धर्मज्ञः स तु दुर्ज्ञेयः सर्वज्ञैश्च द्विजातिभिः। किंपुनः प्राकृतैस्तात पार्थो विज्ञायते क्वचित् ।। 50
यस्मिन्सत्यं धृतिर्दानं परा शान्तिर्ध्रुवा क्षमा। ह्रीः श्रीः कीर्तिः परं तेज आनृशंस्यमथार्जवम् ।। 51
तस्मान्निवासः पार्थानां चिन्त्यतां यद्ब्रवीमि वः । गतिर्वा परमा तत्र नोत्सहे वक्तुमन्यथा ।। 52
एवमेतत्तु संचिन्त्य यत्कृत्यं साधु मन्यसे। तत्क्षिप्रं कुरु कौरव्य यद्येतच्छ्रद्दधासि मे। कुलस्य हि क्षमं तात यदहं प्रब्रवीमि ते ।। 53
ततः शारद्वतो वाक्यमित्युवाच कृतस्तदा। युक्तं प्राप्तं च वृद्धेन पाण्डवान्प्रति भापितम् ।। 1
धर्मार्थसहितं श्लक्ष्णं सर्वं सत्यं सहेतुकम्। तत्रानुरूपं भीष्मस्य ममापि वचनं शृणु ।। 2
तेषां चैव गतिस्तत्र र्निवासश्चानुचिन्त्यताम् । नीतिर्विधीयतां तत्र सांप्रतं या हिता भवेत् ।। 3
नावज्ञेयो रिपुस्तात प्राकृतोऽपि बुभूषता। किं पुनः पाण्डवाः शूरा विद्वांसो बलिनस्तथा ।। 4
तस्मात्सत्रं प्रविष्टेषु पाण्डवेषु महात्मसु । गूढभावेषु छन्नेषु काले चोदयमागते ।। 5
स्वराष्ट्रे परराष्ट्रे च ज्ञातव्यं बलमात्मनः । उदयः पाण्डवानां च प्राप्तकालो न संशयः ।। 6
निवृत्तसमयाः पार्था महात्मानो महाबलाः । महोत्साहा भविष्यन्ति पाण्डवा ह्यमितौजसः ।। 7
तस्माद्बलं च कोशं च नातिश्चापि विधीयताम्। यथा कालोदये प्राप्ते सम्यक् तैः संदधामहे ।। 8
यत्र यन्मन्यसे श्रेयो बुध्यस्व बलमात्मनः । नियतं सर्वमित्रेषु बलवत्स्वबलेषु च ।। 9
सारं फल्गु बलं ज्ञात्वा मध्यस्थं चापि भारत । स्वराष्ट्रपरराष्ट्रेषु ज्ञातव्यं बलमात्मनः ।। 10
अप्रहृशष्टं प्राहृष्टं वा संदधाम तथा परैः । साम्ना दानेन भेदेन दण्डेन बलिकर्मणा ।। 11
न्यायेनाक्रम्य च परान्बलाच्चानम्य दुर्बलान् । सान्त्वयित्वा च मित्राणि बलं चाभाष्यतां सुखम् ।। 12
स्वकोशबलसंवृद्धः सम्यक्सिद्धिमवाप्स्यसि । योत्स्यसे चापि बलिभिररिभिः प्रत्युपस्थितैः। अन्यैस्त्वं पाण्डवैर्वाऽपि हीनैः स्वबलवाहनैः ।। 13
एवं सर्वं विनिश्चित्य व्यवहर्तासि न्यायतः। यथाकालं मनुष्येन्द्र चिरं सुखमवाप्स्यसि ।। 14
भीष्माद्रोणकृपैरुक्ते कर्णदुःशासनादिभिः। ततो दुर्योधनो वाक्यं श्रुत्वा तेषां महात्मनाम् । मुहूर्तमनुसंचिन्त्य सचिवानिदमब्रवीत् ।। 15
श्रुतमेतन्मया पूर्वं कथासु जनसंसदि। धीराणां शास्त्रविदुषां प्राज्ञानां मतिनिश्चये । कृतिनां सारफल्गुत्वे जानामि नयचक्षुषा ।। 16
सत्वे बाहुबले धैर्ये प्राणे शारीरसंभवे। सांप्रतं मानुषे लोके सदैत्यनरराक्षसे ।। 17
चत्वारस्तु नरव्याघ्रा बले शक्रोपमा भुवि। उत्तमाः प्राणिनां तेषां नास्ति कश्चिद्बले समः ।। 18
बलदेवश्च भीमश्च मद्रराजश्च वीर्यवान् । चतुर्थः कीचकस्तेषां पञ्चमं नानुशुश्रुमः ।। 19
अन्योन्यानन्तरबलाः परस्परजयैपिणः। बाहूयुद्धमभीप्सन्तो नित्यं संरब्धमानसाः ।। 20
तेनाहमवगच्छामि प्रत्ययेन वृकोदरम्। मनस्यभिनिविष्टं मे व्यक्तं जीवन्ति पाण्डवाः ।। 21
तत्राहं कीचकं मन्ये भीमसेनेन मारितम्। सैरन्ध्रीं द्रौपदीं मन्ये नात्र कार्या विचारणा ।। 22
शङ्के कृष्णानिमित्तं तु भीमसेनेन कीचकः। गन्धर्वव्यपदेशेन हतो निशि महाबलः ।। 23
को हि शक्तः परो भीमात्कीचकं हन्तुमोजसा । शस्त्रं विना बाहुबलात्तथा सर्वाङ्गचूर्णने ।। 24
मर्दितुं वा तथा तीव्रं चर्ममांसास्थिचूर्णनम् । रूपमन्यत्समास्थाय भीमस्यैतद्विचेष्टितम् ।। 25
ध्रुवं कृष्णानिमित्तं तु भीमसेनेन सूतजाः । गन्धर्वव्यपदेशेन हता निशि न संशयः ।। 26