सत्वे बाहुबले धैर्ये प्राणे शारीरसंभवे। सांप्रतं मानुषे लोके सदैत्यनरराक्षसे ।। 17
चत्वारस्तु नरव्याघ्रा बले शक्रोपमा भुवि। उत्तमाः प्राणिनां तेषां नास्ति कश्चिद्बले समः ।। 18
बलदेवश्च भीमश्च मद्रराजश्च वीर्यवान् । चतुर्थः कीचकस्तेषां पञ्चमं नानुशुश्रुमः ।। 19
अन्योन्यानन्तरबलाः परस्परजयैपिणः। बाहूयुद्धमभीप्सन्तो नित्यं संरब्धमानसाः ।। 20
तेनाहमवगच्छामि प्रत्ययेन वृकोदरम्। मनस्यभिनिविष्टं मे व्यक्तं जीवन्ति पाण्डवाः ।। 21
तत्राहं कीचकं मन्ये भीमसेनेन मारितम्। सैरन्ध्रीं द्रौपदीं मन्ये नात्र कार्या विचारणा ।। 22
शङ्के कृष्णानिमित्तं तु भीमसेनेन कीचकः। गन्धर्वव्यपदेशेन हतो निशि महाबलः ।। 23
को हि शक्तः परो भीमात्कीचकं हन्तुमोजसा । शस्त्रं विना बाहुबलात्तथा सर्वाङ्गचूर्णने ।। 24
मर्दितुं वा तथा तीव्रं चर्ममांसास्थिचूर्णनम् । रूपमन्यत्समास्थाय भीमस्यैतद्विचेष्टितम् ।। 25
ध्रुवं कृष्णानिमित्तं तु भीमसेनेन सूतजाः । गन्धर्वव्यपदेशेन हता निशि न संशयः ।। 26
पितामहेन ये चोक्ता देशस्य च जनस्य च। गुणास्ते मत्स्यराष्ट्रेषु बहुशोऽपि मया श्रुताः ।। 27
विराटनगरे मन्ये पाण्डवाश्छन्नचारिणः। निवसन्ति पुरे रम्ये तत्र यात्रा विधीयताम् ।। 28
मत्स्यराष्ट्रं गमिष्यामो ग्रहीष्यामश्च गोधनम्। गृहीते गोधने नूनं तेऽपि योत्स्यन्ति पाण्डवाः।। 29
अपूर्णे समये चापि यदि पश्येम पाण्डवान्। द्वादशान्यानि वर्षाणि प्रवेक्ष्यन्ति पुनर्वनम् ।। 30
तस्मादन्यतरेणापि लाभोऽस्माकं भविष्यति। कोशवृद्धिरिहास्माकं शत्रूणां निधनं भवेत् ।। 31
कथं सुयोधनं गच्छेद्युधिष्ठिरभृतः पुरा। एतच्चापि वदत्येष मात्स्यः परिभवान्मयि ।। 32
तस्मात्कर्तव्यमेतद्वै तत्र यात्रा विधीयताम्। एतत्सुनीतं मन्येऽहं सर्वेषां यदि रोचते ।। 33
ततो राजा त्रिगर्तानां सुशर्मा रथयूथपः। पूर्वमाभाष्य कर्णेन तथा दुःशासनेन च। प्राप्तकालमिदं वाक्यमुवाच त्वरितो बली ।। 34
असकृन्निकृतः पूर्वं मात्स्यसाल्वेयकेकयैः । सूतेनैव च मात्स्यस्य कीचकेन पुनः पुनः ।। 35
बाधितो बन्धुभिः सार्धं बलाद्बलवता विभो। स कर्णमभिवीक्ष्याथ दुर्योधनमभाषत ।। 36
राष्ट्रं ममासकृद्राजन्राज्ञा मात्स्येन बाधितम् ।। 37
प्रणेता कीचकस्तस्य बलोत्सिक्तोऽभवन्पुरा। अमर्षी दुर्जयो जेता प्रख्यातबलपौरुषः । स हतस्तत्र गन्धर्वैः पापकर्मा नृशंसकृत् ।। 38
तस्मिन्विनिहते राजन्हीनदर्पो निराश्रयः। भविष्यति निरुत्साहो विराट इति मे मतिः ।। 39
तत्र यात्रा मम मता यदि ते रोचतेऽनघ। कौरवाणां च सर्वेषां कर्णस्य च महात्मनः ।। 40
एतत्कार्यमहं मन्ये परमात्ययिकं महत्। राष्ट्रं तस्याभियास्यामो धनधान्यसमाकुलम् ।। 41
आददामोऽस्य रत्नानि विविधानि वसूनि च। ग्रामान्राष्ट्राणि वा तस्य हरिष्यामो विभागशः ।। 42
अथवा गोसहस्राणि बहूनि शुभदर्शन। विविधानि हरिष्यामः प्रतीपीड्य पुरं बलात् ।। 43
कौरवैः सह संगमय त्रिगर्तैश्च विशांपते। गास्तस्यापहरिष्यामः सह सर्वैर्महारथैः ।। 44
सन्धिं वा तेन कृत्वा तु निबध्नीमोऽस्य पौरुषम्। हत्वा चास्य चमूं कृत्स्नां वशमेवानयामहे ।। 45
तं वशे न्यायतः कृत्वा सुखं वत्स्यामहे वयम्। भवतां बलवृद्धिश्च भविष्यति न संशयः ।। 46