शुद्धात्मा मानवान्पार्थः सत्यवान्नीतिमाञ्शुचिः । तेजोराशिभिरापूर्णो दहेदपि च चक्षुषा ।। 10
तस्माद्यत्नश्च क्रियतां भूयश्च मृगयामहे। ब्राह्मणैश्चारकैः सिद्धैस्तापसैर्निपुणैरपि ।। 11
विविधैस्तत्परैः सम्यङ्विर्भीकैस्तज्ज्ञसंमतैः । अन्वेष्टव्या मनुष्येन्द्र पाण्डवाश्छन्नचारिणः ।। 12
ततः शान्तनवो धीमान्भारतानां पितामहः । श्रुतवान्देशकालज्ञो नीतिमांश्च महामतिः ।। 13
तस्मिन्नुपरते वाक्ये आचार्यस्य महात्मनः । अनन्तरमुवाचेदं वाक्यं हेत्वर्थसंमितम् ।। 14
युधिष्ठिरे समायुक्तां धर्मज्ञे धर्मसंहिताम्। पाण्डवे नित्यमव्यग्रां गिरं भीष्मः समाददे ।। 15
असत्सु दुर्लभां नित्यं सतां चाभिमतां सद। भीष्मस्त्वभ्यवदत्तत्र गिरं साधुभिरर्चिताम् ।। 16
यथा नो ब्राह्मणोऽवादीदाचार्यः सर्वधर्मवित्। श्रुतवृत्तोपसंपन्ना नाशं नायान्ति पाण्डवाः ।। 17
सर्वलक्षणसंपन्नाः साधुवृत्तसमन्विताः। वृद्धानुशासने यत्ताः सत्यधर्मपरायणाः ।। 18
समयं समयज्ञास्ते पालयन्तः शुभव्रताः। न विषीदन्ति ते पार्था उद्वहन्तः सतां धुरम् ।। 19
तपसा चैव गुप्तास्ते स्ववीर्येण च पाण्डवाः। न नाशमभिगच्छेयुरिति मे नैष्ठिकी मतिः ।। 20
क्षत्रधर्मरता नित्यं केशवानुगताः सदा। प्रवीरपुरुषास्ते वै महात्मानो महाबलाः ।। 21
तत्र बुद्धिं प्रवक्ष्यामि पाण्डवान्वेषणे शृणु। न तु नीतिः सुनीतस्य शक्यते वेदितुं परैः ।। 22
यत्तु शक्यमिहास्माभिस्तान्वै संचिन्त्य पाण्डवान्। बुद्ध्या प्रणेतुं तत्तेऽहं प्रवक्ष्यामि निबोध तत् ।। 23
न त्वियं साधु वक्तव्या तस्य नीतिः कथंचन । वृद्धानुशासने तात तिष्ठतः सत्यशीलिनः ।। 24
अयुक्तं तु मया वक्तुं तुल्या मे कुरुपाण्डवाः। निवासं पाण्डुपुत्राणां संचिन्त्य च वदाम्यहम्। बहुना किं प्रलापेन यतो धर्मस्ततो जयः ।। 25
अवश्यं तु नियुक्तेन सभामध्ये विवक्षता। यथार्हमिह वक्तव्यं सर्वथा धर्मलिप्सया ।। 26
यत्र नाहं तथा मन्ये यथाऽन्ये मेनिरे जनाः। निवासं पाण्डुपुत्राणां शृणुष्वं मनुजाधिप ।। 27
[भ्रातृभिः सहितो वीरैः कृष्णया च महायशाः। किमर्थं स महाराजो नात्मश्रेयो भविष्यति ।। 28
पाण्डवो निकृतः पूर्वं यथावद्विदितं तव। क्लेशितश्च पुरे नित्यं राज्यकामैश्च सांप्रतम्। छन्नश्चरति तस्मात्स प्रकृत्या नीतिमान्नृपः ।। 29
वर्षमेकं सुसंच्छन्नमुष्य वासमनुत्तमम्। आयाति चोदये काले क्षिप्रं दक्ष्यसि पाण्डवं ।। 30
सोदरैः सहितं वीरं द्रौपद्या च परंतप। संविधत्स्व महाबाहो यथा नः स्यात्सुखोदयः ।। 31
यस्मिन्स राजा वसति च्छन्नः सत्त्वभृतांवरः। भविष्यन्ति नरास्तत्र रागमोहविवर्जिताः ।। 32
नाधयो हि महाराज न व्याधिः क्षत्रियर्षभ]। पुरे जनपदे वाऽपि यत्र राजा युधिष्ठिरः ।। 33
दानशीलो वदान्यश्च निभृतो ह्रीनिषेवकः। प्रियवाक्सत्यवाक्शूरो धर्मशीलो जितेन्द्रियः। हृष्टः पुष्टः शुचिर्दक्षो यत्र राजा युधिष्ठिरः ।। 34
नासूयको न चापीर्ष्युर्नाभिमानी न मत्सरी। भविष्यति जनस्तत्र स्वयं धर्ममनुव्रतः ।। 35
ब्रह्मघोषाश्च भूयांसः पुण्यशब्दास्तथैव च। क्रतवश्च भविष्यन्ति भूयांसो भूरिदक्षिणाः ।। 36
सदा च तत्र पर्जन्यः सम्यग्वर्षी न संशयः । संपन्नसस्या च मही भविष्यति निरामया ।। 37
रसवन्ति च धान्यानि गुणवन्ति फलानि च। गन्धवन्ति च माल्यानि शुभशब्दा च भारती ।। 38
वायुश्च सुखसंस्पर्शो यत्र राजा युधिष्ठिरः । नीरोगास्तत्र विद्यन्ते वधबन्धा न सन्ति च ।। 39