अल्पावशिष्टः कालस्तु गतो भूयिष्ठ एव च। तेषामज्ञातचर्यायामस्मिन्वर्षे त्रयोदशे ।। 3
अपि वर्षस्य शेषं ते ह्यतीयुरिह पाण्डवाः। निवृत्तसमयास्ते हि सत्यव्रतपरायणाः ।। 4
क्षरन्त इव नागेन्द्राः सर्वे ह्याशीविषोपमाः । दुःखाद्भवेयुः संरब्धाः कौरवान्प्रति ते ध्रुवम् ।। 5
विज्ञातव्या मनुष्येन्द्रास्तर्कया सुप्रणीतया। निपुणैश्चारपुरुषैः प्राज्ञैर्दक्षैः सुसंवृतैः ।। 6
अज्ञातसमये ज्ञाताः कृच्छ्ररूपसमाश्रिताः। प्रविशेयुर्जितक्रोधास्तावदेव पुनर्वनम् ।। 7
तस्मात्क्षिप्रं विचिन्वध्वं यथा चात्यन्तमव्ययम्। राज्यं निर्द्वन्द्वमव्यग्रं निःसपत्नं चिरं भवेत् ।। 8
दुर्योधनेनैवमुक्ते वचनेऽतीव दुःखिना। ततः कर्णोऽब्रवीद्वाक्यं सत्यधर्मार्थसंयुतम् ।। 9
एते पुनर्न गच्छन्तु अन्ये गच्छन्तु भारत । शीघ्रवृत्ता नरा योग्या निपुणाश्छन्नचारिणः ।। 10
चरन्तु देशान्विविधान्स्फीताञ्जनपदाकुलान् । तत्र गोष्ठीषु रम्यासु सिद्धा ब्राह्मणरूपिणः ।। 11
परिवाहेषु तीर्थेषु विविधेष्वाकरेषु च। अन्वेष्टव्या मनुष्येन्द्र पाण्डवाश्छन्नचारिणः ।। 12
नदीकुञ्जेषु तीर्थेषु ग्रामेषु नगरेषु च। आश्रमेषु च रम्येषु पर्वतेषु गुहासु च ।। 13
विज्ञातव्या मनुष्येन्द्र तर्कया सुविनूतया । विविधैस्तत्परैः सम्यङ्विपुणैस्तज्ज्ञसंमतैः ।। 14
अथाग्रजानन्तरजो भ्रातुः प्रियहिते रतः। ज्येष्ठं दुःशासनस्तत्र भ्राता भ्रातरमब्रवीत् ।। 15
येषु नः प्रत्ययो राजंश्चारेषु मनुजाधिप। ते यान्तु दत्तदेया वै भूयस्तान्परिमार्गितुम् ।। 16
यदाह कर्णो राजेन्द्र सर्वमेतदवेक्ष्यताम् । यथोद्दिष्टं चराः सर्वे मृगयन्तु यतस्ततः ।। 17
घ्राणैः पश्यन्ति पशवो वेदैरेव द्विजोत्तमाः। चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ।। 18
यथोक्ताश्चारपुरुषा मृगयन्तु पुनःपुनः । एते चान्ये च बहवो देशांश्च नगराणि च ।। 19
न हि तेषां गतिर्वासः प्रवृत्तिर्वोपलभ्यते। अत्यन्तं वा निगूढास्ते पारं वोर्मिमतो गताः ।। 20
व्यालैर्वाऽपि महारण्ये भक्षिताः शूरमानिनः। द्वीपं वा परमं प्राप्ता गिरिदुर्गवनेष्वपि ।। 21
हीनदर्पा निराशास्ते भक्षिता वाऽपि राक्षसैः । अथवा विषमं प्राप्य विनष्टाः शाश्वतीः समाः ।। 22
तस्मान्मानसमव्यग्रं कृत्वाऽऽत्मानं नियम्य च। कुरु कार्यं महोत्साहं मन्यसे यन्नराधिप ।। 23
अथाऽब्रवीत्सभामध्ये द्रोणः सूक्ष्मार्थदर्शिवान्। न तादृशा विनश्यन्ति नापि यान्ति पराभवम् ।। 1
शूराश्च कृतविद्याश्च बुद्धिमन्तो जितेन्द्रियाः। धर्मज्ञाः सत्यसन्धाश्च युधिष्ठिरमनुव्रताः ।। 2
नीतिधर्मार्थतत्वज्ञं पितृवच्च समाहितम्। धर्मे स्थितं सत्यधृतिं ज्येष्ठं श्रेष्ठापचायिनम् ।। 3
अनुव्रता महात्मानो भ्रातरो भ्रातरं प्रियम् । अजातशत्रुं श्रीमन्तं सर्वभ्रातॄननुव्रतम् ।। 4
तेषां तथाविधेयानां निभृतानां महात्मनाम् । किमर्थं नीतिमान्प्राज्ञः श्रेयो नैषां करिष्यति ।। 5
तस्माद्यत्नात्परीक्षध्वं न तावत्समयो गतः। न ते विनाशमृच्छेयुरिति मे नैष्ठिकी मतिः ।। 6
चिन्त्यतां चैव यत्कार्यं तच्च क्षिप्रमकालिकम् । क्रियतां साधु संचिन्त्य वासश्चैषां प्रचिन्त्यतां ।। 7
यथा च पाण्डुपुत्राणां सर्वार्थेषु धृतात्मनाम् । प्रवृत्तिरुपलभ्येत तथा नीतिर्विधीयताम् ।। 8
सर्वोपायैर्यतस्व त्वं यथा पश्यसि पाण्डवान् । दुर्ज्ञेयाः खलु शूरास्ते रक्ष्या नित्यं च दैवतैः ।। 9