न चोरा न च दण्डाश्च न च बाधा भवन्त्युत। नाशक्ता न च दुष्टाश्च यत्र राजा युधिष्ठिरः ।। 40
भयं च नाविशेत्तत्र निष्प्रतीपं च दर्शनम्। बहुक्षीरास्तथा गावः सुपुष्टाश्च सुदोहनाः ।। 41
पयांसि दधिसर्पीषि रसवन्ति हितानि च । सलिलानि प्रसन्नानि सर्वे भावाश्च शोभनाः ।। 42
गुणवन्ति च पानानि भोज्यानि विविधानि च। तत्र देशे भविष्यन्ति यत्र राजा युधिष्ठिरः ।। 43
रसाः स्पर्शाश्च गन्धाश्च शब्दाश्चापि गुणान्विताः। दृश्यानि च प्रसन्नानि यत्र राजा युधिष्ठिरः ।। 44
धर्माश्च तत्र सर्वैस्तु सेविताश्च द्विजातिभिः। स्वैःस्वैर्गुणैश्च संयुक्ता कस्मिन्वर्षे त्रयोदशे । देशे तस्मिन्भविष्यन्ति तत पाण्डवसंश्रिते ।। 45
संप्रीतिमाञ्जनस्तत्र संतुष्टः शुचिरव्ययः। देवतातिथिभूयांस्तु सर्वभूतानुरागवान् ।। 46
इष्टदानमहोत्साहा नित्यं धर्मपरायणाः । व्यक्तवाक्यास्ततस्तात शुभकल्याणमङ्गलाः ।। 47
शुभत्विषः शुभेच्छाश्च नित्यतुष्टाः श्रियाऽन्विताः । भविष्यन्ति जनास्तत्र यत्र राजा युधिष्ठिरः ।। 48
नित्योत्सवप्रमुदितो नित्यहृष्टः श्रिया वृतः। भविष्यति निवासोऽयं यत्र राजा युधिष्ठिरः ।। 49
धर्मज्ञः स तु दुर्ज्ञेयः सर्वज्ञैश्च द्विजातिभिः। किंपुनः प्राकृतैस्तात पार्थो विज्ञायते क्वचित् ।। 50
यस्मिन्सत्यं धृतिर्दानं परा शान्तिर्ध्रुवा क्षमा। ह्रीः श्रीः कीर्तिः परं तेज आनृशंस्यमथार्जवम् ।। 51
तस्मान्निवासः पार्थानां चिन्त्यतां यद्ब्रवीमि वः । गतिर्वा परमा तत्र नोत्सहे वक्तुमन्यथा ।। 52
एवमेतत्तु संचिन्त्य यत्कृत्यं साधु मन्यसे। तत्क्षिप्रं कुरु कौरव्य यद्येतच्छ्रद्दधासि मे। कुलस्य हि क्षमं तात यदहं प्रब्रवीमि ते ।। 53
ततः शारद्वतो वाक्यमित्युवाच कृतस्तदा। युक्तं प्राप्तं च वृद्धेन पाण्डवान्प्रति भापितम् ।। 1
धर्मार्थसहितं श्लक्ष्णं सर्वं सत्यं सहेतुकम्। तत्रानुरूपं भीष्मस्य ममापि वचनं शृणु ।। 2
तेषां चैव गतिस्तत्र र्निवासश्चानुचिन्त्यताम् । नीतिर्विधीयतां तत्र सांप्रतं या हिता भवेत् ।। 3
नावज्ञेयो रिपुस्तात प्राकृतोऽपि बुभूषता। किं पुनः पाण्डवाः शूरा विद्वांसो बलिनस्तथा ।। 4
तस्मात्सत्रं प्रविष्टेषु पाण्डवेषु महात्मसु । गूढभावेषु छन्नेषु काले चोदयमागते ।। 5
स्वराष्ट्रे परराष्ट्रे च ज्ञातव्यं बलमात्मनः । उदयः पाण्डवानां च प्राप्तकालो न संशयः ।। 6
निवृत्तसमयाः पार्था महात्मानो महाबलाः । महोत्साहा भविष्यन्ति पाण्डवा ह्यमितौजसः ।। 7
तस्माद्बलं च कोशं च नातिश्चापि विधीयताम्। यथा कालोदये प्राप्ते सम्यक् तैः संदधामहे ।। 8
यत्र यन्मन्यसे श्रेयो बुध्यस्व बलमात्मनः । नियतं सर्वमित्रेषु बलवत्स्वबलेषु च ।। 9
सारं फल्गु बलं ज्ञात्वा मध्यस्थं चापि भारत । स्वराष्ट्रपरराष्ट्रेषु ज्ञातव्यं बलमात्मनः ।। 10
अप्रहृशष्टं प्राहृष्टं वा संदधाम तथा परैः । साम्ना दानेन भेदेन दण्डेन बलिकर्मणा ।। 11
न्यायेनाक्रम्य च परान्बलाच्चानम्य दुर्बलान् । सान्त्वयित्वा च मित्राणि बलं चाभाष्यतां सुखम् ।। 12
स्वकोशबलसंवृद्धः सम्यक्सिद्धिमवाप्स्यसि । योत्स्यसे चापि बलिभिररिभिः प्रत्युपस्थितैः। अन्यैस्त्वं पाण्डवैर्वाऽपि हीनैः स्वबलवाहनैः ।। 13
एवं सर्वं विनिश्चित्य व्यवहर्तासि न्यायतः। यथाकालं मनुष्येन्द्र चिरं सुखमवाप्स्यसि ।। 14
भीष्माद्रोणकृपैरुक्ते कर्णदुःशासनादिभिः। ततो दुर्योधनो वाक्यं श्रुत्वा तेषां महात्मनाम् । मुहूर्तमनुसंचिन्त्य सचिवानिदमब्रवीत् ।। 15
श्रुतमेतन्मया पूर्वं कथासु जनसंसदि। धीराणां शास्त्रविदुषां प्राज्ञानां मतिनिश्चये । कृतिनां सारफल्गुत्वे जानामि नयचक्षुषा ।। 16