्मात्स्यास्त्रिगर्तैरर्दिता रणे । विदिक्षुः दिक्षु सर्वासु पलायन्ति च यान्ति च ।। 14
तेषु विद्रांव्यमाणेषु कुन्तीपुत्रो युधिष्ठिरः। अभ्यभाषत धर्मात्मा भिमसेनमरिन्दमम् ।। 15
मात्स्यराजस्त्रिगर्तेन परामृष्टः सुशर्मणा। तं मोक्षय महाबाही मा गमद्द्विषतां वशम् ।। 16
भीमसेनः महाबाहो गृहीतं तु सुशर्मणा। त्रायस्व मोचय क्षिप्रमस्मत्प्रीतिकरं नृपम् ।। 17
उषिताः स्म सुखं सर्वे सर्वकामैः सुपूजिताः। भीमसेन त्वया कार्या तस्य वातस्य निष्कृतिः ।। 18
तं तथावादिनं तत्र भीमसेनो महाबलः। अभ्यभाषत दुर्धर्षो रणमध्ये युधिष्ठिरम् ।। 19
अहमेनं परित्रास्ये शासनात्तव पार्थिव। पश्येदं सुमहत्कर्म युध्यतो मम शत्रुभिः ।। 20