प्रजारक्षणदक्षश्च शत्रुग्रहणशक्तिमान्। विजितारिर्महायुद्धे प्रचण्डो मानतत्परः ।। 30
नरनारीमनोह्लादी धीरो वाग्मी रणप्रियः। पुण्यकर्माऽर्थकामानां भाजनं मनुजोत्तमः ।। 31
स हतो निशि गन्धैर्वः स्त्रीनिमित्तं नराधिप। अमृष्यमाणो दुष्टात्मा निशीथे सह सोदरैः । सुहृदश्चास्य निहता योधाश्च प्रहरैर्हताः ।। 32
गन्धर्वाणां च महिषी काचिदस्ति नितम्बिनी। सैरन्ध्री नाम तां दृप्तो दुष्टात्माऽकामयद्बली ।। 33
इत्येवं श्रुतमस्माभिर्गन्धर्वैर्निहतो निशि ।। 34
बान्धवैर्बहुभिः सार्धं कीचको निहतो यतः। अद्यप्रभृति राजेन्द्र पाण्डवान्वेषणं प्रति। चारांश्च सर्वतश्चर्तुं प्रेषयेति मतिर्हि नः ।। 35
निहतो निशि गन्धर्वैर्दुष्टात्मा भ्रातृभिः सह । एतावच्छ्रुतमस्माभिर्भद्रं तेऽस्तु नराधिप ।। 36
प्रियमेतदुपश्रुत्य शत्रूणां च पराभवम् । कृतकृत्यश्च कौरव्य विधत्स्व यदनन्तरम् ।। 37
ततो दुर्योधनो राजा श्रुत्वा तेषां वचस्तदा। चिरमन्तर्मना भूत्वा इदमाह सभासदः ।। 1
अशक्यं खलु कार्यस्य गतिं ज्ञातुं हि तत्वतः । तस्मात्सर्वे परीक्षध्वं क्वनु स्युः पाण्डवा गताः ।। 2
अल्पावशिष्टः कालस्तु गतो भूयिष्ठ एव च। तेषामज्ञातचर्यायामस्मिन्वर्षे त्रयोदशे ।। 3
अपि वर्षस्य शेषं ते ह्यतीयुरिह पाण्डवाः। निवृत्तसमयास्ते हि सत्यव्रतपरायणाः ।। 4
क्षरन्त इव नागेन्द्राः सर्वे ह्याशीविषोपमाः । दुःखाद्भवेयुः संरब्धाः कौरवान्प्रति ते ध्रुवम् ।। 5
विज्ञातव्या मनुष्येन्द्रास्तर्कया सुप्रणीतया। निपुणैश्चारपुरुषैः प्राज्ञैर्दक्षैः सुसंवृतैः ।। 6
अज्ञातसमये ज्ञाताः कृच्छ्ररूपसमाश्रिताः। प्रविशेयुर्जितक्रोधास्तावदेव पुनर्वनम् ।। 7
तस्मात्क्षिप्रं विचिन्वध्वं यथा चात्यन्तमव्ययम्। राज्यं निर्द्वन्द्वमव्यग्रं निःसपत्नं चिरं भवेत् ।। 8
दुर्योधनेनैवमुक्ते वचनेऽतीव दुःखिना। ततः कर्णोऽब्रवीद्वाक्यं सत्यधर्मार्थसंयुतम् ।। 9
एते पुनर्न गच्छन्तु अन्ये गच्छन्तु भारत । शीघ्रवृत्ता नरा योग्या निपुणाश्छन्नचारिणः ।। 10
चरन्तु देशान्विविधान्स्फीताञ्जनपदाकुलान् । तत्र गोष्ठीषु रम्यासु सिद्धा ब्राह्मणरूपिणः ।। 11
परिवाहेषु तीर्थेषु विविधेष्वाकरेषु च। अन्वेष्टव्या मनुष्येन्द्र पाण्डवाश्छन्नचारिणः ।। 12
नदीकुञ्जेषु तीर्थेषु ग्रामेषु नगरेषु च। आश्रमेषु च रम्येषु पर्वतेषु गुहासु च ।। 13
विज्ञातव्या मनुष्येन्द्र तर्कया सुविनूतया । विविधैस्तत्परैः सम्यङ्विपुणैस्तज्ज्ञसंमतैः ।। 14
अथाग्रजानन्तरजो भ्रातुः प्रियहिते रतः। ज्येष्ठं दुःशासनस्तत्र भ्राता भ्रातरमब्रवीत् ।। 15
येषु नः प्रत्ययो राजंश्चारेषु मनुजाधिप। ते यान्तु दत्तदेया वै भूयस्तान्परिमार्गितुम् ।। 16
यदाह कर्णो राजेन्द्र सर्वमेतदवेक्ष्यताम् । यथोद्दिष्टं चराः सर्वे मृगयन्तु यतस्ततः ।। 17
घ्राणैः पश्यन्ति पशवो वेदैरेव द्विजोत्तमाः। चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ।। 18
यथोक्ताश्चारपुरुषा मृगयन्तु पुनःपुनः । एते चान्ये च बहवो देशांश्च नगराणि च ।। 19
न हि तेषां गतिर्वासः प्रवृत्तिर्वोपलभ्यते। अत्यन्तं वा निगूढास्ते पारं वोर्मिमतो गताः ।। 20
व्यालैर्वाऽपि महारण्ये भक्षिताः शूरमानिनः। द्वीपं वा परमं प्राप्ता गिरिदुर्गवनेष्वपि ।। 21
हीनदर्पा निराशास्ते भक्षिता वाऽपि राक्षसैः । अथवा विषमं प्राप्य विनष्टाः शाश्वतीः समाः ।। 22