शतसूर्यं शतावर्तं शतबिन्दु शताक्षिमत्। अभेद्यकल्पं मत्स्यानां राजा कवचमाहरत् ।। 23
ततो नानातनुत्राणि स्वानिस्वानि महाबलाः। युयुत्सवोऽभ्यनह्यन्त देवकल्पाः प्रहारिणः ।। 24
सोपस्करेषु शुभ्रेषु महत्सु च महारथाः । पृथक्काञ्चनसन्नाहान्रथेष्वश्वानयोजयन् ।। 25
सूर्यचन्द्रप्रतीकाशे मणिहेमविभूषिते। महाप्रमाणं मत्स्यस्य ध्वजमुच्छ्रियते रथे ।। 26
ध्वजान्बहुविधाकारान्सौवर्णान्हेममालिनः। यथास्वं क्षत्रियाः शूरा रथेषु समयोजयन् ।। 27
रथेषु युज्यमानेषु कङ्को राजानमब्रवीत् । मया ह्यस्रं चतुर्वर्गमवाप्तमृषिसत्तमात् ।। 28
दंशितो रथमास्थाय पदं निर्याम्यहं गवाम्। अयं च बलवाञ्छरो वललो दृश्यतेऽनघ ।। 29
गोसङ्ख्यमश्वबन्धं च संयोजय रथेषु वैः। नैतेन जातु युध्द्येयुर्गवार्थमिति मे मतिः ।। 30
अथ मात्स्योऽब्रवीद्राजा शतानीकं जघन्यजम्। कङ्कश्च वललः सूदो दामग्रन्थिश्च वीर्यवान् ।। 31
तन्त्रिपालश्च गोसङ्ख्यो यथा ते पुरुषर्षभाः । शूराः सुवीराः पुरुषा नागराजवरोपमाः । युद्ध्येयुरिति मे बुद्धिर्वर्तते नात्र संशयः ।। 32
एतेपामपि दीयन्तां रथा ध्वजपताकिनः। कवचानि विचित्राणि दृढानि च लघूनि च ।। 33
प्रतिमुञ्चन्तु गात्रेषु दीयन्तामायुधानि च । नेमे जातु न युद्ध्य्रेयुरिति मे धीयते मतिः ।। 34
तच्छ्रुत्वा नृपतेर्वाक्यं शीघ्रं त्वरितमानसः। शतानीकः स पार्थभ्यो रथान्राजन्समादिशत् ।। 35
सहदेवाय राज्ञे च भीमाय नकुलाय च। तान्दृष्ट्वा सहसा सूता राजभक्तिपुरस्कृताः ।। 36
निर्दिष्टा नरदेवेन रथाञ्छीघ्रमयोजयन्। कवचानि विचित्राणि नवानि च दृढानि च।। 37
विराटः प्रददौ यानि तेषामक्लिष्टकर्मणाम्। तान्यामुच्य शरीरेषु दंशितास्ते महारथाः ।। 38
तरस्विनश्छन्नरूपाः सर्वशस्त्रविशारदाः । रथान्हेमपरिष्कारान्समास्थाय महारथाः। पाण्डवा निर्ययुर्हृष्टा दंशिता राजसत्तम ।। 39
विराटमन्वयुः पश्चात्सहिताः कुरुपुङ्गवाः। चत्वारो भ्रातरः शूराः पाण्डवाः सत्यविक्रमाः ।। 40
दीर्घानां च दृढानां च धनुषां ते यथाबलम्। उत्कृष्य पाशान्मौर्वीणां वीराश्चापेष्वयोजयन् ।। 41
ततः सुवाससः सर्वे वीराश्चन्दनरूषिताः । चोदिता नरदेवेन क्षिप्रमश्वानचोदयन् ।। 42
ते हया हेमसंच्छन्ना बृहन्तः साधुवाहिनः । चोदिताः प्रत्यदृश्यन्त पत्रिणामिव पङ्क्तयः ।। 43
भीमरूपाश्च मातङ्गाः प्रभिन्नकरटामुखाः। स्वारूढा युद्धकुशलैर्महामात्राधिरोहिताः ।। 44
क्षरन्त इव जीमूताः सुदन्ताः षाष्टिहायनाः । राजानमन्वयुः पश्चात्क्रामन्त इव पर्वताः ।। 45
दृढायुधजनाकीर्णं रथाश्वगजसंकुलम् । तद्बलाग्रं विराटस्य शक्रस्येव तदा बभौ ।। 46
तं प्रयान्तं महाराज निनीषन्तं गवां पदम्। विशारदानां वैश्यानां प्रकृष्टानां तदा नृप ।। 47
विंशतिस्तु सहस्राणि नराणामनुयायिनाम्। अष्टौ रथसहस्राणि दश नागशतानि च । विंशच्चाश्वसहस्राणि मात्स्यानां त्वरितं ययुः ।। 48
तदनीकं विराटस्य शुशुभेऽतीव भारत। वसन्ते बहुपुष्पाढ्यं काननं चित्रितं यथा ।। 49
निर्याय नगराच्छूरा व्यूढानीकाः प्रहारिणः। त्रिगर्तानस्पृशन्मात्स्याः मूर्येऽस्तंगमिते सति ।। 1
ते त्रिगर्ताश्च मात्स्याश्च व्यूढानीकाः प्रहारिणः। अन्योन्यमभिवर्तन्ते गोषु गृद्धा महाबलाः ।। 2
भीमाश्च मत्तमातङ्गास्तोमराङ्कुशचोदिताः। ग्रामणीयैः समारूढाः कुशलैर्हस्तिसादिभिः ।। 3