तेषां समागमो घोरस्तुमुलो रोमहर्षणः। घ्नतां परस्परं राजन्यमराष्ट्रविवर्धनः ।। 4
देवासुरसमो राजन्नासीत्सूर्येऽबलम्बति । पदातिरथनागेन्द्रहयारोहबलौघवान् ।। 5
अन्योन्यमभ्यापततां निघ्नतां चेतरेतरम् । उदतिष्ठद्रजो भौमं न प्राज्ञायत किंचन ।। 6
पक्षिणश्चापतन्भूमौ सैन्येन रजसा वृताः । इषुभिर्व्यतिसर्पद्भिरादित्योऽन्तरधीयत ।। 7
खद्योतैरिव संयुक्तमन्तरिक्षमजायत।। 8
रुक्मपृष्ठानि चापानि विचेरुर्विद्युतो यथा । नर्दतां लोकवीराणां सव्यं दक्षिणमस्यताम् ।। 9
रथा रथैः समाजग्मुः पत्तयश्च पदातिभिः । सादिनः सादिभिर्जग्मुर्गजैश्चापि महागजाः ।। 10
असिभिः पट्टसैश्चापि शक्तिभिस्तोमरैरपि । संरब्धाः समरे योधा निजघ्नुरितरेतरम् ।। 11
निघ्नन्तः समरेऽन्योन्यं हृष्टाः परिघपाणयः । न शेकुरतिसंक्रुद्धाः शूराः कर्तुं पराङ्भुखम् ।। 12
रक्ताधरोष्ठं सुनसं क्लृप्तश्मश्रु स्वलंकृतम्। अदृश्यत शिरश्छिन्नं रजोविध्वस्तकुण्डलम् ।। 13
दृश्यन्ते तत्र गात्राणि वीरैश्छिन्नानि सर्वशः । सालस्कन्धनिकाशानि क्षत्रियाणा महामृधे ।। 14
नागभोगनिकाशैश्च बाहुभिश्चन्दनोक्षितैः। आकीर्णा वसुधा तत्र शिरोभिश्च सकुण्डलैः ।। 15
यथा वा वाससी श्लक्ष्णे महारजतरञ्जिते। बिभ्रती युवती श्यामा तद्वद्भाति वसुन्धरा ।। 16
उपाशाम्यद्रजो भौमं रुधिरेण प्रवर्षता। कश्मलं प्राविशद्धोरं निर्मर्यादमवर्तत ।। 17
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितस्तदा। व्यूहं कृत्वा विराटस्य अन्वयुध्यत पाण्डवः ।। 18
आत्मानं श्येनवत्कृत्वा तुण्डमासीद्युधिष्ठिरः। पक्षौं यमौ च भवतः पुच्छमासीद्वृकोदरः ।। 19
सहस्रं न्यहनत्तत्र कुन्तीपुत्रो युधिष्ठिरः। भीमसेनस्तु संक्रुद्धः सर्वशस्त्रभृतांवरः । द्विसहस्रं रथान्वीरः परलोकं प्रवेशयत् ।। 20
नकुलस्त्रिशतं जघ्ने सहदेवश्चतुःशतम् । शतानीकः शतं जघ्ने मदिराश्वश्चतुःशतम् ।। 21
प्रहृष्टां महतीं सेनां त्रिगर्तानां महाबलौ । आर्च्छतां बहुसंरब्धौ केशाकेशि रथारथि ।। 22
लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ महाचमूम्। जग्मतुः सूर्यदत्तश्च वललश्चापि पृष्ठतः ।। 23
शङ्खो विराटपुत्रश्च महेष्वासो महाबलः। विनिघ्नन्समरे शूरान्प्रविवेश महाचमूम् ।। 24
विराटस्तत्र संग्रामे हत्वा पञ्चशतं रथान्। कुञ्जराणां शतं चैव सहस्रं वाजिनां तथा ।। 25
चरन्स विविधान्मार्गान्रथेन रथिनांवरः। त्रिगर्तानां सुशर्माणमार्च्छद्रुक्मरथं रणे ।। 26
तौ तु प्राहरतां तत्र महेष्वासौ महाबलौ । अन्योन्यमभिनिघ्नन्तौ गोषु गोवृषभाविव ।। 27
राजसिंहौ सुसंरब्धौ विरेजतुरमर्षणौ। कृतास्रौ निशितैर्बाणैरसिशक्तिपरश्वथैः ।। 28
ततो रथाभ्यां रथिनौ व्यतीयातां समन्ततः । शरान्ससृजतुः शीघ्रं तोयधारा घनाविव ।। 29
अन्योन्यमभिसंरब्धौ दन्ताभ्यामिव कुञ्जरौ। कृतास्त्रौ निशितैर्बाणैर्दारयामासतू रणे ।। 30
मात्स्यो राजा सुशर्माणं विव्याध निशितैः शरैः । पञ्चभिः पञ्चभिर्बाणैर्विव्याध चतुरो हयान् ।। 31
द्वाभ्यां सूतं च विव्याध केतुं च त्रिभिराशुगैः । तथैव मात्स्यराजं तु सुशर्मा युद्धदुर्मदः । पञ्चाशद्भिः शितैर्बाणैविव्याध परमास्त्रवित् ।। 32
तयोर्बलानि राजेन्द्र समस्तानि महारणे। नाजानन्त तदाऽन्योन्यं प्रदोषे रजसा वृते ।। 33