निवृत्तसमयाः पार्था महात्मानो महाबलाः । महोत्साहा भविष्यन्ति पाण्डवा ह्यमितौजसः ।। 7
तस्माद्बलं च कोशं च नातिश्चापि विधीयताम्। यथा कालोदये प्राप्ते सम्यक् तैः संदधामहे ।। 8
यत्र यन्मन्यसे श्रेयो बुध्यस्व बलमात्मनः । नियतं सर्वमित्रेषु बलवत्स्वबलेषु च ।। 9
सारं फल्गु बलं ज्ञात्वा मध्यस्थं चापि भारत । स्वराष्ट्रपरराष्ट्रेषु ज्ञातव्यं बलमात्मनः ।। 10
अप्रहृशष्टं प्राहृष्टं वा संदधाम तथा परैः । साम्ना दानेन भेदेन दण्डेन बलिकर्मणा ।। 11
न्यायेनाक्रम्य च परान्बलाच्चानम्य दुर्बलान् । सान्त्वयित्वा च मित्राणि बलं चाभाष्यतां सुखम् ।। 12
स्वकोशबलसंवृद्धः सम्यक्सिद्धिमवाप्स्यसि । योत्स्यसे चापि बलिभिररिभिः प्रत्युपस्थितैः। अन्यैस्त्वं पाण्डवैर्वाऽपि हीनैः स्वबलवाहनैः ।। 13
एवं सर्वं विनिश्चित्य व्यवहर्तासि न्यायतः। यथाकालं मनुष्येन्द्र चिरं सुखमवाप्स्यसि ।। 14
भीष्माद्रोणकृपैरुक्ते कर्णदुःशासनादिभिः। ततो दुर्योधनो वाक्यं श्रुत्वा तेषां महात्मनाम् । मुहूर्तमनुसंचिन्त्य सचिवानिदमब्रवीत् ।। 15
श्रुतमेतन्मया पूर्वं कथासु जनसंसदि। धीराणां शास्त्रविदुषां प्राज्ञानां मतिनिश्चये । कृतिनां सारफल्गुत्वे जानामि नयचक्षुषा ।। 16
सत्वे बाहुबले धैर्ये प्राणे शारीरसंभवे। सांप्रतं मानुषे लोके सदैत्यनरराक्षसे ।। 17
चत्वारस्तु नरव्याघ्रा बले शक्रोपमा भुवि। उत्तमाः प्राणिनां तेषां नास्ति कश्चिद्बले समः ।। 18
बलदेवश्च भीमश्च मद्रराजश्च वीर्यवान् । चतुर्थः कीचकस्तेषां पञ्चमं नानुशुश्रुमः ।। 19
अन्योन्यानन्तरबलाः परस्परजयैपिणः। बाहूयुद्धमभीप्सन्तो नित्यं संरब्धमानसाः ।। 20
तेनाहमवगच्छामि प्रत्ययेन वृकोदरम्। मनस्यभिनिविष्टं मे व्यक्तं जीवन्ति पाण्डवाः ।। 21
तत्राहं कीचकं मन्ये भीमसेनेन मारितम्। सैरन्ध्रीं द्रौपदीं मन्ये नात्र कार्या विचारणा ।। 22
शङ्के कृष्णानिमित्तं तु भीमसेनेन कीचकः। गन्धर्वव्यपदेशेन हतो निशि महाबलः ।। 23
को हि शक्तः परो भीमात्कीचकं हन्तुमोजसा । शस्त्रं विना बाहुबलात्तथा सर्वाङ्गचूर्णने ।। 24
मर्दितुं वा तथा तीव्रं चर्ममांसास्थिचूर्णनम् । रूपमन्यत्समास्थाय भीमस्यैतद्विचेष्टितम् ।। 25
ध्रुवं कृष्णानिमित्तं तु भीमसेनेन सूतजाः । गन्धर्वव्यपदेशेन हता निशि न संशयः ।। 26
पितामहेन ये चोक्ता देशस्य च जनस्य च। गुणास्ते मत्स्यराष्ट्रेषु बहुशोऽपि मया श्रुताः ।। 27
विराटनगरे मन्ये पाण्डवाश्छन्नचारिणः। निवसन्ति पुरे रम्ये तत्र यात्रा विधीयताम् ।। 28
मत्स्यराष्ट्रं गमिष्यामो ग्रहीष्यामश्च गोधनम्। गृहीते गोधने नूनं तेऽपि योत्स्यन्ति पाण्डवाः।। 29
अपूर्णे समये चापि यदि पश्येम पाण्डवान्। द्वादशान्यानि वर्षाणि प्रवेक्ष्यन्ति पुनर्वनम् ।। 30
तस्मादन्यतरेणापि लाभोऽस्माकं भविष्यति। कोशवृद्धिरिहास्माकं शत्रूणां निधनं भवेत् ।। 31
कथं सुयोधनं गच्छेद्युधिष्ठिरभृतः पुरा। एतच्चापि वदत्येष मात्स्यः परिभवान्मयि ।। 32
तस्मात्कर्तव्यमेतद्वै तत्र यात्रा विधीयताम्। एतत्सुनीतं मन्येऽहं सर्वेषां यदि रोचते ।। 33
ततो राजा त्रिगर्तानां सुशर्मा रथयूथपः। पूर्वमाभाष्य कर्णेन तथा दुःशासनेन च। प्राप्तकालमिदं वाक्यमुवाच त्वरितो बली ।। 34
असकृन्निकृतः पूर्वं मात्स्यसाल्वेयकेकयैः । सूतेनैव च मात्स्यस्य कीचकेन पुनः पुनः ।। 35
बाधितो बन्धुभिः सार्धं बलाद्बलवता विभो। स कर्णमभिवीक्ष्याथ दुर्योधनमभाषत ।। 36