इत्युक्तवा राजशार्दूल राज्ञे सर्वं न्यवेदयत् । त्रिंशद्रात्रिमिमां भीरुः कृतकृत्या निवासये ।। 47
कीचके तु हते राजा विराटः परवीरहा। शोकमाहारयत्तीव्रं सामात्यः सपुरोहितः ।। 1
कीचकस्य वधं घोरं सानुजस्य विशांपते । अत्याहितं चिन्तयित्वा व्यस्मयन्त पृथग्जनाः ।। 2
तस्मिन्पुरे जनपदे जजल्पुश्चापि सर्वशः । वीर्यवान्दयितो राज्ञो दर्पोत्सिक्तश्च कीचकः ।। 3
सांपराये परिक्रुष्टो बलवान्दुर्जयो रणे। आसीत्प्रहर्ता शत्रूणां दारदर्शी च दुर्मतिः । स हतः किल गन्धर्वैः सैरन्ध्रीकारणान्निशि ।। 4
इत्यजल्पन्महाराज कीचकस्य विनाशनम् । देशेदेशे मनुष्याश्च विस्मितः कीचके हते ।। 5
अथ वैः धार्तराष्ट्रेण प्रयुक्ता ये बहिश्चराः । मृगयित्वा बहून्देशान्ग्रामांश्च नगराणि च ।। 6
संविधाय यथाऽऽदिष्टं यथादेशं प्रदर्शकाः । कृतसंकेतनाः सर्वे न्यवर्तन्त पुरं ततः ।। 7
आगम्य हास्तिनपुरं धार्तराष्ट्रमरिन्दमम्। तत्र दृष्ट्वा तु राजानं कौरव्यं धृतराष्ट्रजम् ।। 8
द्रोणकर्णकृपैः सार्धं भीष्मेण च महात्मना। संगतं भ्रातृभिः सार्धं त्रिगर्तैश्च महारथैः ।। 9
प्रणम्य शिरसा भूमौ वर्धयित्वा जयाशिषा। आसीनं सूर्यसंकाशे काञ्चने परमासने ।। 10
उपास्यमानं सचिवैर्मरुद्भिरिव वासवम् । विद्वद्भिर्गायकैः सार्धं कविभिः स्तुतिपाठकैः ।। 11
अनेकैरपि राजन्यैः सेवितं सपरिच्छदैः। दुर्योधनं सभामध्ये आसीनमिदमब्रुवन् ।। 12
कृतोऽस्माभिः परो यत्नस्तेषामन्वेषणे सदा । पाण्डवानां मनुष्येन्द्र तस्मिन्महति कानने ।। 13
निर्जने व्यालसंकीर्णे नानाभ्रमरसंकुले । लताप्रतानगहने नानागुल्मसमावृते ।। 14
न च विद्मो गता येन पार्थाः सुदृढविक्रमाः । मार्गमाणाः पदन्यासमाश्रमेषु वनेषु च ।। 15
गिरिकूटेषु तुङ्गेषु नानाजनपदेषु च। जनाकीर्णेषु देशेषु चत्वरेषु पुरेषु च ।। 16
नरेन्द्र सहसा नष्टान्नैव विद्म च पाण्डवान्। अत्यन्तादर्शनान्नष्टा भद्रं तुभ्यं नरर्षभ ।। 17
गिरीणां कूटकुञ्जेषु कन्दरोदरसानुषु। नदीप्रस्रवणेष्वेव ह्रदेषु च सरस्सु च।। 18
गह्वरेषु च दुर्गेषु ग्रामेषू पवनेषु च। दुर्विज्ञेया गतिस्तेषां मृग्यतेऽस्माभिरेव च ।। गजव्याघ्रसमीपेषु सिंहान्ते शरभान्तरे ।। 19
वत्मन्यन्विच्छमानास्तु रथानां रथिसत्तम। कंचित्कालं मनुष्येन्द्र सूताननुगता वयम् ।। 20
मृगयित्वा यथान्यायं विदितार्थाश्च तत्वतः। प्राप्ता द्वारवतीं सूता विना पार्थैः परंतप ।। 21
न तत्र कृष्णा राजेन्द्र पाण्डवाश्च महाव्रताः। नरदेव यथोद्दिष्टं न च विद्मात्र पाण्डवान् ।। 22
निर्वृतो भव नष्टास्ते स्वस्थो भव परंतप । सर्वथैव प्रनष्टास्ते नमस्ते भरतर्षभ ।। 23
सर्वा च पृथिवी कृत्स्ना सशैलवनकानना । सराष्ट्रनगरग्रामा पत्तनैश्च समन्विता । अन्वेषिता च सर्वत्र न च पश्यामा पाण्डवान् ।। 24
पुनः शाधि मनुष्येन्द्र अत ऊर्ध्वं विशांपते। अन्वेषणे पाण्डवानां भूयः किं करवामहे ।। 25
इमां च नः प्रियां वीर वाचं भद्रवतीं शृणु ।। 26
येन त्रिगर्ता निहता बलेन बहुशो नृप। सूतेन राज्ञो मत्स्यस्य कीचकेन बलीयसा। स हतः पतितः शेते गन्धर्वैर्निशि भारत ।। 27
स्यालो राज्ञो विराटस्य सेनापतिरुदारधीः। सुदेष्णायानुजः क्रूरः शूरो वीरो गतव्यथः ।। 28
उत्साहवान्महावीर्यो नीतिमान्बलवानपि । युद्धज्ञो रिपुवीर्यघ्नःक सिंहतुल्यपराक्रमः ।। 29