जघन्यतो वयं तत्र यास्यामो दिवसान्तरे। विषयं मत्स्यराजस्य सुसमृद्धं सुसंहितम् ।। 57
सुशर्मणा गृहीते तु मत्स्यराजस्य गोधने। विराटः सैन्यमादाय त्रिगर्तैः सह योत्स्यति ।। 58
अपरं दिवसं गास्तु तत्र गृह्णन्तु कौरवाः। गवार्थे पाण्डवास्तत्र योत्स्यन्ति कुरुभिः सह ।। 59
तथा गत्वा यथोद्देशं विराटनगरान्तिके। क्षिप्रं गोष्ठं समासाद्य गृह्णन्तु विपुलं धनम् ।। 60
गवां शतसहस्राणि श्रीमन्ति गुणवन्ति च। वयमस्य निगृह्णीमो द्विधा कृत्वा च वाहिनीम् ।। 61
ते स्म गत्वा यथोद्दिष्टं देशं मत्स्यमहीपतेः। संनद्धा रथिनः सर्वे सपताका बलोत्कटाः। प्रतिवैरं चिकीर्षन्तो गोषु गृद्धा महाबलाः ।। 62
आदत्त गाः सुशर्माऽथ कृष्णपक्षस्य चाष्टमीम् ।। 63
अपरे दिवसे सर्वे राजन्संभूय कौरवाः। नवम्यां ते न्यगृह्णन्त गोकुलानि सहस्रशः। कौरवास्तु महावीर्या मत्स्यानां विषयान्तरे ।। 64
ततस्तेषां महाराज तत्रैवामिततेजसाम्। छद्मलिङ्गप्रविष्टानां पाण्डवानां महात्मनाम् ।। 1
व्यतीतः समयः सम्यग्विराटनगरे सताम्। कुर्वतां तस्य कर्माणि वीराटस्य महीपतेः ।। 2
कीचके तु हते राजा विराटः परवीरहा। परां संभावनां चक्रे कुन्तीपुत्रे युधिष्ठिरे ।। 3
ततस्त्रयोदशस्वान्ते तस्य वर्षस्य भारत। शुशर्मणा गृहीतं तु गोधनं तरसा बहु ।। 4
ततः शब्दो महानासीद्रेणुश्च दिवमस्पृशत्। शङ्खदुन्दुभिघोषश्च भेरीणां च महास्वनः। गवाश्वरथनागानां निश्वनश्च पदातिनाम् ।। 5
एवं तैस्त्वभिनिर्याय मत्स्यराजस्य गोधने। त्रिगर्तैर्गृह्यमाणे तु गोपालाः प्रत्यषेधयन् ।। 6
अथ त्रिगर्ता बहवः परिगृह्य धनं बहु । परिक्षिप्य हयैः शीघ्रै रथव्रातैश्च भारत। गोपालान्प्रत्ययुध्यन्त रणे कृत्वा जये धृतिम् ।। 7
ते हन्यमाना बहुभिः प्रासतोमरपाणिभिः । गोपाला गोकुले भक्ता वारयामासुरोजसा ।। 8
परश्वथैश्च मुसलैर्भिण्डिपालैश्च मुद्गरैः। गोपालाः कर्षणैश्चित्रैर्जघ्नुरश्वान्समन्ततः ।। 9
ते हन्यमानाः संक्रुद्धास्त्रिगर्ता रथयोधिनः । विसृज्य शरवर्षणि गोपानद्रावयन्बलात् ।। 10
हन्यमानेषु गोपेषु विमुखेषु विशांपते। ततो युवानः संभीताः श्वसन्तो रेणुगुण्ठिताः ।। 11
जवेन महता चैव गोपालाः पुरमाव्रजन्। विराटनगरं प्राप्य नरा राजानमब्रुवन् ।। 12
सभायां राजशार्दूलमासीनं पाण्डवैः सह। शूरैः परिवृतं योधैः कुण्डलाङ्गदधारिभिः ।। 13
सद्भिश्च पण्डितैः सार्धं मन्त्रिभिश्चापि संवृतम् । दृष्ट्वा शीघ्रं तु गोपाला विराटमिदमब्रवन् ।। 14
अस्मान्युधि विनिर्जित्य परिभूय सबान्धवान्। षष्टिं गवां सहस्राणि त्रिगर्ताः कालयन्ति । ता निवर्तय राजेन्द्र मा नेशुः पशवस्तव ।। 15
श्रुत्वा तु वचनं तेषां गोपालानामरिंदमः। स राजा महतीं सेनां मात्स्यानां समवाहयत्। रथनागाश्वकलिलां पत्तिध्वजसमाकुलाम् ।। 16
राजानो राजपुत्राश्च तनुत्राण्यथ भेजिरे। भानुमन्ति विवातानि सूपसेव्यानि भागशः ।। 17
पृथक्काञ्चनसन्नाहान्रथेष्वश्वानयोजयन् । उत्कृष्य पाशान्मौर्वीणां शूराश्चापेष्वयोजयन् ।। 18
दृढमायसगर्भं तु कवचं तप्तकाञ्चनम् । विराटस्य प्रियो भ्राता शतानीकोऽभ्यहारयत् ।। 19
सर्वभारसहं वर्म कल्याणपटलं दृढम्। शतानीकादवरजो मदिराक्षोऽभ्यहारयत् ।। 20
उत्सेधे यस्य पद्मानि शतं सौगन्धिकानि च। मृष्टहाटकपर्यन्तं सूर्यदत्तोऽभ्यहारयत् ।। 21
दृढमायसगर्भं च श्वेतं रुक्मपरिष्कृतम्। विराटस्य सुतो ज्येष्ठो वीरः शङ्खोऽभ्यहारयत् ।। 22