फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा। अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति
एवमुक्त्वा द्विजश्रेष्ठो देवयानीं कचस्तदा। त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः
तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः। बृहस्पतिं सभाज्येदं कचं वचनमब्रुवन्
यत्त्वयास्मद्धितं कर्म कृतं वै परमाद्भुतम्। न ते यशः प्रणशिता भागभाक्व भविष्यसि
कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः। कचादधीत्य तां विद्यां कृतार्था भरतर्षभ
सर्व एव समागम्य शतक्रतुमथाब्रुवन्। कालस्ते विक्रमस्याद्य जहि शत्रून्पुरन्दर
एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा। तथेत्युक्त्वा प्रचक्राम सोऽपश्यत वने स्त्रियः
क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे। वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत्
ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा। वस्त्राणि जगृहुस्तानि यथाऽऽसन्नान्यनेकशः
तत्र वासो देवयानयाः शर्मिष्ठा जगृहे तदा। व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः
ततस्तयोर्मिथस्तत्र विरोधः समजायत। देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते
कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि। समुदाचारहीनाया न ते साधु भविष्यति
आसीनं च शयानं च पिता ते पितरं मम। स्तौतिबन्दीव चाभीक्ष्णं नीचैः स्थित्वा विनीतवत्
याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः। सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः
आदुन्वस्व विदुन्वस्व द्रुह्य कुप्यस्व याचकि। अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि
लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम्। `प्रतिकूलं वदसि चेदितःप्रभृति याचकि
समुच्छ्रयं देवयानीं गतां सक्तां च वाससि। शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमागमत्। हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया
अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा। `प्रविश्य स्वगृहं स्वस्था धर्ममासुरमास्थिता।' अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः
श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः। स नाहुषः प्रेक्षमाण उदपानं गतोदकम्
ददर्श राजा तां तत्र कन्यामग्निशिखामिव। तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम्
सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना। का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला
दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा। कथं च पतिताऽस्यस्मिन्कूपे वीरुत्तृणावृते
योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया
तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते। एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः
समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः। जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम्
तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि
गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात्। उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः
गच्छ भद्रे यथाकामं न भयं विद्यते तव। इत्युच्यमाना नृपतिं देवयानीदमुत्तरम्
उवाच मामुपादाय गच्छ शीघ्रं प्रियो हि मे। गृहीताहं त्वया पाणौ तस्माद्भर्ता भविष्यसि
इत्येवमुक्तो नृपतिराह क्षत्रकुलोद्भवः। त्वं भद्रे ब्राह्मणी तस्मान्मया नार्हसि सङ्गमम्