ते हया हेमसंच्छन्ना बृहन्तः साधुवाहिनः । चोदिताः प्रत्यदृश्यन्त पत्रिणामिव पङ्क्तयः ।। 43
भीमरूपाश्च मातङ्गाः प्रभिन्नकरटामुखाः। स्वारूढा युद्धकुशलैर्महामात्राधिरोहिताः ।। 44
क्षरन्त इव जीमूताः सुदन्ताः षाष्टिहायनाः । राजानमन्वयुः पश्चात्क्रामन्त इव पर्वताः ।। 45
दृढायुधजनाकीर्णं रथाश्वगजसंकुलम् । तद्बलाग्रं विराटस्य शक्रस्येव तदा बभौ ।। 46
तं प्रयान्तं महाराज निनीषन्तं गवां पदम्। विशारदानां वैश्यानां प्रकृष्टानां तदा नृप ।। 47
विंशतिस्तु सहस्राणि नराणामनुयायिनाम्। अष्टौ रथसहस्राणि दश नागशतानि च । विंशच्चाश्वसहस्राणि मात्स्यानां त्वरितं ययुः ।। 48
तदनीकं विराटस्य शुशुभेऽतीव भारत। वसन्ते बहुपुष्पाढ्यं काननं चित्रितं यथा ।। 49
निर्याय नगराच्छूरा व्यूढानीकाः प्रहारिणः। त्रिगर्तानस्पृशन्मात्स्याः मूर्येऽस्तंगमिते सति ।। 1
ते त्रिगर्ताश्च मात्स्याश्च व्यूढानीकाः प्रहारिणः। अन्योन्यमभिवर्तन्ते गोषु गृद्धा महाबलाः ।। 2
भीमाश्च मत्तमातङ्गास्तोमराङ्कुशचोदिताः। ग्रामणीयैः समारूढाः कुशलैर्हस्तिसादिभिः ।। 3
तेषां समागमो घोरस्तुमुलो रोमहर्षणः। घ्नतां परस्परं राजन्यमराष्ट्रविवर्धनः ।। 4
देवासुरसमो राजन्नासीत्सूर्येऽबलम्बति । पदातिरथनागेन्द्रहयारोहबलौघवान् ।। 5
अन्योन्यमभ्यापततां निघ्नतां चेतरेतरम् । उदतिष्ठद्रजो भौमं न प्राज्ञायत किंचन ।। 6
पक्षिणश्चापतन्भूमौ सैन्येन रजसा वृताः । इषुभिर्व्यतिसर्पद्भिरादित्योऽन्तरधीयत ।। 7
खद्योतैरिव संयुक्तमन्तरिक्षमजायत।। 8
रुक्मपृष्ठानि चापानि विचेरुर्विद्युतो यथा । नर्दतां लोकवीराणां सव्यं दक्षिणमस्यताम् ।। 9
रथा रथैः समाजग्मुः पत्तयश्च पदातिभिः । सादिनः सादिभिर्जग्मुर्गजैश्चापि महागजाः ।। 10
असिभिः पट्टसैश्चापि शक्तिभिस्तोमरैरपि । संरब्धाः समरे योधा निजघ्नुरितरेतरम् ।। 11
निघ्नन्तः समरेऽन्योन्यं हृष्टाः परिघपाणयः । न शेकुरतिसंक्रुद्धाः शूराः कर्तुं पराङ्भुखम् ।। 12
रक्ताधरोष्ठं सुनसं क्लृप्तश्मश्रु स्वलंकृतम्। अदृश्यत शिरश्छिन्नं रजोविध्वस्तकुण्डलम् ।। 13
दृश्यन्ते तत्र गात्राणि वीरैश्छिन्नानि सर्वशः । सालस्कन्धनिकाशानि क्षत्रियाणा महामृधे ।। 14
नागभोगनिकाशैश्च बाहुभिश्चन्दनोक्षितैः। आकीर्णा वसुधा तत्र शिरोभिश्च सकुण्डलैः ।। 15
यथा वा वाससी श्लक्ष्णे महारजतरञ्जिते। बिभ्रती युवती श्यामा तद्वद्भाति वसुन्धरा ।। 16
उपाशाम्यद्रजो भौमं रुधिरेण प्रवर्षता। कश्मलं प्राविशद्धोरं निर्मर्यादमवर्तत ।। 17
युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितस्तदा। व्यूहं कृत्वा विराटस्य अन्वयुध्यत पाण्डवः ।। 18
आत्मानं श्येनवत्कृत्वा तुण्डमासीद्युधिष्ठिरः। पक्षौं यमौ च भवतः पुच्छमासीद्वृकोदरः ।। 19
सहस्रं न्यहनत्तत्र कुन्तीपुत्रो युधिष्ठिरः। भीमसेनस्तु संक्रुद्धः सर्वशस्त्रभृतांवरः । द्विसहस्रं रथान्वीरः परलोकं प्रवेशयत् ।। 20
नकुलस्त्रिशतं जघ्ने सहदेवश्चतुःशतम् । शतानीकः शतं जघ्ने मदिराश्वश्चतुःशतम् ।। 21
प्रहृष्टां महतीं सेनां त्रिगर्तानां महाबलौ । आर्च्छतां बहुसंरब्धौ केशाकेशि रथारथि ।। 22
लक्षयित्वा त्रिगर्तानां तौ प्रविष्टौ महाचमूम्। जग्मतुः सूर्यदत्तश्च वललश्चापि पृष्ठतः ।। 23