तच्छ्रुत्वा वचनं तस्य कर्णो राजानमब्रवीत् ।। 47
सूक्तं सुशर्मणा वाक्यं प्राप्तकालमिदं वचः। तस्मात्क्षिप्रं विनिर्यामो योजयित्वा वरूथिनीं ।। 48
यदेतत्तेऽभिरुचितं मम चैतद्धि रोचते। प्रविभज्य च सैन्यानि यथा वा मन्यते भवान् ।। 49
प्रज्ञावान्कुलवृद्धश्च सर्वेषां नः पितामहः। आचार्यश्च कृपो विद्वाञ्शकुनिश्चापि सौबलः ।। 50
मन्यन्ते ते यथा सर्वे तथा यात्रा विधीयताम्। संमन्त्र्य चाशु गच्छामः साधनार्थं महीपते ।। 51
किंनु नः पाण्डवैः कार्यं हीनार्थबलपौरुषैः। अत्यन्तं हि प्रनष्टास्ते प्राप्ता वाऽपि यमक्षयम् ।। 52
तद्भवांश्चतुरङ्गेण बलेन महता वृतः। विराटनगरं यातु सर्वसैन्येन भारत। आदास्यामोऽथ गास्तस्य विविधानि वसूनि च ।। 53
ततो दुर्योधनो राजा वचः श्रुत्वा तु तस्य तत्। वैकर्तनस्य कर्णस्य क्षिप्रमाज्ञापयत्स्वयम्। शासने नित्ययुक्तं तु दुःशासनमनन्तरम् ।। 54
सह वृद्धैस्तु संमन्त्र्य क्षिप्रं योजय वाहिनीम्। यथोद्देशं तु गच्छामः सहिताः सर्वकौरवैः ।। 55
सुशर्मा तु यथोद्दिष्टं देशं यातु महारथः। त्रिगर्तैः सहितः सर्वैः प्रख्यातबलपौरुषैः। प्रागेव हि सुसंयत्तो विराटनगरं प्रति ।। 56
जघन्यतो वयं तत्र यास्यामो दिवसान्तरे। विषयं मत्स्यराजस्य सुसमृद्धं सुसंहितम् ।। 57
सुशर्मणा गृहीते तु मत्स्यराजस्य गोधने। विराटः सैन्यमादाय त्रिगर्तैः सह योत्स्यति ।। 58
अपरं दिवसं गास्तु तत्र गृह्णन्तु कौरवाः। गवार्थे पाण्डवास्तत्र योत्स्यन्ति कुरुभिः सह ।। 59
तथा गत्वा यथोद्देशं विराटनगरान्तिके। क्षिप्रं गोष्ठं समासाद्य गृह्णन्तु विपुलं धनम् ।। 60
गवां शतसहस्राणि श्रीमन्ति गुणवन्ति च। वयमस्य निगृह्णीमो द्विधा कृत्वा च वाहिनीम् ।। 61
ते स्म गत्वा यथोद्दिष्टं देशं मत्स्यमहीपतेः। संनद्धा रथिनः सर्वे सपताका बलोत्कटाः। प्रतिवैरं चिकीर्षन्तो गोषु गृद्धा महाबलाः ।। 62
आदत्त गाः सुशर्माऽथ कृष्णपक्षस्य चाष्टमीम् ।। 63
अपरे दिवसे सर्वे राजन्संभूय कौरवाः। नवम्यां ते न्यगृह्णन्त गोकुलानि सहस्रशः। कौरवास्तु महावीर्या मत्स्यानां विषयान्तरे ।। 64
ततस्तेषां महाराज तत्रैवामिततेजसाम्। छद्मलिङ्गप्रविष्टानां पाण्डवानां महात्मनाम् ।। 1
व्यतीतः समयः सम्यग्विराटनगरे सताम्। कुर्वतां तस्य कर्माणि वीराटस्य महीपतेः ।। 2
कीचके तु हते राजा विराटः परवीरहा। परां संभावनां चक्रे कुन्तीपुत्रे युधिष्ठिरे ।। 3
ततस्त्रयोदशस्वान्ते तस्य वर्षस्य भारत। शुशर्मणा गृहीतं तु गोधनं तरसा बहु ।। 4
ततः शब्दो महानासीद्रेणुश्च दिवमस्पृशत्। शङ्खदुन्दुभिघोषश्च भेरीणां च महास्वनः। गवाश्वरथनागानां निश्वनश्च पदातिनाम् ।। 5
एवं तैस्त्वभिनिर्याय मत्स्यराजस्य गोधने। त्रिगर्तैर्गृह्यमाणे तु गोपालाः प्रत्यषेधयन् ।। 6
अथ त्रिगर्ता बहवः परिगृह्य धनं बहु । परिक्षिप्य हयैः शीघ्रै रथव्रातैश्च भारत। गोपालान्प्रत्ययुध्यन्त रणे कृत्वा जये धृतिम् ।। 7
ते हन्यमाना बहुभिः प्रासतोमरपाणिभिः । गोपाला गोकुले भक्ता वारयामासुरोजसा ।। 8
परश्वथैश्च मुसलैर्भिण्डिपालैश्च मुद्गरैः। गोपालाः कर्षणैश्चित्रैर्जघ्नुरश्वान्समन्ततः ।। 9
ते हन्यमानाः संक्रुद्धास्त्रिगर्ता रथयोधिनः । विसृज्य शरवर्षणि गोपानद्रावयन्बलात् ।। 10
हन्यमानेषु गोपेषु विमुखेषु विशांपते। ततो युवानः संभीताः श्वसन्तो रेणुगुण्ठिताः ।। 11
जवेन महता चैव गोपालाः पुरमाव्रजन्। विराटनगरं प्राप्य नरा राजानमब्रुवन् ।। 12